________________
३६६
साहित्यदर्पण: ।..
शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेत्यर्थः । दिङ्मात्रं तूदाहियते
66
अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्रकूसम्भार मङ्गलमयत्नकृतं विधत्ते ॥ २०८ ॥
. [ चतुर्थ:
इत्यत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
" धिन्वन्त्यमूनि मदमूच्छंद लिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्द सौरभ्यसौरभसगर्वसमीरणानि ॥ २०९ ॥
31
न्यायेन पुड्केक्षुरसेष्विव ध्वनिष्वपि हृद्यत्वातिशयानतिशय व्यपेक्ष्यार्थान्तरसङ्क्रमितवाच्यस्य यत्रातिशयः तत्रान्ततिरस्कृतवाच्येन तयोजनम्, यत्र तु अर्थान्तरसङ्क्रमितवाच्यापेक्षयाऽत्यन्ततिरस्कृतवाच्येऽतिशयस्तत्रात्यन्तं तिरस्कृतवाच्यस्यार्थान्तरसङ्क्रमितवाच्येन योजनम् । तथैव तेषां व्यपदेशः, व्यक्तिभेदमादाय विजातीयवत्सजातीयेनापि योजनेभेदान्तरस्वीकारौचित्यात् ।' इत्याहुः । तन्नातिपेशलम् एवं गुणननयस्वीकारे वक्ष्यमाणविरोधभेदाभिधानेऽपि एतस्यैव गुणननयस्य स्वीकारौचित्ये 'जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद् गुणास्त्रिभिः । क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥' इति वक्तुमयुक्तत्वस्यापत्स्यमानत्वात्, किन्तु - 'गुणजातिक्रियाद्रव्यैश्चतुर्भिश्च परस्परम् । गुणादीनां चतुर्णी हि भेदाः पोडशयोजने ॥' इत्येवं वक्तुं युक्तत्वस्यापत्स्यमानत्वात् । चमत्कारस्य यथातथं तथाऽपि सुसम्भवात् ॥ २८९ ॥ २९० ॥ कारिकां सुगमयितुमाह-शुद्धैरित्यादि । स्पष्टम् ।
सर्वेषां भेदानामुदाहरणाशक्यत्वादाह-दिङ्मात्रमित्यादि ।
दिङ्मात्रं मार्गनिदर्शनमात्रमित्यर्थः । तु । उदाह्रियते ध्वनि 'रिति शेषः । “अत्युन्नत..." इत्यादिना ।
66 'अत्युन्नतस्तनयुगाsत्युन्नतं स्तनयुगं यस्यास्तादृशी । तरलायताक्षी तरले चञ्चले आयते दीर्घे अक्षिणी यस्यास्तादृशी । तदुपयानमहोत्सवाय तस्य पत्युरुपयानं विदेशतः स्वगृहं प्रति यानं तेन महोत्सवस्तस्मै तं प्रकट यितुमिति भावः । तुमर्थेयं चतुर्थी । द्वारि । स्थिता । अत एव सा तद्गेहिनी युवतीति यावत् । अयत्नकृतं विना यत्नेन सम्पादितम् । पूर्णकुम्भनवनीरजतोरणस्रक् सम्भारमङ्गलं पूर्णकुम्भौ च नवनीरजतोरणस्रजौ चेति तास ! सम्भारः सम्पादनमेव मङ्गलं तत्तथोक्तम् । नवानि नीरजानि कमलानि तेषां तोरणस्रजौ बहिर्द्वारस्य माले । विधत्ते । महोत्सवे हि पूर्ण कुम्भद्वयं नीरजादिस्रजश्च बहिद्वारेऽलङ्कियन्ते, अत्र च द्वारि स्थिताया युवत्या उच्च स्तनद्वयं तदेव तथाभूतकुम्भवत्, तरले आयते च नेत्रे द्वारस्य भागद्वये माले इवालम क्रियेतामिति भावः । प्रवासादागच्छति पत्यौ तत्पत्न्या द्वारि स्थिताया वर्णनमिदम् । वसन्ततिलकं वृत्तम् ॥ २०८ ॥”
इत्यत्र । प्रागुदाहृते पद्य इत्यर्थः । स्तनौ । एव । पूर्णकुम्भौ कलशौ । दृष्टयः । एव । नवनीरजस्रजः । इति । रूपकध्वनिरसध्वन्योः । एकाश्रयानुप्रवेशः । सङ्करः । अयम्भावः-स्तनयोर्लोचनयोश्च यथाक्रमं पूर्णकुम्भद्वयात्मना तोरणस्रगात्मना च रूपकध्वनिः । तेषामेव नायकरतेरुद्दीपकतया रसश्च शृङ्गारो ध्यन्यमान इत्येवमेतयो रेकत्रैवाश्रितत्वादेकाश्रयानुप्रवेशः सङ्करचेति ।
"अमूनि । मदमूर्च्छदलिध्वनीनि मदेन मूर्च्छन्तस्तदुत्कटतां प्रकटयन्तो येऽलयो मधुपास्तेषां ध्वनयो यत्र तथाभूतानि यद्वा-मदेन मूर्च्छन्तो मूर्छा ( रागविशेषस्यावस्थाविशेषम् ) प्रकटयन्तोऽलिध्वनयो यत्र तानि । अत एव धूताध्वनीनहृदयानि धूतानि अध्वनीनानां पान्थानां हृदयानि यैस्तादृशानि । निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृद सगर्वसमीरणानि निस्तन्द्र उदितः परिपूर्णमण्डलतया स्वस्वरूपं याथाSSत्म्येन प्रकटयितुमुद्यत इति यावत् यश्चन्द्रस्तद्वद्वदनं मुखं यासां तासां वदनारविन्दानि वदनान्यरविन्दानीवेति तेषां सौरभ्यं तेन यत्सौहृदं तेन सगर्वः समीरणो यत्र तथाभूतानि । नीचो हि महद्भिः संसक्तः स्वप्रतिष्ठालाभामादेन गर्वितो भवतीति सिद्धम् । मधोर्वसन्तस्य । "मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च जीवाशोके मधुमे ॥" इति विश्वः । दिनानि । धिन्वन्ति प्रीणयन्ति । 'लोक 'मिति शेषः । वसन्ततिलकं वृत्तम् ॥ २०९ ॥”