________________
३४८ साहित्यदर्पणः।
[ चतुर्थः'तदप्राप्तिमहादुःखविलीनाशेषपातका। तच्चिन्ताविपुलोलादक्षीणपुण्यचया तथा ॥ १९५॥ चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्तिं गताऽन्या गोपकन्यका ॥१९६॥"
अवाशेषचयपदप्रभावादनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसिततया भगवद्धिरहदुःखचिन्तालादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदढयद्योत्या । अब नव्यनकस्य कविप्रोटोक्तिमन्तरेणापि सम्भवात्स्वतःसम्भचिता।
अथ स्वतःसम्भविना वस्तुनाऽलङ्कारध्वनिमुदाहरति-'तदप्राप्तिमहादःखविलीनाशेषपातकेत्यादिना।
'तदप्राप्तिमहादुःखविलीनाशेषपातका तस्य प्रकृतस्य श्रीकृष्णस्येति यावत् । अप्राप्तिर्वियोगस्तया यन्महादुःखं परःसहस्रजन्मजन्मान्तपरिभोग्यं महत्कष्टमिति यावत् तेन तद्भोगेन विलीनानि विशेषेणादर्शनीयतां प्राप्तानि अशेषाणि समस्तानि पातकानि पापपुजा यस्याः सा । तथा पुनः । तच्चिन्ताविपुलाल्हादक्षीणपुण्यचया तस्य प्रकृतस्यैव श्रीकृष्णस्य या चिन्ता ध्यानं तदेकाग्रतया मनसा तत्स्वरूपभावेनेति यावत्,तया यो विपुलाहादः विपुलो महाननेकसहस्रयुगावसानभोगेनाप्यक्षय्यः अन्यत्रान्यथा चानुपलब्धुमशक्य आहादस्तेन तत्प्राप्त्या क्षीणाः पुण्यचथाः पुण्यानामाहादहेतुकानां धर्मानुष्टानजनितादृष्टविशेषाणां चयाः पुजा यस्याः सा । जगत्सूति जगत् प्रसवस्थानीयं यस्य तादशमित्यर्थः । यत्तु जगतः सूतिर्यस्मात्तमिति व्याख्यानं तन, व्यधिकरणबहुव्रीहेरगतिकगतित्वात् । परब्रह्मस्वरूपिणं परब्रह्माभित्रस्वरूपशालिनमित्यर्थः । श्रीकृष्णमिति शेषः । चिन्तयन्ती ध्यायन्ती । अन्या पूर्वलोकोक्ताभ्यो भिन्ना गोपकन्यका गोपस्य कन्यका पुत्री । निरुच्छासतया निरुद्धप्राणतया निर्गत उच्छास: श्वासोत्क्रमणं यस्मास्तत्तया "त्वतलोर्गुणवचनमि"ति पुंवद्भावः । नास्य प्राणाः समुत्क्रामन्ति अत्रैव समवलीयन्ते'इति श्रुतिः । मुक्तिम् गता प्राप्ता । इति भावः । गुरुजनोपरोधेन श्रीकृष्णसमीपं गन्तुमशक्यायाः श्रीकृष्ण यानवशान्मुक्तिं गतायाः गोपकन्यकाया वर्णनपरं विष्णुपुराणपथं न चदं पद्यद्वयमूह्यम् द्वाभ्यां युग्ममिति प्रोक्तमिति नियमान ॥ १९५ ॥ १९६ ॥
अथात्रालङ्कारध्वनिमाह-अत्रेत्यादिना ।
अत्रोदाहृतपद्ये । अशेषचयपदप्रभावादशेषचयपदयोः प्रभावः सामथ्र्य तस्मात । अनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसिततया अनेकजन्मनां सहस्राणि तैर्भोग्या ये दुष्कृतसुकृतफलराशयस्तेषां तादात्म्यमभिन्नत्वं तस्याध्यवसितता अध्यवसायस्तया । "हेतुने ति शेषः । भगवद्विरहदाखचिन्ताल्हादयोभंगवतो विरहदुःखं च चिन्ताहादश्चेति तयोः । प्रत्यायनं प्रतीतिसम्पादनम् । इत्यतः कारणात् । अतिशयोक्तिद्रयप्रतीतिरतिशयोक्त्योस्तदभिधेययोरलङ्कारयोर्द्वयं तस्य प्रतीतिः । अशेषचयपदद्धयद्योत्या अशेषपदद्योत्यां चयपदद्योत्या घेत्यर्थः । च पुनः । अत्र । व्याकस्याशेषचयपदद्वयस्य कविप्रौढोक्तिं कवेः प्रोटोक्ति विना अन्तरेण । अपि । सम्भवात् । स्वतः सम्भविता। बोध्येति शेषः ।
अत्रेदमवसेयम्-'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि।' इति स्मरणात्कर्मणां भोगा आवश्यकाः । कर्मफलानां भोगमन्तरेण मुक्तरनुपपत्तेः । प्रकृतायाः गोपकन्यकायाः गुरुजनकृतनिरोधवशात्साक्षाद्भगवत्सविधं गन्तुमशक्त्याया भगवत्सन्निधानानुपस्थितिजन्यापरिमेयात्यन्तदुःखसमूहस्यैकपदमेव भोगेन समस्तानां पापानां क्षयः सपयेव सत्रातः । पुण्यकर्मणां सर्वेषां भोगध भगवध्यानजन्यानिर्वचनीयानतिशयासमानापरिमेया संस्थाया असम्भवे खत एव मुक्तिः मुक्तिदशायां च प्राणा न पहिनियन्तिीति तस्या अपि तत्रैव विलीना न तु निष्क्रान्ताः । इत्येवमशेषचयपदद्वयन समस्तपापपुण्यभोगप्रतिपादनात्तयोरेव प्राधान्यम् । अथ भगवतः रानिधानाप्राप्तिजन्यं दुःखं ततश्च प्रेमवशाद्भगवति मनसःसन्निवेशः । इत्येतयोरनेकजन्मसहस्रभोग्यदुस्कृतसुकृतफलराश्यभिन्नत्वेनाध्यवसायान्निगीर्याध्यवसानरूपातिशयोक्तिद्वयमशेषपदस्य च चयस्यैवाधीनमिति । अत्राहुस्तर्कवागीशाः अत्रायम्भावः । प्रकृतेऽभिधेयबोधानन्तरं सुखदु:खभोगविशेषेण कथं यावत्पुण्यपापक्षयइत्युपपत्तिं प्रति सन्दधतो व्यज" नया यावत् सुखदुःखभोगजन्याशेषपुण्यपापत्वव्यञ्जनया झटिति प्रतीतिः प्रकरणवैशिष्टयेन प्रकृतयोभगवद्विरहदुःखचिन्ताss हादयोः प्रतीतिरित्यतिशयोक्तिद्वयस्य व्यङ्गयत्वम् । न चाध्यवसायमात्रेण कथमनुपपत्तिनिरास इति वाच्यम् । एककार्य