________________
परिच्छेद: ]
रुचिराख्यया व्याख्यया समेतः ।
इत्यत्र ' निस्तन्द्र ' इत्यादिलक्षणामूलध्वनीनां संसृष्टिः । अथ गुणीभूतव्यङ्ग्यम्—
२९६ अपरं तु गुणीभूतव्यङ्गयं वाच्यादनुत्तमे व्यङ्गये । अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति ।
२९७ तत्र स्यादितराङ्गं काकाक्षिप्तं च वाच्यसिद्ध्यङ्गम् ॥ २९९ ॥ सन्दिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् । व्यङ्गयमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ २९२ ॥
1. इतरस्य रसादेरङ्गं रसादिव्यङ्ग्यम् । यथा
इत्यत्र प्रागुदाहृते पद्ये इत्यर्थः । निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां निस्तन्द्रेत्यादिषु या लक्षणा सा मूलं येषां तादृशा ये ध्वनयस्तेषां तथोक्तानाम् । संसृष्टिः । अयम्भावः - 'तन्द्रा निद्राप्रमीलयो:' इत्यमरोक्त्या तन्द्रा निद्राऽक्षिप्रमीलनावस्था वा सा निर्गताऽस्येति निस्तन्द्रः, इत्येवं निस्तन्द्रपदेन निद्र। तत्पूर्वापरावस्थाऽन्यतररहित उच्यते, चन्द्रे च तत्त्वस्यानुपयोगिता प्रकाशमानत्वाभावाभावोऽर्थो लक्ष्यते तदतिशयश्च प्रयोजनम् । एवम् सौहृदपदेन प्रेमोच्यते, तत्सादृश्यं च लक्ष्यते तदतिशयश्च प्रबोध्यमानः प्रयोजनम्, तथा - गर्वपदेनाभिमानः प्रोच्यते, तस्य च समीरणेऽसम्भ. वादुत्कर्षो लक्ष्यते तदतिशयबोधनं च फलम् । तदिति लक्ष्यमाणेष्वर्थेषु वाच्यार्थस्यार्थान्तरसङ्क्रमितत्वादत्यन्ततिरस्कृतवाच्यत्वम् । एतेषां च त्रिविधेषु सङ्करेष्वनन्तर्भावात् संसृष्टिरिति ।
एवं ध्वनिं निरूप्य गुणीभूतव्यङ्गयं निरूपयितुमाह- अथेत्यादि ।
अथ । गुणीभूतव्यङ्ग्यम् 'लक्ष्यते' इति शेषः । २९६ अपरं त्वित्यादिना ।
२९६ वाच्यात अभिधाप्रतिपाद्यादर्थात् तदपेक्षयेति यावत् । व्यङ्ग्ये व्यञ्जनया बोध्येऽर्थे । अनुत्तमेऽनुकष्टे सतीत्यर्थः । अपरं भिन्नं काव्यम् 'ध्वनिकाव्या' दिति शेषः । तु । गुणीभूतव्यङ्गयं गुणीभूतमप्रधानभूतचमकारं व्यंज्ञयं व्यञ्जनया बोध्यं यत्र तादृशम् । 'भवती 'ति शेषः ।
कारिकां सुगमयति- अपरमित्यादिना । स्पष्टम् । तत्राद्यं यथा - "ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ||" इत्यत्र मुखच्छायाया मालिन्यातिशयप्रतिपादको वाच्योऽर्थः तदपेक्षया 'वञ्जुलगृहे दत्तसङ्केताऽपि न गता तरुणी ति व्यङ्गयं न्यूनचमत्कारम् । द्वितीयं यथा - 'ब्राह्मणातिक्रमत्याग' इत्याद्युदाहरिष्यत्येव ।
अस्य पुनर्भेदानन्यानाह - २९७ तत्रेत्यादिना ।
. २९७ तत्र तस्मिन् गुणीभूतव्यङ्गयकाव्य इत्यर्थः । व्यङ्ग्यम् । इतराङ्गमितरस्य रसादेर्वाक्यार्थस्य वांsङ्गमङ्गभूतम् । काकाक्षिप्तं काऽऽक्षिप्तमाक्षेपेण सिद्धमिति तथोक्तम् । च तथा । वाच्यसिद्ध्यङ्गं वाच्यस्याभिधाप्रतिपाद्यस्यार्थस्य ( कुतोऽपि वैगुण्यादसिद्धस्य ) सिद्धि: सिद्धतया सम्पत्तिस्तस्या अङ्गम् । आपाततः प्रतीतस्य वांच्यार्थस्य प्रतिसन्धानानुपपत्तिनिवर्त्तकमिति भावः । सन्दिग्धप्राधान्यं सदिग्धं ( वाच्यव्यङ्गययोः ) सन्देहास्पदं प्राधान्यं यत्र तादृशम् । तुल्यप्राधान्यं तुल्यं ( वाच्यस्य ) समकक्षं प्राधान्यं ( व्यङ्ग्यस्य ) चमत्कारोल्लासो यत्र तथोक्तम् । वाच्यस्य चमत्कारेण समकक्षो यस्य चमत्कारस्तथाभूतमित्यर्थः । अस्फुटं न स्फुटं सहदयैरपि झटित्यवगन्तुं शक्यमिति तथोक्तम् । अगूढं न गूढं सहृदयेतरैरपि झटिति बोध्यम् । एवम् । असुन्दरं चमत्कारव्यपदेशानर्हम् । स्यात् । तस्मात् तस्य गुणीभूतव्यङ्गयस्य । अष्टौ । भेदाः । उदिताः कथिताः । अयम्भावः - गुणीभूतव्यङ्गयं हि काव्य व्यङ्ग्यस्य इतराङ्गत्वाष्टविधत्वेनेतराङ्गाद्यष्टविधम् । इति ॥ २९१ ॥ २९२ ॥ क्रमादुदाहर्तुकाम आह - इतरस्येत्यादि ।
इतरस्य स्वस्माद् भिन्नस्य । रसादेः । अङ्गम् अङ्गभूतमित्यर्थः । रसादिव्यङ्ग्यम् । तद्रूपमितरा नाम गुणीभूतव्यङ्गयं काव्यमित्यर्थः । यथा