________________
३५५
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । एवमन्ये वेकादशभेदेषूदाहार्यम् । एवमाद्यप्रभेदमुदाहृत्य भेदान्तरदाहरणप्रसङ्ग आह एवमित्यादि ।
एवं यथाऽत्र तथा । अन्येषु एतद्भिन्नेषु । एकादशभेदेषु तद्रूपेषु ध्वनिषु सत्सु । उदाहार्यमवधेयमिति शेषः । तत्र तावत्स्वतःसम्भविना वस्तुनाऽलङ्कार वनिर्यथा श्रीमद्भागवते वामनावतारवर्णने । अत्र हि श्रीपतिमिनस्वरूपेणावतरदित्यनेन-'अभूवद्वामनः श्रीशः स्वयं वलिमखोत्सवे । सर्व एवाऽर्थिनो हन्त सम्भवन्ति हि वामनाः ॥' इति दृष्टान्तः । श्रीपतिरपि बत साक्षादामन आसीद्यदाऽर्थयामास । किं पुनरन्ये स्युर्यदि याचनमात्रोद्यता: दीना इति वाऽर्थान्तरन्यासः प्रबन्धे परिस्फुरति । अलङ्कारेण वस्तुवनिः पुनर्यथा श्रीमद्भागवते ययातिना शर्मिष्ठायै खावस्थावस्तुस्वरूपेण निर्दिष्टेति तत्र तेन रूपकातिशयोक्त्यलङ्कारेण-विषयभोगवासनैव महतोप्यनर्थताया आपादिकेति व्यज्यते । अलङ्कारेणालङ्कारभ्वनिर्यथा श्रीमद्भागवते ऋषभदेवोपाख्याने मलादिदूषितशरीरस्यापि ऋषभदेवस्य योजनान्तं सुरभिरुत्तस्थे इत्यतिशयोक्त्या महात्मनां सर्वमपि सम्पद्यते इत्यर्थान्तरन्यासोऽभिव्यज्यते। कविप्रौढोक्तिसिद्धेन वस्तुना वस्तुव्यक्तियथा महावीरचरिते वाली स्वयं रामेण समगम्यत इति वस्तुना मुमूर्षुः स्वयं मृत्युमायतीति वस्तु व्यज्यते। अलङ्कारध्वनिर्यथा नैषधीयचरिते निगृहीतपरिमुक्तस्य हेमस्य राजहंसस्य स्वयं पुनर्नलहस्तयोः संवादवर्णनमित्यनेन सुकृतिनः कृतज्ञा भवन्तीति अर्थान्तरन्यासो व्यज्यते। यथा वा वाल्मिकीये रामायणे मारीचागमने रामस्य तत्र हि-'प्रायः समापनवि. पत्तिकाले धियो जनानां मलिना भवन्ती'त्यर्थान्तरन्यासः । अलङ्कारेण पुनर्वस्तुध्वनियथा श्रीमद्भागवते पुरन्दरोपाख्याने रूपकाव्यतिरिक्तेन संसारः सर्वथैव निःसार इति वस्तु व्यज्यते । अलङ्कारेणालङ्कारध्वनिर्यथा श्रीमद्भागवते यदुकुलसंहारवर्णने एकेनैव प्रहारेण यदुवीराणां संहार इति शक्त्या-' सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्या । ' इति अर्थान्तरन्यासो व्यज्यते । कविनिबद्धप्रौढोक्तिसिद्धेन वस्तुना वस्तुनोऽभिव्यक्तिर्यथा श्रीमद्भगवद्गीतायामजनेन-ममैते सुहृदः कथमेतानेव विनिहन्यां विनिम्नन्हि कुलनः स्यामिति । नामेनानिहनिष्यामि इति भगवता पुनर्न कस्यापि कश्चित् सुहत स्वयं सर्वं न स्वतो भिन्न किश्चिदिति न कस्यापि कश्चिन्निहन्ता निहन्तुं योग्यो वा भवितुमर्हति इत्युपदिष्ठम् । अत्र हि कवितानिबद्धो भगवदर्जुनसंवादस्तत्प्रौढोक्ति:--' गाण्डीवं संसते हस्तात् त्वक् चैव परिदद्यते । नित्य धार्तराष्ट्रानः का प्रीतिः स्याज्जनादेन ॥ पापमेवाध दस्मान्हत्वतानाततायिनः । कुतस्त्वा कश्मलमिद विषमे समुपस्थितम् ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । ' इत्यादिरूपा, एतन्मूलकेन च सुहृदामपकारिणामपि अन्याय्यं हननम् । नात्मनः कदापि हननं सम्भवति तन्निमित्तनिबन्धनः शोकोऽपि अकिञ्चित्कर एव। किन्तु वस्तुतः सुकृतसाधनसम्पत्स्वरूपस्थ खर्गादेरपि हानिहेतुः । इत्यनेनाऽभिधानरूपेण वस्तुना सुहृद्वियोगकारणीभूतप्रेमस्नेहाऽन्यतरनिबन्धनो दुःसहो दुःखतया परिणामी शोक: केवलं यावदज्ञानमिति वस्तु प्रबन्धप्रकाश्यमभिव्यज्यते । वस्तुनाऽलङ्कारध्वनिर्यथा श्रीमन्महाभारते-गजग्राहकथा. प्रस्तावनायां तत्र हि देवलशापेन गन्धर्वराजौगजो प्राहश्च बभूवतुः, इत्यनेन भीष्मप्रौढोक्तिसिद्धेन .महात्मनां कथमपि अवज्ञाता न कदाचित् सुखमेधते । यथा गन्धर्वराजावित्युपमाऽभिव्यज्यते । अलङ्कारेण पुनर्वस्तुध्व निर्यथा तत्रैव मूषकसिंहगाथाप्रस्तावे-अत्र हि युधिष्ठिरेण लधुर्महत्पदं प्राप्य किमिव भवतीति पृष्टेन भीष्मेण कस्यापि मुनेर्मूषक आसीत्प्रसादभाजनं, स च तस्य कृपया सिंहो वभूव, भूत्वा पुनः सिंहः कोपेन तस्यैव मूषक एव जात इति यथा मूषक: सिंहोपि भूत्वा मूषक एवासीत्तथा ' लघुरपि महत्पदम्प्राप्तोऽवहेलितः पुनर्लघुतामेव प्रतिपद्यते' इत्युपमया महानेव महान्मवितुमर्हति लघुः कदाचित्तथा भवेदपि किन्तु पुनः पततीति सर्वथा प्रमादाद्यवद्यजातं पारहातव्यमिति वस्तु व्यज्यते । अलङ्कारेण पुनरलङ्कारध्वनिर्यथा तत्रैव श्रीकृष्णादीनां माधवं विजेतं प्रयाणप्रस्तावे श्रीकृष्णेन समं भीमार्जनौ ब्राह्मणौ भृत्वैव जरासन्धं विजेतुं प्रस्थिती, जरासन्धेन समं पुनः सङ्गतास्ते युद्धं देहीत्यर्थयित्वा विजितवन्तस्तमित्युत्प्रेक्षया वैशम्पायनप्रौढोक्ति. निष्पन्नस्वरूपया दीनतयाऽपि कार्य सम्पादयितुं प्रवृत्तोऽपि शत्रुसविधे न वस्तुतया दीन इव भवेदित्युत्प्रेक्षा-यथा श्रीकृराणादयो मागधसविधे इत्युपमा वाऽभिव्यज्यते-यथा वा कादम्बा शुकवाणिते मातङ्गस्य शबरसेनापतेरागमनसमये तत्रोपमया विरोधाभासेन च 'अपरो मृत्युरेवैष' इति रूपकं व्यज्यते-यथा वा रामायणे सीताविकलेन रामेण पम्पाया नायिकात्वेन वर्णनप्रस्तावे तत्र हि रामप्रौढोक्तिसिद्धेन रूपकोत्प्रेक्षयाऽलङ्कारेण वा सीतां ध्यायमानस्य रामस्य सर्वतः सीतैव दृष्टिर्गोचरीभूताऽऽसीत् । स्थाने च ध्यानानुकुलाप्रतीतिर्भवतीति रूपकातिशयोक्तिद्वारा सर्व ध्यानानुकूलं सम्पद्यते इति रूपकं विशेषोक्तिवा ऽभिव्ज्ययते।