________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । कारित्वरूपसादृश्यावसाने च तनिरासात्तथा च भगवचिन्ताभगवचिन्ताविरहाभ्यां तथा सुखदुःखे जनिते यदुपभोगेन यावत्सुखदुःखभोगनाश्ययोः सुकृतदुष्कृतपुञ्जयो शो जनितः । एतत्सूचनाय महत्त्वं विपुलत्वं च दुःखाहृदयोर्विशेषणमपन्यस्तम् । केचित्त मुक्त्यपयोगित्वेन प्रकृतस्य समस्तपुण्यफलरशिः पुण्यविशेषफलेनाप्रकृतेन तच्चिन्ताविपु. लसुखेन सदा भेदप्रतीतिरतिशयोक्तिः । निगीणे प्रकृते शब्दोपत्तेनाप्रकृतेन सदा भेदप्रतीतिरतिशयोक्तिरिति तल्लक्ष. णादित्याहु,स्तन्ना विषयिणि प्रसिद्धर्मस्य विषये प्रतीतिरेवातिशयोक्तेः फलम् । नतु विषये प्रसिद्धस्य विषयिणि प्रतीतिः । एवं स्थितावतिशयोक्तिद्वयस्य निष्फलत्वापादविषये प्रसिद्धस्य यावत् पुण्यपापनाशकत्वस्य विषयिणि प्रतीतेरसम्मवेनाऽभिप्रेतानुपपत्तिनिरासस्यायोगाद्विपयिणः शब्दोपात्तत्वेन 'कथमुपरिकलापिनाङ्कलापाः' । इति तद्वाच्यो. पपत्तावतिशयोक्तिद्वयस्य व्यङ्गायत्वायोगाच । न चाशेषचयपदप्रभावेण विषयस्य व्यङ्गयत्वेनैवैतस्य व्यङ्गयत्वमिति. वाच्यम् । तथा सति 'कथमुपरि' इत्यादौ प्रकरणवैशिष्टयेन विषयस्य व्यङ्गयतयाऽतिशयोक्तव्यङ्गयत्वापातादिति । उदगोत. कारा अन्याहुः-ननु वियोगदुःखचिन्तासुखाभ्यां कथमशेषपापपुण्यनाशस्तेषां स्वस्खफलभोगनाश्यत्वादित्युपपत्ते. रशेषदुष्कृतसुकृतफलराशितादात्म्याध्यवसायेनैव परिहार इति वाच्यसिद्धयङ्गमेतदिति चेन्न-भगवन्माहात्म्यातिशयमादायापि तदुपपत्तेरिति । प्रभाकरा अप्याहुः । अन्यथा सर्वपुण्यपापनाशस्य चिन्तावियोगसुखदुःखाभ्यां क्षयाऽनुपपत्तेरिति भावः । न चोक्तव्यङ्गयस्य वाच्यसियतया गुणीभूतव्यङ्गयत्वमाशङ्कनीयम् । अन्यत्र तथात्वेऽपि. प्रकृते भगवद्वि पयकरत्युत्कर्षप्रयोजकतया वाच्यादतिशयितत्वेन तदप्रसङ्गात् । इति दिक् । विस्तरस्तु काव्यप्रकाशव्याख्यायां द्रष्टव्यम् । यथा वा मम-'मुग्धे ! स्मायं स्मायं हन्त किमेतानिहंसि दैवहतान् । हननं सुकृतं सुकृती सुकृतिनि नहि कोऽपि निर्वक्ति' । अस्यार्थः-मुग्धे ! स्मायंस्मायं स्मित्वास्मित्वा दैवहतान् दैवेन पूर्वमेव निहतान् एतान्मादृशानिहंसि हि यतः-हे सुकृतिनि धर्मशीले ! कोऽपि कश्चित् हननं हिंसाविधानं सुकृतं धर्म न निर्वक्तिऽआह । अत्र च मन्दहासस्य निहननक्रियासानधत्वेनाभिधानं कविप्रौढत्वमात्रनिष्पन्न मिति तेन मुग्धाऽसीत्येव निहंसीति पनरपि सुकृतिनीत्यपरमेति च, मुग्धे इति सुकृतिनीतिपदाभ्यां द्योत्यते अलङ्कारेण वस्तुवनिः । यथावा मम-'स्मितसदृशानि सुमानि त्वन्मुखसुधया