________________
साहित्यदर्पणः ।
[ चतुर्थःएवमन्येवेकादशभेदेषूदाहार्यम् । उदाहरणान्तरं तु स्वत एवोह्यमित्याह-एवमित्यादिना।
एवम् अन्येषु उदाहृतभिन्नेषु । एकादशभेदेषु स्वतःसम्भविना वस्तुना वस्तुध्वनिमन्तरेण सर्वेषु अलङ्कारध्वन्या. दिषु । उदाहार्यमुदाहरणीयत्वमवसेयमिति शेषः । अत्रेदमवधेयम्-लक्ष्यार्थस्य द्वादश भेदा ध्वनयः सनिरूपिता एवं प्राक् । अथ व्यायार्थध्वनेरायप्रभेदमुदाहृत्यान्ये वपि भेदेपदाहर्त्तव्येषु वस्तुनाऽलङ्कारध्वनियथा मम-'उन्नतपीनपयोधरयुग. लोपरिपीतमजुलाभरणा । अभिवाञ्छितदर्शनतः सुभगे ! कथमिति मुदे न स्याः ।' अत्र च सुभगायाः सर्वदैव दर्शनमभिप्रेतं भवति किं पुनस्तव सुन्दर्या इति दर्शनदानेन सर्वथा कृतार्थनीयस्त्वयैष इति व्यङ्ग्येन 'उन्नतपीनपयोधरयुगलोपरि सत्या झटिति स्फुरन्त्याः सुभगायाश्चन्द्रकलाया दर्शनं सर्वस्यापि यावत्तापितस्य लोकस्याऽभिप्रेतमिति समासोक्तिय॑ज्यते। अलङ्कारेण वस्तुध्वनिर्यथा मम-'न हसति वर्धते न च मलिनं च न दृश्यते मनाक क्वापि । वदनमिदं तव सुभगे : स्फुरति न कस्य प्रमोदाय॥' अत्र हि-व्यज्यमानेन व्यतिरेकेण तव दर्शनमेव सदैकरसत्वेन कामपि कमनीयतामावहतीति व्यज्यते । अलङ्कारध्वनिर्यथा मम-'उपरि स्थितः सुधानिधिरत्र पुनस्ते स्थितं मुखं सुभगे । उभचोरनयोर्भूयः स्पृहणीयं दर्शनं कस्या'इति । अत्र व्यज्य मानेन व्यतिरेकेणाक्षेपो व्यज्यते। कविप्रौढोक्तिसिद्धेन वस्तुना वस्तुवनिर्यथा-'स्थिताः क्षणं पक्ष्मसु ताडिताधरा इत्युदाहते पद्ये । वस्तुनाऽलङ्कारध्वनिर्यथा मम-'मृगमदतिलकितनिटिलं केशच्छटयाऽपि सर्वदाऽधारितम् । नित्यं विकसनशील विकसत्येवाननं मुभगे ॥' अत्र च मलिनसम्पर्केण किमपि भवत्येव मलिनत्वं दुर्जना मलिना: पुनरमलिनं मलिनथिसुमभिलषन्त्येव, किन्तु निर्मलान्तःकरणानान काऽपि क्षतिः सम्भवतीति भावना व्यज्यते। अलङ्कारेण वस्तु वनिर्यथा'नियतिकृतनियमरहितां हादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरा निर्मितिमादधती भारती कवेर्जयति ॥' अत्र च व्यतिरकेण सुकृतिभिर्ब्रह्मणः सृष्टिमपहाय कविभारत्या सृष्टायामेव विहर्तव्यमिति व्यज्यते । अलङ्कारेणालङ्कार वनिर्यथा मम'नक्त चकोरमाला मधुकरमाला पुनर्दिवा वाला । भ्रमति किमेषा मुमुखि ? त्वमितः किञ्चिदपि वीक्षस्व ।।' अत्र हि व्यज्यमानया व्याजोक्त्या भ्रान्तिमान्व्यज्यते । कवि निबद्धप्रौढोक्तिसिद्धेन व्यज्यमानेन वस्तुना वस्तुवनिर्यथा मम'मध्ये गुरुजनवृन्दं