________________
३६० साहित्यदर्पणः । ..
[ चतुर्थ:"मुहुरङ्गुलिसंवृताधरौष्ठ प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवार्त पक्षमलाक्ष्याः कथमप्युन्नमितं, न चुम्बितं तु ॥२०३॥"
इत्यत्र 'तु' इतिनिपातस्यानुतापव्यचकत्वम् । "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिगधिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ २०४॥" इत्यत्र 'अरय'इति बहुवचनस्य, 'तापस'इत्येकवचनस्य, 'अवैव'इति सर्वनाम्नः, 'निहन्ति' इति जीवति इति च तिङः, 'अहो' इत्यव्ययस्य. 'ग्रामटिका इति टिकचरू पतद्धितस्य 'विलण्ठन'इति व्युपसर्गस्य, भुजैः'इति बहुवचनस्य च व्यञ्जकत्वम् ।
"पश्मलाक्ष्याः प्रशस्तानि पक्ष्माणि सन्त्यनयोरतिपक्ष्मले तादृशे अक्षिणी यस्यास्तस्याः । 'सि-मादिभ्यश्र।' ५।२।९७ इति लच । 'अस्या' इति शेषः । मुहः। अङ्गलिसंवृताधरौष्ठमगुलिभिः संवृतोऽधरौष्ठो न तूवौष्ठो यस्य तादृशम् । प्रतिषेधाक्षरविवाभिरामं प्रतिषेधाक्षरेण 'नाजी, नाजी' इत्यात्मकेन निषेधसूचकेन पदप्रयोगेण यो विवो विकवता तेनाभिरामं मनोहरम् । अंसविवर्ति अंसे स्कन्धदेशे विवरीते लजया चुम्बनशङ्कया प्रवर्तत इति तथोक्तम् । मुखम् । कथमपि महताऽऽयासेन पुण्यसाहाय्येन वा । उन्नमितम् । तु किन्तु । न। चम्वितं तस्य चुम्बन लम्धुं न मया पारितमिति भावः । अभिज्ञानशाकुन्तलस्येदं पद्यम्, अनौपच्छन्दसिकं वृत्तम् । '' गौपच्छन्दसकम्” इति च पिङ्गलाचार्यः ॥२०३॥"
इत्यत्र । "तु" इतिनिपातस्य । अनुतापव्यञ्जकत्वम् । अनेन 'यदि तावन्मानं चुम्बनमलप्स्यत तदा तेनैव कृतार्थोऽभविष्य'मिति, तदभावेनानुतापातिशयो राज्ञो ध्वन्यते इति भावः ।
"त्यकारोह्ययमेव..." इति पद्यमुदाहृतपूर्व व्याख्यातपूर्व च । इत्यत्र । 'अरयः' इति । बहवचनस्य । यजकत्व' मित्यग्रेतनेन सम्बन्धः । तथा च-शत्रुसम्बन्धस्य सर्वथाऽनौचित्येऽपि बहुत्वमनुतापशबलितामर्षातिशय ध्वनयति बहुवचनभिति निष्कर्षः । एवम्-'तापस' इत्येकवचनस्य 'व्यञ्जकत्व'मिति पूर्ववत्सम्बध्यते, तथा चतपस्विनां स्वभावतः पौरुषकथाराहित्यम् , अथ तत्राप्येकः सन् मम प्रतिकूलः संवृत्त इत्येकवचनं प्रधानतया व्यञ्जकमिति निष्कर्षः । अत्रैव मदाधिष्ठिते एव देशे' । इतिसर्वनाम इदमात्मकस्य सर्वनाम्नः । 'व्यजकत्व' मिति पूर्ववत् । तथा च-मम परोऽक्षेऽपि कस्यचिच्छत्रुताऽऽचरण सर्वथाऽसम्भवम्, अथ मम प्रत्यक्षमित्यपि दूरमास्ता कथा. किन्तु मम सन्निधाविति तत्राप्यंत्रवेति सर्वनाम व्यनक्ति । 'निहन्ति' इति 'अत्रे'ति शेषः । 'जीवति' इति अति शेषः । च । तिङः तिप्रत्ययस्य । 'व्यजकत्व' मिति पूर्ववदन्वेति । तथा च-मयि जीवति तस्य निह. मनकर्तत्वं सर्वथाऽनुचितमिति तिङ्प्रत्ययो व्यनीति निष्कर्षः । 'अहो' इत्यव्ययस्य । 'व्यजकत्वम्' इति पूर्ववत् । तथा च-एतत्सर्व सर्वथाऽसम्भाव्यमानमवस्थितमिति पुरुषकारापेक्षया देवस्यातिशयकार्यकारित्वं द्योतयत् स्वस्य विस्मयाकलताऽनुपदं किंकर्तव्यविमूढताम् 'अहो' इत्यव्ययं व्यनक्तीति बोध्यम् । 'ग्रामटिका' इति टिकचरूप. तद्धितस्य । 'व्यजकत्व'मिति पूर्ववत् । तथा च-खर्गस्य ग्रामेष्वपि तुच्छत्वात्तस्य विलुण्ठनेन किं मे भुजयोमच्छनात्मना भवनं युक्तमिति खात्मन्यवज्ञानिवशानुपदममर्षा तिशयः 'टिकच् प्रत्ययव्यङ्गय इति हृदयम् । तथा'निळपठन' इति 'अत्रे'ति शेषः । पुसर्गस्य 'व्यन्नकत्व'मिति पूर्ववत् । तथा च-'विशेषेण लुण्ठन' मित्यर्थे ध्यपसगों लुण्ठनस्य विशिष्टतां बोधयन् स्वात्मनस्तादृशपराक्रमशालिनोऽपि अकिश्चित्करतमाक्षमतां च सूचयति । एवम्'भजैः' इति । बहुवचनस्य । च । व्यञ्जकत्वम् । तथा च-द्वाभ्यां भुजाभ्यां यदमुना क्रियते तत् तदनेकगणितैरपि एभिर्न कतै पार्यते इत्येषां केवलं मारायमाणत्वमिति द्योतयत् तथैवामर्षातिशयं तद्ववचनं ध्वनयतीति निकृष्टम् ।