________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
३५१ २९४ पदांशवर्णरचना-प्रबन्धेष्वस्फुटकमः । असंलक्ष्यक्रमव्यङ्गयो ध्वनिः। स च-पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः । यथा
"चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वन्त्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खल कृती॥२०॥'
इत्यत्र “हता"इति, न पुनः “दुःखं प्राप्तवन्तः''इति; हन् प्रकृतेः । द्विविध एव,अर्थशक्तिमूलः पुनः स्वतःसम्भवित्वादिरूपः द्वादशविधः । एवं शब्दार्थोभयशक्तिमूल एक एव वाक्यनिधः अथ शब्दशक्तिमूलोऽर्थशक्तिमूलश्च पदे वाक्ये च, किं त्वर्थशक्तिमूलः प्रबन्धेऽपीति निर्णीतम् । ननु अर्थशक्तिमलस्याभि. धामूलत्वे सिद्धान्तितेऽपि लक्ष्यार्थस्य यथा-इत्याद्यभिधानं किम्मूलमिति चेत्सत्यम् । अत एव काव्यप्रकाशकारग लक्ष्यार्थस्य यथेत्यादि न प्रपञ्चनमारब्धम् । अथैवं सति यदि विचारयामस्तदैवं प्रतीमः । लक्षणामूलस्तावदम्वनिरविवक्षित. वाच्यो न विवक्षितस्तत्र वाच्यः किन्तु लक्ष्यार्थस्तत्र विवक्षितः स्यादिति मा भूद् विवक्षितो वाच्यो लक्षणामले वनौ, किन्तु लक्ष्यार्थस्तु विवक्षित एवेत्यत्र न काऽपि प्रतिपत्तिरिति न तिरोहितं विदुषाम् । अर्थान्तरसइक्रमितो वाच्य एव लक्ष्यः स पुनर्विवक्षितश्च । असौ पुनः स्वतःसम्भविवस्त्वादिस्वरूपो भवितुमर्हत्येव विवक्षितार्थानतिरिच्यमानत्वात् । वाच्य इति लक्ष्य इति सत्यपि प्रभिनत्वे अर्थोऽर्थ इति जात्या तु न तथा । एवं व्यङ्गयोऽप्यर्थः, अभिधाया मुख्यवृत्तित्वालक्षणायाः पुनरमुख्यवृत्तित्वाल्लक्षणामूलस्य ध्वने स्तन्मूल-त्वमिति लक्ष्यार्थस्याभिधामूलत्वानपायात् । वाच्यस्य लक्ष्यस्य चार्थस्वरूपणानतिरिक्तत्वादर्थशक्तिमूलस्य लक्ष्यार्थमूलत्वमपि निर्बाधमिति बोध्यम् ।
एवं संलक्ष्यकमव्ययं ध्वनि प्रपञ्च्य तत्राघो रसभावादिरित्यायुक्तदिशा प्रपञ्चितोऽप्येकविधो रसायात्माऽ. संलक्ष्यक्रमव्यङ्गयो वाक्ये तु सम्भवत्येव किन्त्वन्यत्राऽपि सम्भवति न वेति जायमानायामाकाक्षायां तत्स्थानानन्तरस्यापि प्राधान्येन व्यपदेशा भवन्तीति न्यायमनुसृत्य निर्देशमाह-२९४ पदांशवर्णरचनाप्रबन्धेष्वित्यादिना ।
२९४ पदांशवर्णरचनाप्रबन्धेषु पदानां 'सुपतिङन्तं पदम् ।' १।४।१४ इत्युक्तदिशा सुबन्तानां तिइन्तानां चांशाः प्रकृतिप्रत्ययोपसर्गरूपास्त्रिप्रकारा अवान्तरभेदेनानेकप्रकारास्ते च ये वर्णास्तेषां वा रचना ते च या रचनेति वेति सा च प्रबन्धश्चेति तेषु पदांशेषु पदांशवणेषु वा वर्णरचनायां रचनायां वा प्रबन्धे चेत्यर्थः । अस्फटक्रमोन स्फट: संलक्ष्यक्रमः क्रमव्यङ्गयो यत्र सोऽसंलक्ष्यक्रमव्यङ्गय इत्यर्थः 'सम्भवती' ति शेषः ।
कारिकोक्तमेव स्पष्टयति-असंलक्ष्येत्यादिना ।
असंलक्ष्यक्रमव्ययः रसादिरूप इति भावः । ध्वनिः ।सः। च । पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदात पदांशाः पदावयवभूताः प्रकृतिप्रत्ययोपसर्गनिपातादयस्तेषां भेदस्तस्मात्तमङ्गीकृत्येत्यर्थः । आदिपटेन वर्णप्रबन्धरचनानां ग्रहणम् । अनेकविधः।
उदाहरति-यथेत्यादिना ।
यथा-“हे मधुकर ! करें हस्तम् । व्याधुन्वन्त्या इतस्ततस्तवापनयनाय सञ्चालयन्त्याः ‘अस्या इति शेषः । चलापाङ्गां चलौ चञ्चलावपाङ्गौ प्रान्तभागौ यस्यास्तथाभूताम् । “अपाङ्गौ नेत्रयोरन्तौ'इत्यमरः । वेपथमती वेपथुः कम्पोऽस्यामस्तीति तथोक्ताम् , तव दंशनभयेन कम्पमानाम् । दृष्टिम् । बहशो वारंवारम् । स्प्रशसि । रह स्याख्यायी रहस्य गोप्यमाख्यातीति तथोक्तः । गोपनीयस्यार्थस्य वक्तेति भावः । इव । कर्णान्तिकचर: कर्णसमीपचारी'स'निति शेषः । मद मधुरं यथा तथा । स्वनसि (अनेन तस्य तन्मिषेण चुम्बनकारित्वं ध्वन्यते । कामिनो हि रहस्यकथनमिषेण कपोलामृतं पिबन्तीति नातितिरोहितम् ) । एवम्-रतिसर्वस्वं रतेरुपचारात्तदानन्दस्य सर्वस्वं सर्वप्रकारेण फलभूतम् । अधरमुपचारात्तत्रत्यममृतम् । पिबसि । वयम् । तत्त्वान्वेषात् 'इयं कस्य सुता, परिणेया वा न वाइति स्वरूपान्वेषणात् । हता मृताः, न केवलं दुःखं प्राप्ता इति शेषः । त्वम् । खलु निश्चयेन । कृती कृतार्थः । इदमभिज्ञानशाकुन्तलस्य । अत्र च शिखरिणीवृत्तम् ॥२०२॥" • इत्यत्र । “हताः" इति प्रयुक्त मिति शेषः । न । पुनः। “दुःखम् । प्राप्तवन्तः" । इति । अतःहनप्रकतेः 'व्यञ्जकत्व'मिति शेषः । अयम्भावः-प्रत्ययविधानावधिः प्रकृतिः, सा च-धातुखरूपा नामस्वरूपा चेति द्विधा । एवं सति 'हता'इति हन्प्रकृतेरेव दुःखं प्राप्तवन्त'इत्यपेक्षया दुःखातिशयव्यञ्जकत्वं स्फुटम् । इति ।