________________
साहित्यदर्पणः ।
एवमन्येष्वपि अर्थशक्तिमूळ संलक्ष्यक्रम ( व्यङ्ग्य ) भेदेषूदाहार्यम् ।
तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थोव्यङ्गयो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।
३५२
[ चतुर्थ:
•
एवं स्वतःसम्भत्रि वस्तुव्यङ्गयायुदाहृत्य कविनिबद्धवक्त्रप्रौढोक्ति सिद्धवस्तुव्यङ्गचायुदाहणानि तथैवावसेयानीत्याहएवमित्यादिना ।
एवं यथोदाहृतेषु तथा । अन्येषूदाहृतव्यतिरिक्तषु अपि । अर्थशक्तिमूलसंलक्ष्यक्रम ( व्यङ्गय ) भेदेषु कविनिवद्धवक्तृप्रौढोक्तिसिद्धेष्विति यावत् । उदाहार्यमुदाहरणं बोध्यम् । तत्र कविनिबद्ध क्लृप्रौढोक्तिसि वस्तुना वस्तुध्वनिर्यथा मम - 'सखि ! सम्प्रति तव वदनं विकिरति हन्त ! स्मितं तत्किमिति । प्रकृतित एव सदा यच्छारदपूर्णेन्दुमानहरम् ।' अस्यार्थः - हे सखि ! यत् प्रकृतितः स्वभावादेव शारदपूर्णेन्दुमानहरं शरत्कालि कस्य पूर्णस्य चन्द्रमसो मानापहारि दृष्टमिति शेषः । तत् स्मितं ( कर्म ) तव वदनं 'कर्तृ' किमिति हन्त सम्प्रति न विकिरति । अत्र च कविनिबद्धा काचित्सखी सङ्केतस्थळे नायकमप्राप्य प्रत्यागच्छन्तीं हसन्ती प्रौढोत्याहति । अन्यथा स्मितस्य विकीर्णत्वं वदनस्य पुनर्विकिरतीति क्रियायाः कर्तृत्वं शारदपूर्णेन्दोमनापहारित्वं च स्मितस्य सर्वका - लिकत्वमिति कथं सङ्घटेत । तेन च स्मितं न सम्प्रति विकिरतीति वस्तुना नायकोऽद्य न लब्धस्तत एव खण्डितैवमसीति वस्तु सम्प्रति इतिपदद्योत्यम् । अथ वस्तुनालङ्कारध्वनिर्यथा मम - 'सलिले तपदर विन्दं ग्लावं वा लीयमानमभ्रेषु । सुमुखि !. कृतार्थय मैवं यामो यामोऽपयात्येषः ।' अयि सुमुखि ! सलिले जले तपत्तपः कर्तुं प्रवर्तमानमरविन्दं कमलमभ्रेषु । मेघेषु लीयमानं धावित्वा धावित्वा तिरोभवन्तं ग्लावं ग्लानिधम्र्माणं चन्द्रं वा मैवं कालं 'यापयित्वे' ति शेषः । कृतार्थय कृतार्थ कुरुयामः स्वयमेव तत्सन्निधात्थाय गच्छामः । एष यामस्तदुपलक्षितः समयोऽपयाति मृत्रैव व्यतीतो भवतीति । अत्र च कविनिबद्धायाः कस्याश्चिद् दूत्या मानवशंवदां नायिकां प्रति यद्यत्रैव स्थास्यामस्तर्हि समयस्त्वसौ निर्यास्यत्येव किन्तु औदासीन्येन सुमुख्यास्तव मुखं ग्लास्यति । म्लाने च तस्मित्वत्सदृशं भवितुं तपसे यतमानं कमलं कृतार्थितं भविष्यति । सम्प्रति च तत्सदृशत्वमनुपेत्य सुधानिधिः सुधानिधिरेवेति प्रतिष्ठाभङ्ग भाविनं विचार्यैव म्लायति लज्जया चाभ्रान्तः कापि निलीय स्थातुमिच्छति चन्द्रमाः सोपि कृतार्थी नो भविष्यतीति स्वयमेव तथा वयं यतामहे । यथैनयोः कृतार्थता न स्यात्तथा यतनं च नायकमुपेत्य चिरसम्भृतमनोरथपूर्ति विधानमतो वयं झटिति याम अन्यथा च समयोऽयं दुर्निरोध्य एवेत्युक्तिः ।