सुषिच्यमाणानि । प्राणप्रिये ! मनोभव आदाय जगन्तिः संहरति ॥' अस्यार्थः हे प्राणप्रिये ! :मनोभवः कामदेवः त्वन्मुखसुधया तव मुखामृतेन मुषिच्यमाणानि स्मितसदृशानि सुमानि प्रसूनानि आदाय गृहीत्वा जगन्ति संहरति संहत प्रवृत्तः । अत्र च स्मितानां कुसुमसदृशत्वमभिधाय कुसुमानां पुनः स्मितसादृश्यमभिहितमित्युपमानस्योपमेयत्वेन प्रतीपं तेन च प्राणप्रिय इति पदेन तवातिप्रियस्यास्य रक्षणं त्वदधीनमिति वस्तु व्यज्यते । यथा वा मम-त्वरितं पिधेहि वदनं वहिरथवा मैव जीविते! यासीः। प्रस्फुरदमृतनिधानं पातुं समयः सदैवास्ते।' अस्यार्थ:-हे जीविते प्राणखरूपे ! वदनं त्वरितं पिधेहि अथवा वहिव यासी: याहि स्फुरत्पूर्णतया समुल्लसदमृतनिधानं चन्द्रं सुधासमुद्रं वा पातुं सदैव समय आस्ते न कदाप्यसमयः अमृतनिधेः पानाय । अत्र च वदनस्यामृतनिधानस्य च सादृश्यमनभिधाय वदनमात्रस्य वर्णनेन प्रसिद्धस्यामृतनिधानस्यापहवनमिति तन्मूलया कविप्रौढोक्तिसिद्धयाऽ. पहृत्या वदनस्य वाऽमृतनिधानस्य वा सादृश्यमनभिधाय वदनमेव पुनरभिधाय तयोरैकात्म्यमभिदधातीत्यर्थान्तरन्यासः । इति कविप्रौढोक्तिसिद्वेन वा त्वरितमिति पदमूलं जीवितइतिपदमूलं वा, यदि न वदनं पिधास्यसि अन्तरेव वा न स्थास्यसि तवश्यं कश्चित्तदिदं पास्यति इति निजकर्तृकतद्वदनकर्मकपानान्तराभिधानापह्नवनमिति ध्वन्यते। अथ वस्तुनाऽ. लङ्कार वनिर्यथा मम प्रागुदाहृते । 'अयि दयिते तव वदनं पापं पापं मनोभवो गर्जन् । स्मितमवलम्ब्य तमिस्रास्वपि. हतकान्हन्त नो हन्ति ॥'इत्यत्र । यथा वा मम निशितशरधियार्पयत्यनको दृशि सुदृशः स्वबलं वयस्यराले । निशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ।' अस्यार्थः-अनङ्गो अङ्गहीनोपि स्वयं मदनो निशित शरधिय निशितस्तीक्ष्णोऽसौ शर इति बुद्धया अराले कुटिले प्रमादोन्मेषशालित्वेन हिंसके तारुण्ये वयसि सति सुदृशोशि स्वबलमर्पयते सा च पुनदृष्टिर्यत्र निपतति तत्र व्यतिकरमहमहमिकया युगपदेव सङ्घ समुपेत्य "ड्मनःसङ्गसङ्कल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूच्छन्तिा इत्यनगदशा दश॥” इत्युक्ता अवस्थाः समुन्मिपन्ति । अत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्था इति वस्तुना परस्परविरुद्धा अपि दशावस्थाः समुन्मिषन्तीति विरोधाभासो व्यतिकरमितिपदद्योत्यः । यद्यपि मदनस्य कुसुमेषुत्वेन दृशः कमलत्वेनाभिधेयनिगरणमित्यतिशयोक्त्या विरोधालङ्कारध्वनिः । निशितशरधियेत्युप्रेक्षया च भ्रान्त्या वा विरोधः समुत्स्फुरति तथापि तथा वस्तुनाऽप्यलङ्कारो ध्वन्यत एवेति । यथा वा मम- 'स्मयते