________________
३५०
साहित्यदर्पणः ।
[ चतुर्थ:
यथा यथेदं सुमुखि ! मुखं ते तथा तथा हन्त । सहृदयहृदये मदनो निदधाति शरान्बलान्निशितान् ॥' अस्यार्थः - है मुख! यथा यथेदं ते तवेदं मुखं स्मयते तथा तथा हन्त मदनो बलात् सहसा सहदयहृदयनिशितांस्तीक्ष्णान् शरानिदधाति समर्पयतीति । अत्र च सुमुख्या मुखकर्त्तृकस्मयनानुक्रमेण मदनकर्तृक सहृदयहृदयाधिकारकनिशितशरकर्म्मकार्पणं कविप्रौढोक्तिमात्र निष्पन्नमिति वस्तुना मदन इति पदद्योत्य उपहासकर्तारमनिहत्य तदितरसहृयहृदय निहननस्य विरुद्धत्वाद्विषमः । यथा वा मम - 'सुमुखि ! मनोजो मदनः सुधानिधिर्वापि विश्रुतः परितः । इति तव वदनसुधानि रिर्हति मदनात्मना स्थातुम् ॥' इति । अस्यार्थः - हे सुमुखि ! मदन: सुधानिधिर्वापि मनोज: मनसो जात: 'शम्बरा - रिर्मनसिज' इत्यमरः । चन्द्रमा मनसो जात इति च परितो विश्रुत इतिवत्तव वदनसुधानिधिर्मदनात्मना स्थातुमर्हति । अत्र च वदनमेव सुधानिधिरिति रूपकेण इति तवेति काव्यलिङ्गेन वा वदनसुधानिधेर्मदनात्मनाऽभिधानेन सुधानिधिदर्शनस्य मदनोद्भावकापवनादपहुतिरित्यर्हति इति पदप्राधान्येन द्योत्यते । यथा वा मम - 'वदनं सुषमाभरणां पृथुले चपले च तेऽबले ! नयने । इति सङ्गतं सुमुख्या न पुनर्मदमन्थरं गमनम् ।।' अस्यार्थः हे अबले ! ते तव वदनं मुखं सुषमाभरणं 'सुषमा परमा शोभा सेवाभरणं यस्यास्तादृशं च पुनश्चपले पृथुले च नयने शोभते इति सुमुख्यास्तव सङ्गतं युक्तियुक्तं न पुनर्भदमन्थरं गमनं सङ्गतं तवाबलत्वादिति भावः । अत्र च तव सुमुख्या मुखं सुन्दरं नयने पुनः पृथुले अथ चपले इति वरं यदसि मुखम् । किन्तु त्वमवला बलविहीना मदं च बलाधीनमिति मदसम्बन्धाभावे निश्चीयमानेऽपि यत्तव मत्ताया इव गमनं तन शोभते इति स्वतः सम्भविना वस्तुना मदमन्थरस्य गमनस्य कारणाभावेऽपि तत्सद्भावकथनाद्विभावना । वदनस्य च सुषमाभरणोत्तया चन्द्राभिन्नत्वेनाभिधानभिति रूपकम् । नयनयो: पुनश्रापत्वपृथुलत्वोत्त्या च मृगनयनसाहश्योक्त्या च निगरणात् रूपकातिशयोक्तिः । एवमेव गमनस्य मदमन्थरत्वमात्रोक्त्या गजसादृश्यं प्रतीयते न तु साक्षादभिधीयते इति तस्यापि निगरणात्सैव । अथ तत्र कारणोत्प्रेक्षाभावेऽपि तस्य प्रतीयमानोत्या हेतुत्प्रेक्षा इत्येषां संसृष्टिः । असौ च सुमुख्या इति पदद्योत्या अथ स्वतः सम्भविनाऽलङ्कारेण पदद्योत्यो वस्तुध्वनिर्यथा मम ' अयि दयिते ? तव वदनं सुधानिधानं द्वितीयमभ्युदितम् । तदसहृदयमवलोक्य त्रस्येदिति निश्चितं स्थाने || ' अस्यार्थः - अयि दयिते ! द्वितीयमभ्युदितं सुधानिधानं चन्द्रो वदनम् । तत्तस्मादेव असहृदयरसिकं राहुमवलोक्य त्रस्येदिति निश्चितं स्थाने युक्तम् । 