अन्यथा तथाsभिधानं न सङ्घटेतेति तथाभूतेन वस्तुना मुखं चन्द्रश्चेत्युभावपि न तव मुखसदृशाविति व्यतिरेकः कृतार्थप्रेति पदद्योत्यः । अलङ्कारेण वस्तुध्वनिर्यथा मम - 'वदनसुधानिधिरयि सखि ! सुस्मितकलया सुधारसाप्लुतया । कस्य निषिच्यानङ्गं साङ्गं कर्तुं समुल्लसति ।' अयि सखि ! वदनसुधानिधिस्त्वन्मुखरूपश्चन्द्रः सुधारसेन सुधाया इव सुधा षद्रसस्तेन ‘तत्र तस्यैव ।’५।१।११६ इति वतुः । आप्लुताऽत्यन्तं पूर्णा तया इति सुधारसाप्लुतया सुस्मितकलया कस्य सुकृतिनोनङ्गस्मृतप्रायं मदनं सुस्मितम् अत्यन्तं मृदुलो रुचिरोहासस्तद्रूपया कलया निषेकसाधनयन्त्रविशेषेणेति यावत् । निषिच्य सा सशरीरं कर्ते समुद्रसति विकसति । अत्र च कविनिबद्धा कापि सखी वत्री तस्याश्च वदनरूपत्वेन सुधानिधेः सुस्मितरूपत्वेन च कलायाः सुस्मितस्य च सुधारसत्वेन तथानङ्गस्यापि साङ्गत्वकतेन तत्कृत निषेक कर्तृत्वेन सुधानिधेरभिधानं प्रौढमिति तत्सिद्धेश्व न रूपकेण कोपि प्रच्छन्नोऽत्र तद् दृट्रैव स्मयसे इति वस्तु कस्येतिपदद्योत्यम् । अलङ्कारेणालङ्कारध्वनिर्यथा मम -'मध्येऽम्बु तपति कमलं निपतति मध्येऽब्धि चन्द्रमा नित्यम् । सुभगे ! तव मुखमेकं जयति विकाशं दधन्नितशम् । हे सुभगे सौभाग्यवति ! स्वाधीननायके इति यावत् । कमलं मध्येऽम्बु जलस्य मध्ये तपति चन्द्रमा मध्येsब्धि समुद्रस्य मध्ये न तु कस्मिन्नेवाहि निपतति एकं तव मुखं नितरां विकाशं दधञ्जयति । अत्र च खण्डितायाः कस्याश्चिदुक्तिरिति । तस्याश्च प्रौढत्वं कमलकर्तृकजलान्तस्तपश्चर्यायाश्चन्द्रकर्तृकस्य च प्रतिदिवस समुद्रान्तरात्मपातस्य साक्षात्तयाऽभिधानेनेति तत्सिद्धेन काव्यलिङ्गेन व्यतिरेक एक इति पदद्योत्यः । अथैवमुदाहृतान् ध्वनेः प्रभेदान्दृढप्रतिपत्तये स्मारयति--तदेवमित्यादिना ।
तत्तस्मात् । एवम् उदाहृतप्रकारेण । ध्वने वैनिसम्वन्धिध्वित्यर्थः । पूर्वोक्तेषु पूर्वमुदाहतेषु । अष्टादससु भेदषु मध्ये शब्दार्थशत्युत्थः । शब्दार्थयोः शक्तिस्तस्या उत्तिष्ठतीति शब्दार्थोभयशक्तिमूल इत्यर्थः । व्यङ्गयो व्यग्य