________________
परिच्छेदः ।
रुचिरारुपया व्याख्यया समेतः। प्रौढोक्तिसिद्धार्थशक्तिमूलोऽलकारेण वस्तुध्वनिः ( ३७ ) वाक्यगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (३८) वाक्यगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कार ध्वनिः (३९) कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः (४०) वाक्यगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनि: (४१) प्रबन्धगतः कविनिबद्धप्रोढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (४२) प्रवन्धगतः कविनिबद्धप्रो. ढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्मरध्वनिः (४३) प्रबन्धगतः कविनिवद्धनौटोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः ( ४४ ) प्रबन्धगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः (४५ ) प्रबन्धगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः (४६ ) वाक्यगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ( ४७ ) प्रबन्धगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ( ४८ ) पदैकदेशगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः (४९) रचनागतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः (५०) वर्णगतोऽसंलक्ष्यक्रमव्यङ्गयो रसादिध्वनि:, (५५) वाक्यगत उभयशक्तिमूलो ध्वनिः ।" इति । विवृतिकारास्तु-'यद्यपि-अर्थानां वाच्यलक्ष्यव्यङ्गयभेदेन पदांशानां च प्रकृत्यादिभेदेन अतोऽधिका अपि प्रकारा भवन्ति, तथाऽपि सम्प्रदायानुरोधेन एकपञ्चाशत्त्वमेव दर्शितम्'इति प्राहुः । अथैषामपि प्रकारप्रपञ्चमाह-विरूपेण 'अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ। सन्दिग्धत्वे च भवति सङ्करत्रिविधः पुनः ॥' इतिवक्ष्यमाणरीत्या त्रिविधेनेत्यर्थः। सरेण । सहार्थेयं तृतीया। एकरूपया। संसृष्टया'मिथोऽनपेक्षयतेषा स्थितिः संसृष्टिरुच्यते।' इत्यात्मिकया रचनया । च । 'एकपञ्चाशद्भेदा'इति पूर्वतोऽनुवृत्तम् । तथा च-एत समृष्टिभेदैोजिता इत्यर्थः । वेदखाग्निशराः चतुरधिकशतत्रयोत्तरपञ्चसहस्रसख्याकाः सम्पद्यन्ते इत्यर्थः । तथा हि-वेदाश्चत्वारः, खं शून्यं बिन्दुरिति यावत्, अग्नयस्त्रयः, शराः पञ्च । एते च- अङ्कानां वामतो गतिः । इति नयन वामतः पठितास्तां सख्यामाहुरिति बोध्यम् । एतेऽपि-शद्धः सङ्कराद्यसम्पृक्तैः । सहार्थेयं तृतीया। तथा च-एतैः संयोजिता इत्यर्थः । इषुवाणाग्निसायकाः पञ्चपञ्चाशदुत्तरशतत्रयाधिकपञ्चसहस्रसङ्ख्याकाः सम्पद्यन्ते इत्यर्थः । तथा हि-इषवः पञ्च, बाणाः पञ्च, अग्नयस्त्रयः, सायकाः पञ्चेत्येते पूर्ववत् वामतः पठितास्तथा सम्पद्यन्त इति बोध्यम् । अत्राहुस्तर्कवागीशाः-'ननु तदेकपञ्चाशतश्चतुर्गुणने चतुरधिकशतद्वयमेव भवतीति चेत् : न; यतः-प्रथमेन सजातीयेनकेन विजातीयः पञ्चाशता च संसृष्टावेकपञ्चाशत्त्वम् , एवं द्वितीयस्य सजातीयेनैकेन विजातीयैः पञ्चाशता च संमृटौ पञ्चाशत्त्वम् । तृतीयस्य सजातीयेनैकेन विजातीयैरष्टचत्वारिंशता च संसृष्टावूनपञ्चाशत्त्वं भवति, चतुर्थस्य सजातीयेनैकेन विजातीयैः सप्तचत्वारिंशता च संसृष्टावष्टचत्वारिंशत्त्वम् । एवमन्येषामेकैकहासेन सप्तचत्वारिंशदादिकम् । चरमस्य सजातीयेनैकेन संसृष्टौ एकविषयत्वमेवेति मिलित्वा षडविंशत्यधिकत्रयोदशशतत्वं ध्वनिसंसृष्टेः । एवम्-क्रमेण अष्टसप्तत्युत्तरनवशताधिकत्रिसहस्रत्वं त्रिविधध्वनिसङ्करस्य । मिलित्वा वेदखाग्निशरा'इति सख्याया उपपत्तिः । नच 'एकपञ्चाशतस्तावता गुणने एकाधिकषड्रिंशतिशती संसृष्टौ, तत्रैव तत्रिगुणसङ्करयोजने वेदखाब्धिवियच्चन्द्रा' इति काव्यप्रकाशोक्तसङ्ख्या भवति, तत् कथं वेदखाग्निशरा' इति सख्या इति वाच्यम्, संसृष्टिसकरयोः पूर्वपूर्वसंसर्गस्योत्तरोत्तरगणनायामप्रवेशात्तत्सख्यत्वानुपपत्तेः ।' इति प्रदीपकाराः । 'अर्थान्तरसङ्क्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्येन योजने यो भेदः स एवात्यन्ततिरस्कृतवाच्यस्यार्थान्तरसमितवाच्येन योजनायाम् । एवमन्यत्रापि । तस्मात्-"एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु । समार्धनासमो गुण्य एतत्सङ्कलितं लघु ॥" इत्युक्तदिशा द्विपञ्चाशदर्धेन षड्विंशत्या एकपञ्चाशतं गुणयेत् । तथा च-'रसदस्राग्निमेदिन्यः' इति त्रयोदशशतानि षडविंशत्यधिकानि जायन्ते, योगश्चतुष्प्रकार इति तेषु चतुर्भिर्गुणितेषु 'वेदाभ्रदहनेषवः' इति पञ्चसहस्राणि चतुरधिकं शतत्रयं सङ्कीर्णभेदाः ।' इति, यत्तु 'तेषां चान्योऽन्ययोजने । सङ्करण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाब्धिवियचन्द्राः । (शुद्धभेदैः सह ) शरेषुयुगखेन्दवः ।' इति काव्यप्रकाशकारिकां व्याचक्षाणास्तदेकपक्षपाताः 'एकपञ्चाशतो भेदानामेकपञ्चाशता गुणने एकोत्तरषट्शताधिकसहस्रद्वयं भवति, योजनं च सङ्करादिचतुष्प्रकारैरिति तावता चतुर्भिर्गुणने चतुरुत्तरचतुःशताधिकायुतपरिमिता भेदाः सम्पद्यन्ते । तेषां च प्रागुक्तैः शुद्धैरेकपञ्चाशद्भेदैः समं योजने शरेषुयुगखेन्दुमिता भेदा भवन्ति । यद्यपि अर्थान्तरसङ्गमितवाच्यस्यात्यन्ततिरस्कृतवाच्येन योजने यो भेदः, स एवात्यन्ततिरस्कृतवाच्यस्यार्थान्तरसमितवाच्येन योजने भेद इति वक्तुं युक्तम् , तथाऽपि-'प्राधान्येन व्यपदेशा भवन्तीति