________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
૩૨૭
अत्र स्वतःसम्भविना वस्तुना कृतपरपुरुषपरिचया क्लान्ताऽसीति वस्तु व्यज्यते । तञ्च अधुना क्लान्ताऽसि न पूर्व कदचिदपि तवैवंविधः कुमो दृष्ट इति बोधयतोऽधुनापदस्यैवेतरपदार्थोंस्कर्षात । इति " अधुना" पदस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।
'देव' | २|३|२३| इति तृतीया। अधुना साम्प्रतं सायङ्कालिकन्नानविधानानन्तरमितरकार्याननुत्रेयत्वात्सुरभितेन चन्दनेन सम्यगासमन्तात्परकृतलेपनाऽनन्तरं समस्ततापशान्तो लेपविधानादिश्रमानुत्पत्तौ च रात्रेव समीपायाः कृ तावस्थानाद्भयाद्यभावाच्च क्लमसामन्याः सर्वथाऽसम्भवेऽस्मिन्समये । क्लान्ता श्रान्ता । असि त्वं यबभितोऽत्यन्तं सुकोमलत्वं न स्यात्कथमेव पस्मिन्नपि समये क्लान्ताऽभविष्य इति व्यज्यते । अत एव ते तब अमीलनव्यतिकरः । द्वन्द्वं त्रयोर्द्वन्द्वं युगलं ( क ) । न नैव । आसितुं स्थातुम् । आस् उपवेशने । शक्नोति क्षमते । अत्र सखीतिपदाऽनभिधानं तन्मात्रकृतसुरतानन्दलाभाऽसहिष्णुतां व्यञ्जयति । इति उपनायकेन समं सङ्गम्य विलस्य च श्रमापनोदनाय सुचिरं कृतस्नातां परकृताऽसुगन्धितचन्दनालेपान्निशि निर्भयमागच्छन्तीं सखीं प्रति ज्ञातरहस्याया उपहसन्त्या विदग्धाया कस्याश्चिदुक्तिरियम् । अत्र च शार्दूलविक्रीडितं वृत्तम् । लक्षणं च प्रागुक्तम् ॥ १९४ ॥
अप्वनिमाद - अत्रेत्यादिना ।
अत्रोदाहते थे । स्वतः सम्भविनान तु कवेः प्रौढोक्तिसिद्धेन । वस्तुना । 'हे सखि ! तब सौकुमार्यमत्यन्तं, येनाऽधुना क्लान्तासी 'ति वाच्यरूपेणेति शेषः । कृतपरपुरुषपरिचया कृतः परपुरुषपरिचयो यया, परपुरुषस्य स्वपतिभिन्नस्योपपतेरिति परिचय आमन्त्रणालिङ्गनादिरूपः व्यापारः । अत एव परपुरुषेण निर्दयतया मर्दितत्वात् । क्लान्ता श्रमार्त्ता । असि इति वस्तु । व्यज्यते तद् व्ययवस्तु इत्यर्थः । । च पुनः । अधुना कथमपि किञ्चिदपि मानापाद के प्रत्युत सर्वथा सर्वतोभावेन कथमपि किञ्चित्सम्भवस्तापभ्रमस्य झटिति यथेष्टं निवृत्तिकरे शान्तेथ सम्पाद केsस्मिन्नपि समये इति भावः । क्लान्ताऽसि श्रमार्त्ता अलि विद्यसे । ननु न । पुनः कदाचित्कस्मिंश्चित्समये अपि पूर्वमितः पूर्वम् । तव 'सख्या' इतिशेषः । एवंविध एतादृशः । क्लमः परिश्रमः । दृष्टो ' मये' ति शेषः । इत्येवम् । बोधयतो ज्ञापयतः सूचितं कुर्वत इति यावत । इतरपदार्थात्कर्षादितराणि यानि पदानि तेषामथस्तस्मा - दुत्कर्षा तदुत्कर्षमपेक्ष्येति भावः । व्यलोपे कर्मण्यधिकरणे चेति पञ्चमी । अधुनापदस्य । एव न त्वितरेप मितरपदार्थो स्कर्षापेक्षयाऽधुना पदार्थयोत्कर्षस्यैव सद्भावात् । इति कारणात्। 'अधुना' पदस्य एव । पदान्तरापेक्षा । वैशिष्टयं विशिष्टत्वं विशेषेणोत्तमत्व प्राधान्योत्कृष्टत्वमवगम्यमिति शेषः ।
अत्रेदमवधेयम् - अधुनेत्येकं पदं सायन्तनस्नानस्य निमित्तान्तरानुसन्धान प्रतिबन्धकं मलय जचन्दनले पनस्य च तत्तत्सुरतकालिकपरपुरुष कृत चिह्नगोपनं सूर्यस्य चास्ताचलोलङ्घनोक्तेः परपुरुषसम्भोगप्रतिबन्धकप्रकाशाऽभावं विश्रब्धागमनस्य चेप्सितामोदहेतुकपरपुरुषसङ्गलाभेन हर्षोदेकं सूचयन् सुचिरं स्वच्छन्दं परपुरुषेण समं रमणानन्तरमन्तः सन्तृप्तिजनितेनाss मोदोद्रेकेण च परपुरुषगा ढोन्मर्दनश्रमार्ततया च निद्रास्पृहित्वं ध्वनयति । पदान्तरार्थानामुत्कर्षांपेक्षयास्यैवोत्कर्षातिशयात् प्राधान्यं निर्बाधितम् । अधुनापदमपि स्वयं न परिवृत्यसहिष्णु, कित्वर्थेनेति तत्पदार्थशक्तिमूल एवाऽयं वस्तु ध्वनिरिति । यथा वा मम - ' विचरसि यतोयतस्त्वं मधुपा अनुयान्ति तत्रतत्र त्वाम् । केनापि रहसि दृष्टं हन्त तवेदं प्रिये ! वदनम् ॥' अस्यायमर्थः - हे प्रिये ! यतोयतस्त्वं विचरसि तत्रतत्र त्वां मधुपा मधु मकरन्दम्पिबन्तीति मधुपाः प्रमत्ता भ्रमरा अनुयान्ति हन्त कष्टं रहसि प्रतिबन्धकरहिते देशे केनापि मधुपेन तवेदं वदनं दष्टमिति । अत्र हि केनापि सुकृतिना दष्टां रमणीं प्रति प्रार्थयमानस्य कस्याप्यलब्धकामस्योक्तिरियमितिकेनापीति पदार्थेन तस्य सुकृतभाजनत्व स्वस्य च हतभाग्यत्वं सूचितमिति ' वदनं कमल ' मिति रूपकातिशयोक्ति ध्वनयति अत एतत्पदार्थशक्तिमूल एवालकारवनिरिति ।