स्थिता विदग्धा विलोक्य मां पुरतः । विकसत्सरतसरोजं विदधौ सा मुद्रितं सहसा ॥' अत्र हि वाच्यः सूक्ष्माऽलङ्कारः, तेन सभग ! गुरुजननिरुद्धा किं साम्प्रतं विदध्यां तदिदानी गन्तव्यं सन्ध्यायां पुनरागन्तव्यमिति व्यज्यते तेन परतन्त्रैव त्वदागमनेन विकसितमपि हृदयं निमीलयन्ती स्वात्मानं वञ्चयामीति न क्षन्तव्य एतस्या अपराध इति व्यज्यते । वस्तुनाऽलङ्कारध्वनिर्यथा मम-'सुभगे ! तव मुखमेकं पश्यन् सुकृती कृतार्थतां मनुते । भ्रमति स एव सतप्तः क्वचिदपि विन्दन्न चान्यदा शर्म ॥' अत्र हि सुभगायास्तव दर्शने जाते सुकृती प्रसीदति प्रमुदं प्राप्नोति च तदितरदर्शने पुनर्जाते सन्ताप एव शरणमिति व्यज्यमानेन त्वमेव सुभगा तवैव मुखं विलोकितं सुभगं त्वन्मुखमनवलोक्य स्थितस्य कमलं सुधानिधिरपि वा सुभग इति व्यतिरेको व्यज्यते । अलङ्कारेण वस्तुध्वनिर्यथा मम-'विकसतु सरोजमुदयतु सुधानिधिर्वा मुदा किमेतेन । मम तु मुदे तव सुभगे ! वदनं भुवने सुवर्णायाः ।' अत्र हि व्यतिरेकेण व्यज्यमानेन यदि परजनप्रमोदवर्धनहेतुकं विकसनमुदयनं वा न स्यात्तर्हि तत्सर्वं मृषेवेति व्यज्यते । अलङ्कारेणालङ्कारध्वनिर्यथा मम-'एक जीवयसि त्वं सदति ! निहंसि द्वितीयमेव त्वम् । किमिदं का वा त्वमसि स्थगयसि सत्यं बलाचेतः॥' अत्र हि विरोधेन व्याजोक्तिरभिव्यज्यते न च विरोधो वाच्यः । अनेकक्रियाकुशलाया नायिकाया विरुद्धयोः क्रिययोयोग्यतापादनमुखेन विस्मयमात्रस्याऽवशेषितत्वात् । अयं पुनः प्रबन्धगतोऽपि द्वादशविध एव । तत्र यथा अभिज्ञानशाकुन्तले प्रथमेऽ- शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहाऽस्य ।' इत्यादि प्रस्तूय । 'असंशयं क्षत्रपरिग्रहक्षमा यदाऽऽर्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः' इत्यादौ स्खलनपदेष्वपि न महान्तः कदापि स्खलन्ति इत्यनेन व्यज्यमानेन महतां सर्वमनुकूलं दृष्टचरं, ते च स्वत एवं मनीयचरिता भवन्तीत्यभिव्यज्यत इति दिक् ॥ अत्रेदमवसेयम्-ध्वनिस्तावलक्षणामूलोऽभिधामूलश्च । तत्राय क्षितवाच्यः द्वितीयः पुनर्विवक्षितान्यपरवाच्यश्च । अथास वेव अर्थान्तरसङ्क्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्यश्चेति । विवक्षिताऽन्यपरवाच्यः पुनरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यड़ायश्च । तत्राद्यो रसादिस्वरूप एकप्रकार पुनः शब्दशक्तिमूलोऽर्थशक्तिमूलः शब्दार्थोभयशक्तिमूलश्चेति त्रिप्रभेदः । अथ शब्दशक्तिमूलो वस्तुरूपोऽलङ्कारमूलश्चेति