'युक्ते द्वे साम्प्रतं स्थाने ' इत्यमर: । अत्र हि स्वतः सम्भविना रूपकेण " अराहृदयपदमात्रमूलं ततो विरक्तिसि पुनरनुरागस्तवोचित एवे " ति वस्तु व्यज्यते । यथावा- ' क्षणदाऽसावक्षणदा, वनमवनं व्यसनमव्यसनम् । बत वीर ? तव द्विषतां पराङ्मुखे त्वयि सर्वमिति । ' यस्यार्थः - हे वीर ! वत कष्टं त्वथि पराङ्मुखे विमुखे सति तव द्विषतां सर्व पराङ्मुखं विमुखं भवति । अत एव क्षणदा रात्रिरसौ अक्षणदा न क्षणमुत्सवं ददातीति तथाभूता अथ वनभवनं रक्षकमेवं व्यसनं विपद्व्यसनं यूतादिव्यसनापहारकम् । 'क्षणमुद्भव 'उत्सव' इति, 'व्यसनं विपदि भ्रंशे दोपे कामजकोपजे ' इत्यमरः । अत्र हि स्वतः सम्भविना विरोधाभावस्योत्पादकेनार्थान्तरन्यासेन सर्वपदमूलम् । विधिरपि त्वामनुवर्तते इति व्यज्यते । अथ स्वतः सम्भविनालङ्कारेण पदमूलोऽलङ्कारध्वनिर्यथा ' तव पत्यधरस्तन्वि ! म्लानपद्मदलं प्रगे । इति श्रुत्वा नववधूः करोति मुखमानतम् ।' अस्यार्थः - हे तन्वि ! प्रगे प्रातःकाले तव पत्यधरो म्लानपद्मदलमिति श्रुत्वा नववधूरानतं मुखं करोतीति । अत्र रूपकेण त्वया नितान्तं पत्युर्मुखं चुम्बितं तेन तस्य म्लानत्वमिति काव्यलिङ्गो व्यज्यते । यथा वा मम - ' सुभगे ! तव मुखमिन्दुर्मानसजातं बत प्रफुलयति । क्रीडनमेतत्तस्यैतस्य पुनः सङ्गतो मृत्युः । अस्यार्थः- हे सुभगे ! तब मुखेन्दुर्बत कष्टं मानसजातं कमलं कामं वा प्रफुलयति । एतत्तत्प्रफुल्लितत्वविधानं तस्य तव मुखेन्दोः क्रीडनं निरायाससाध्यमेतस्य मम पुनर्हतकस्य सङ्गतो मृत्युर्निकटमुपेतो मृत्युः । अत्र पुनर्मुखमिन्दुरिति रूपकेण इन्दुर्यदि मानसजातं कमलं प्रफुल्लितमपि म्लापयेदिति युक्तं न पुनरेवं किन्त्वसौ म्लानमपि मानसजातं ( मदनं ) प्रफुलयतीति विरोधो बतेति पदयोत्यस्तथा तस्य क्रीडा एतस्य मृत्युरिति रूपकेण विरोधसङ्गतेन मानसजातस्योद्दीपनमाविधानेन एतस्य सन्निहितो मृत्युर्भवतीति कारणमनभित्राय कार्यस्यमृत्युसन्निधानकथनस्य स्फुरणात्तस्य पुनस्त दभेदकथनेन प्रस्तत्वाद्विभावना, पुनरिति पदेन ध्वन्यते । पुनरिति अनभिधाने रूपकस्यैवोल्लास इति दिक् । यथा वामम- 'वदनसुधानिधिरेष प्रमदे ! न पुनस्त्वया तथा विहितः । तदिति सुधानिधिमपरं वीक्ष्य कृतार्थं मुधा मनसि ' अस्यार्थः - हे प्रमदे ! एष वदनसुधानिधिः त्वया पुनस्तथा न विदितः । तदिति हेतोरपरं द्वितीयं तदपेक्षया चानुत्कृष्टं
,