________________
રૂપ
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। २९३ प्रबन्धेऽपि मतो धीरैरर्थशक्तयुद्भवो ध्वनिः ॥ २८८ ॥ प्रबन्धे महावाक्ये अनन्तरोक्तद्वादशभेदोऽर्थशक्त्युत्थः । यथा महाभारते गृध्रगोमायुसंवादे"अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कले । कङ्काल बहुले घोरे सर्वप्राणिभयङ्करे ॥ १९८॥ न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा देष्यः प्राणिनां गतिरीदृशी॥ १९९॥"
'वनिरिति यावत् । वाक्यमात्रे वाक्य एव । भवन्स्फुरन् । एक एकप्रभेदः । अन्ये । पुनः। सप्तदश वन. अंदा इति शेषः । वाक्ये । पदे । च । सम्भवन्ति इति शेषः । इतीत्यस्माद् हेतोः । चतुस्त्रिंशचतुरधिकात्रिंशत्संख्याकाः । इत्येवं सर्वे मिलित्वा-पश्चत्रिशत् । भेदा 'जाता' इति शेषः । अत्रेयं व्यव. स्था-तत्र तावत् वनिर्लक्षणमूलोऽभिधामूलश्चेति द्विविधः । तत्राप्याद्यो विवक्षितवाच्याऽभिधेयो द्वितीयः पुनर्विवक्षितान्यपरवाच्यः । अथाविवक्षितवाच्यः-अर्थान्तरसङ्क्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । एवं पुनर्विवक्षित्तान्यपरवाच्योऽसंलक्ष्यक्रमव्यगायः संलक्ष्यक्रमव्यङ्गयश्चेति द्विविधः । तत्राऽसंलक्ष्यकमव्यङ्गयो रसभावादिस्वरूप एकविध एव रसभावादीनामसङ्ख्यत्वादनन्ताद्वा । इत्येवमर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्योऽसङ्लक्ष्यक्रमव्यङ्ग्यश्चेत्यास्तां ध्वनेस्त्रैविध्यम् । अथ संलक्ष्यक्रमव्यङ्गयः शब्दशक्त्युद्भवोर्थशतयुद्भवः शब्दार्थशत्युद्भवश्चेति त्रिविधः । तत्राप्याद्यः स्वतःसम्भवी, कविप्रौढोक्तिसिद्धः ।' कविनिबद्धप्रौढोक्तिसिद्धश्चेति त्रिविधः । एवं पुनर्द्वितीयः स्वतःसम्भवी, कविप्रौढोक्तिसिद्धः, कविनिबद्धप्रौढोक्तिसिद्धश्चेति त्रिविधः । अथैवं षड़विधो वस्तनाs. लकारेण च वस्तुस्वरूपोऽलकारखरूपश्चेति त्रिविधत्वं प्रतिपाद्यमानो द्वादशविधः । तत्र शब्दार्थशक्तयुद्भवमन्तरेण सर्वे. ऽप्यन्ये ध्वनेः सप्तदश प्रभेदा वाक्ये पदे च सम्भवन्ति,शब्दार्थशक्त्युद्भवः पुनर्वाक्यस्य एवेति सप्तदशद्विगुणिताश्चतुस्त्रिंशदेके नापरेण पुनः सम्मिलिताः पञ्चत्रिंशदिति ।
अथैवं ध्वनेः पञ्चत्रिंशद्भेदानुदाहृत्य भेदान्तरोदाहरणान्याह-२९३ प्रबन्धे इत्यादि । २९३ अर्थशक्त्युद्भवो 'वस्तु वाऽलङ्कृति रित्युक्तदिशा द्वादशात्मेति शेषः । ध्वनिः । प्रबन्धे महावाक्ये तनिष्ट इति यावत् । अपि पदे वाक्ये च निष्ठितस्त्वस्त्येवेति यावत् । धीरैः प्रबन्धमार्मिकैः । मतः स्वीकृतः ॥ २९॥
ननु को नाम प्रबन्धः,योगशक्त्या यस्यानेकपर्यायवाचित्वोपपत्तिरित्याशङ्कयाह-प्रबन्धे। निरुक्तलक्षणे महावाक्ये सङ्घटितनानावाक्यकदम्बरूप इत्यर्थः । ननु-अर्थशक्त्युद्भव एकविध एवात्र गृह्यते? आहोखिद् द्वादशविधः ? इत्याशय स्पष्टयति । अनन्तरोक्तद्वादशभेदोऽनन्तरं किञ्चित्पूर्वमेव न त्वत्यन्तं व्यवधायोक्ता द्वादशभेदा यस्य स इत्यर्थः । अर्थशक्त्युत्थोऽर्थशक्तयुद्भवः । ज्ञेय इति शेषः।
अथोदाहर्तुमुपक्रममाण आह यथेत्यादिना ।।
यथा यद्वत्तथेति शेषः । यथा स्वतःसम्भविना वस्तुना प्रवन्धप्रकाश्यो वस्तुध्वनिस्तथेति भावः । महाभारत स्वनाम्नैव प्रसिद्ध तदन्तर्गते शान्तिपर्वणि आपद्धर्माभिधानप्रसङ्गे इति यावत् । गृध्रगोमायुसंवादे गृध्रा राज्यन्धाः पक्षिविशेषाश्च, गोमायव: प्रायो नक्तंप्रभावाः जम्बूकाश्चेति तेषां संवादे । अलमित्व ति शेषः । अस्मिन् दृश्यमाने गृध्रगोमायुसङ्कले गृधाश्च गोमायवश्चेति तैः सङ्कुलं तत्र । कङ्कालबहले कङ्कालाः शरीरास्थीनि बहुला यत्र तत्र। अस्थिप्राय इत्यर्थः । 'स्याच्छरीरास्थि कङ्काल' इत्यमरः । अत एव घोरे दारुणे। सर्वप्राणिभयङ्करे सर्व ये प्राणिनी जन्तवस्तेषां भयङ्करस्वासजनकस्तत्र । घोरभयङ्करशब्दयोरेकार्थकत्वेन परस्परं च तयाविशेष्यविशेषणभावनोपस्थाने 'विशिष्टवाचकानां पदानां सति विशेषणसमवधाने विशेष्यमात्रपरत्वमिति नयेन घोरशब्दस्य अत्यन्तमिति भयङ्करशब्दाय च यथाभूतार्थत्वमवसेयम् । श्मशाने तत्रत्यप्रदेश इति यावत् । स्थित्वा। अलं पर्याप्तम् । यतः-इहास्मिन्संसारे। “यदि । प्रियः । वा । देण्यः द्वेषाहः शत्रुः । वा । कश्चित्कोऽपि । कालधर्म मरणम् । उपागतः प्राप्तः । न च न पुनः । जीवित आसीदिति शेषः । प्राणिनां जन्तूनाम् । गतिः क्रमः स्वभाव इति यावत् । एवेति शेषः । ईशी भवतीति 'स्वभावो दुरतिक्रम' इति नियमात ॥ १९८ ॥ १९९ ॥'