________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
३५१ " पश्यन्त्यसङ्ख्यपथगां त्वद्दानजलवाहिनीम् । देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि ॥१९॥"
इदं मम । अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इंति व्यतिरेकालङ्कारोऽसङख्यपदयोग्यः ।
सुधानिधिं वीक्ष्य मुधा कृतार्था कृतकृत्या भवसि । अत्रापि पुना रूपकेण विशेषोक्तिः मुधापदप्राधान्येनाभिव्यज्यते । अथ कविप्रौढोक्तिमात्रसिद्धन वस्तुना पदद्योत्यो वस्तुध्वनिर्यथा मम--'अपि दयिते ! तव वदनं पायंपायं मनोभवों गर्जन् । स्मितमवलम्व्य तमिस्रास्वपि हतकान्हन्त नो हन्ति ॥' अत्र हि वदनस्य पानं तेन च मनोविकारमात्रस्याप्यनङ्गस्य गर्जन स्मितस्य चावलम्बनं तेन च गाढान्धकाराखपि रजनीषु हननमिति सर्व कविप्रौढोक्तिमात्रनिष्पन्नशरीरं, तेन पुनः यदि ववदनमस्मान्पाययेत्तर्हि वयमपि गर्जन्तस्तं मदनं प्रति रोद्धं समुत्सहेमहि । इति न इतिपदप्राधान्यन वन्यते । अत्र च कस्यापि वियोगिनः स्वप्नमात्रार्पितशरीरां नायिका स्मरत्प्रबुद्धस्योक्तिरिति विभावनीयम् । अत्र पुना रूपकातिशयोक्तिरपि व्यज्यते, वदनत्वेनाध्यस्तस्य सुधांशो: स्मितत्वेनाध्यस्तस्य च कुसुमस्य च गिरणात् । सा च गर्जन हन्तीति पदद्योत्या ।
अलङ्कारेणालङ्कारध्वनिमुदाहरति--'पश्यन्तीत्यादिना।
'देव राजन् ! 'देवं हृषीके देवस्तु नृपतौ तोयदे सुरे' इति हैमः । त्वदानजलवाहिनी-तव यद्दानं तस्य यजल तवाहिनों तस्य नदीरूपेण प्रवाहमिति यावत् । असयपथगाम् असङ्ख्या अगणिता ये पन्थानस्तान् गच्छतीति ताम्।
असङ्ख्यधा भूत्वा सञ्चारकारिणीमित्यर्थः। 'अन्तात्यन्ताध्वदूरपारसर्वान्तेषु डः ।३।२।४८ इति डः। पश्यन्ती निरीक्षण-माणा अत एव ह्रीणेति यावत् । त्रिपथगा गङ्गा त्रीन् पथो गच्छतीति सा । आत्मानं मार्गत्रयेण प्रवाहिस्वरूपम् ।
उग्रमूर्धनि उग्रोऽशक्यमपि कर्तुं शक्तत्वेन भयङ्करः शिवस्तस्य मूर्धा जटाजटसम्भृततयाऽति गहरं मरतकं तत्र । गोपयति पिधाय रक्षतीति भावः । अत्र कस्यापि दानिप्रवरस्य राज्ञोऽभिनन्दनवर्णनम् । तथा पश्यन्तीति गोपयतीति क्रियाया हेतुवचनम् । तेन चैकत्वमिति काव्यलिङ्गालङ्कारः ॥१८॥'
उदाहतस्य पद्यस्यान्यदीयत्वभ्रमापनोदाय आह । इदमुदहृतम् । मम ‘पद्यनिति शेषः । उदाहरणीय निरूपयति-अत्रेत्यादिना ।
अत्रोदाहृते पद्ये पश्यन्तीति निरीक्षमाणे "लक्षणहेत्वोः क्रियायाः ।" ३।२।१२५ इति शता "उगितश्च ।" ४।१।६ इति ङीप् “शपश्यनोनित्यम् । ७।१।८१ इति नुम् । कविप्रोढोक्तिसिद्धेन एतत्पदमूलकत्वेन कविप्रौढोक्तिसिद्धेनेत्यर्थः । दानजलस्य नदीरूपत्वं स्वतस्सम्भवतीति कवेः प्रौढोक्त्यैव सिद्धम् । काव्यलिङ्गालङ्कारेण तद्वारेति यावत् । न । के अपि । अन्ये त्वद्भिवाः। तव त्वया । "तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यरस्याम् ।” २।३।७२ इति तृतीयायाः पाक्षिकत्वात् षष्ठी । सदृशास्तुल्याः । दातारो दानिनः । इतीत्येवमुपमानान्तरोक्यभावद्वारतस्य वैलक्षण्याभिधानादिति भावः । व्यतिरेकालङ्कारः । आधिक्यमुपमेयस्योपमानादिति वक्ष्यमाणस्वरूप इति भावः । असन्ख्यपदद्योत्यः असङ्ख्येति पदमात्रप्रकाश्य इत्यर्थः । 'अस्ती'ति शेषः । यद्यपि गोपयतीत्युत्प्रेक्षा तथात्प्रेक्षणा. त्तन्मूला,तथा गोपनक्रियायाः कालः पश्यन्तीत्यादिपदानां साभिप्रायत्वात्परिकरोऽपि तत्पदमूल: । तथापि व्यतिरेकस्यालङ्कारान्तरापेक्षया चमत्काराधिक्येन नोत्प्रेक्षा न वा परिकरः । यथा वा मम-'अयि सुन्दार ! तव वदनं नित्यं पूर्ण सुधा. निधिर्मत्वा । हन्त पतत्युपरिष्टान्मध्येऽम्बुधि नित्यमेवासौ ॥' अस्यार्थः । अयि सुन्दरि ! सुधानिधिस्तव वदनं नित्यं पूर्ण मत्वा हन्त ! उपरिष्टान्मध्येऽम्बुधि समुद्रान्तर्नित्यमेवासौ सुधानिधिः पतति । अत्र च चन्द्रः प्रतिदिनं क्षयवृद्धिशीलं वदनं पुनर्नित्यमेव पूर्ण द्वितीय सुधाया निधानमिति वदनस्योपमानत्वेन प्रसिद्धान्चन्द्रमसस्तस्य व्यतिरेकस्तन्मूलया पुनर्मत्वा इति सूच्यमानयोत्प्रेक्षया हन्त पतत्युपरिष्टादिति विरोधस्तथैवं प्राणांस्त्यक्तुं प्रवर्तमानोऽपि जीवतीति । यद्वा-मम जन्माम्बुधिरिति जन्मभूमिमुपेत्य कान्तिर्वर्धनीयेति यतमाने नाभीष्टपूर्तिरिति कारणसद्भावेऽपि कार्यासङ्गति म विभावना ।