________________
साहित्यदर्पणः ।
[चतुर्थ:इति दिवाप्रभवतो गृध्रस्या श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् । 'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् । बहुविघ्रो मुहूर्तोऽयं जीवेदपि कदाचन ॥२०॥ भ, कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशकिताः ॥२०१॥' इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽननिलषित इति वाक्यसमूहन द्योत्यते । अत्र स्वतः । सम्भवी व्यञ्जकः।
अत्र दिवा प्रभवतो गृध्रस्योक्त्या झटित्येव यावद्दिवसं बालमुपादाय प्रयास्यन्त्येते अहं पुनरेनं भक्षयिष्यामि इत्यभिधानरूपवस्तु प्रबन्धगतं व्यज्यते इत्याह-इतीत्यादिना ।
इतीत्येवम् । दिवा दिवसे । प्रभवतः प्रभूभवतः । गृध्रस्य पक्षिराजस्य । २मशाने श्मशानभूमौ । मृतं गतप्रा. णम् । बालम् । उपादाय गृहीत्वा । तिष्ठतां श्मशानमपरित्यज्य स्थिति कृतवतां जनानाम् । तं मृतं बालम् । परित्यज्य श्मशान एव त्यक्त्वा । गमनं श्मशानभूम: स्वगृहं प्रति यानम् । इष्ट मभिव्यज्यते' इति शेषः । अत्रायम्भाव:मृतं बालं श्मशानभूमिमानीयापि स्नेहवशादुत्सङ्ग एव निधाय रुदतस्तं त्यक्त्वा च स्वमन्दिरमप्रत्यागच्छतः दिवसं पुनरेवमेव व्यतीयमानमवलोक्य तन्मांसं झटिति भक्षितुकार्मन गृध्रणालोचितं यद्यते कियन्तं समयमत्रैव स्थास्यन्ति तर्हि भविध्यति दुष्टाया रात्रेरवतारः तस्मिन्सति च कैतन्मांसलाभः शृगालादीनां मुखमुपगतस्य सर्वथैव पुनर्लाभासम्भवः, अत एवमनुष्यं येन-एते झटित्येव इतः प्रसरेयुरित्यालोच्यैवाऽभिहितं तेनापि, जनानां श्मशानात्पुनर्जीवाशा न सङ्गच्छते इतः पुनर्गमनासम्भवादिति । एतत्पुनः स्वतःसम्भव्येवत्यनेन इतो झटिति दिवैव निवर्तन्तामिति व्यज्यते । इति ।।
एवं गृध्रसंवादे वस्तुध्वनिमुदाहृत्य गोमायुसंवादेऽप्युदाहरति-'आदित्य...' इत्यादिना ।
'हे मूढाः मूर्खा जनाः ! अयं प्रत्यक्षं दृश्यमानः । आदित्यः सूर्यः । न दितिः खण्डनं यस्यास्तस्या अदितेरपत्यं पुमानिति तथोक्तः । 'आदित्यो भास्करी देव' इति विश्वः । स्थित अस्तीति शेषः । इति सम्प्रतिरात्रिश्चरेभ्यो न भयङ्कार्यम् । साम्प्रतमिदानीम् । स्नेहं पुत्रस्यास्य वियोगकालिकं तत्परित्यागाऽसहिष्णुत्वरोदना. दिरूपं प्रेम । कुरुत विधत्त। यदा-स्नेहं कुरुतेति साम्प्रतं युक्तम् । अयं सन्ध्यासमयासनः । मुहूर्त स्तास्तु त्रिंशतक्षणस्ते । तु मुहूर्तों द्वादशास्त्रिया'मित्युक्तस्वरूपः समयविशेषः । बहुविघ्नो बह्वो विना यत्र सः । भूतावेशादिरूपविघ्नबहुल इत्यर्थः । अस्यापगमे च भूतावेशादिरूपप्रहग्रस्तत्वादिविघ्नानां स्वतोऽपगमस्तस्मिन्सति च कदाचिष्माकं भाग्यवशान्मुहूर्तस्य च भव्यभावुकत्वेनेति शेषः । कदाचन । जीवेत् इति सम्भाव्यते । अमुम् । कनकवर्णाभं सुवर्णवर्णप्रति मम । अन्यथा तद्गतकाठिन्यस्यापि प्रतिपत्तिः स्यात् । अप्राप्तयौवनं न प्राप्तं यौवनं येन तादृशम् । बालं यौवनाप्राप्तौ परदाराभिमर्शासम्भवादायुःक्षीणत्वस्याऽपि असम्भवग्रस्तत्वम् । गृध्रवाक्यात् गृध्रस्य मांसप्रियस्यात एव दुष्टान्त:करणस्य वाक्यात् । मूढाः कताकर्तव्यममीमांसित्वैव । अविशङ्किता निर्भयाः । कथम् । त्यजध्वं परि. त्यजत ॥ २००॥२०१॥'
अत्र व्यङ्गय निर्दिशति-इतीत्यादिना ।
इतीत्येवम् । निशि रात्रौ । समर्थस्य भक्षितु'मिति शेषः । गोमायोः शृगालस्य । दिवसे । परित्यागः 'बालस्येति शेषः । अनभिलषितोऽनभिमतः । इति । वाक्यसमूहेन निरुक्तेन आदित्योऽयमित्यादिनेत्यर्थः । द्योत्यते । इदमुक्तम्-अत्र नक्तं प्रभवतः शृगालस्योक्त्या यावद्दिनमत्र यद्यते तिष्टयुस्तर्हि अवश्य बालं भक्षितुं प्रभविष्यामि सम्प्रति तु गृध्रादीनामेव प्रभाव इति यावत् । न खल्वस्य दिने परित्यागः साम्प्रतं, किन्तु नक्तमेवेति व्यज्यते । अत्रास्मिन्वस्तुध्वनौ स्वतःसम्भवी अर्थ इति शेषः । व्यग्जकः कारणत्वेनावसेयः । अत्रायम्भावः-- सध्या यावन्न भवेत्तावन्न रात्रिञ्चरेभ्यो मनागपि भयं विधेयम् । आदित्ये भगवति प्रतपति सति तेषां भयदातृत्वाऽ नवसरात् । एष पुनर्बाल इति नैवमरण्यप्राये प्रदेशे परिहातव्यः, न चायं मृत इति निश्चितम् । तथा सति कनकवर्णाभत्वस्यैकान्ते सम्भवात् । प्रत्युत तदभावस्यैव सम्भवात् । न चायु:क्षयकारणमपि किञ्चित्प्रतीयते यौवनाऽप्राप्ततया परदाराभिगमनाद्यसम्मवे आयुःक्षीणत्वाऽयोगात्, न चेदमप्याशङ्कनीयं कुतोऽयं निरुच्छासो जडभूतश्चेति सन्ध्यायाः, . प्रवर्तमानाद भूतावेशादिनाऽपि सम्भवादिति । मुहूर्त पुनर्जीविताशा प्रतीक्ष्यतामिति खतःसम्भविनाऽभिधानेन (बस्तना) यावन रात्रिस्तावदत्रैव स्थितिर्विधेया पुनर्यथाऽगलास्तथा गन्तव्यमिति वस्तु व्यज्यते।
नाकान्त सम्भवाव आयुःक्षामभवादिति ।