________________
३४६ साहित्यदर्पणः।
[चतुर्थःअत्र पुरुषोतमः पुरुषोत्तम इवेत्युपमाध्वनिः । इमौ शब्दशक्तिमूलौ संलक्ष्यक्रमव्यङ्गयभेदौ ।
"सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं ___ यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमत्रागतिः। आश्चर्य ! तव सौकुमार्यमभितः क्लान्तासि येनाधुना
नेत्रद्वन्द्वममीलनव्यतिकरः शक्नोति ते नासितुम् ॥ १९४ ॥"
इत्यादिना कनिन् । “राजा प्रभौ च नृपता" विति मेदिनी । जगति भूमण्डले भुवनत्रितये वा। राजते द्योतते शास. कत्वेन "तमेव भान्तमनुभाति सर्व"मित्यादिश्रुतिप्रसिद्धत्वेन वा विराजते इति यावत् ॥ १९३ ॥'
अथात्र ध्वनि निर्दिशति-अत्रेत्यादिना ।
अत्रोदाहृते पद्ये । पुरुषोत्तमः पुरुषेषु श्रेष्ठत्वेन तथा प्रसिद्धः। पुरुषोत्तमः क्षेत्रज्ञाऽपरपायेषु पुरुषेषु श्रेष्ठत्वेन प्रसिद्धः परमात्मा। इव यथा तथा राजते इति शेषः । इतीत्येव "पुरुषोत्तम इति पदमात्रप्रकाश्य" इति शेषः । उपमाध्वनिः उपमाया ध्वनिरवसेय इति शेषः ।
ननु कम्यैतौ प्रभेदावित्याशङ्कामुन्मूलयन्नाह-इमावित्यादि ।
इमो भुक्तिमुक्तिकृदित्यादिना, अनन्यसाधारणधीरित्यादिना चोदाहृतावित्यर्थः । शब्दशक्तिमूलौ शब्दशक्ति मूलं ययोस्तौ । शब्दपारवृत्त्यसहत्वेन तच्छक्तिमूलत्वमवसेयम् । संलक्ष्यक्रम 1 संलक्ष्यक्रमव्यङ्गथस्य तदभिधेयस्य ध्वनेर्भदौ "ज्ञेया" विति शेषः ।
यथा वा मम-“कस्यामोदं कमलं वदनमिदं ते प्रिये न सन्तनुयात् । अवलम्ब्य मित्रमेकं विकसति न यदन्यथा जातु" इति । अस्यायमर्थ:-हे प्रिये ! यत् एकं मित्रं सूर्य प्रियं वा "मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि" इति अवलम्ब्य विकसति हृदयामोदमुद्घाटयति अन्यथा प्रकारान्तरेण जातु कदाऽपि न विकसति तत्ते तवेदं वदनं (कर्त ) कमल वदनमिति वा कस्य यून आमोदं कमामोदं न सन्तनुयात्सम्पादयेत्, अपि तु सर्वस्यैव सर्वविधमामोदं सर्वदैव विदध्यात् इति । अत्र हि मित्रमितिपदमात्रप्रकाश्यो रूपकध्वनिः ।
अथ पदप्रकाश्यस्यार्थशक्तिमूलस्य संलक्ष्यक्रमव्यङ्गयस्य ध्वनेदशसु भेदेषु स्वतःसम्भवीत्यर्थे ब्यञ्जके वस्तुना वस्तुनो व्यक्तिमुदाहरति-"साय"मित्यादिना।
"सायं सूर्यास्तवेलायां दिवसे विधेयानां कृत्यानां सम्पादनानन्तरमिति यावत् , 'सखी'ति शेषः । स्नानं न वङ्गस्य कस्यचिन्मुखादेरेव प्रक्षालनम् 'त्वया' इति शेषः। उपासितमनुष्टितं सुचिरं सम्यक्तया विहितमिति यावत् । तत्तकर्म समाप्यैव सायं स्नानं क्रियते लोकैस्त्वयाऽप्येवं सायं स्नानमनुष्टितं तदनन्तरं च कर्तव्यान्तरानवसरतया न श्रमावकाशः - सम्भवितुमर्हति, सायं स्नानस्य दिवाकृतकृत्यजनितश्रमनिवृत्तिमात्रफलकत्वात् । एवं च दिवाकृतकृत्यजनितः क्लमः इति न वक्तुं शक्यमिति व्यज्यते । तथा-मलयजेन मलयसम्भवेन सुगन्धिना चन्दनेन। 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रिया"मित्यमरः । अङ्गं वक्षःस्थलादि गात्रम् । समालेपितं समन्ताल्लेपितं 'परेण केनापी ति शेषः । न तु चर्चितं वा लिप्तम् । एवं च लेपकरणजनितश्रमस्यापि नावकाशः । तथा-अम्बरमणिरम्बरमाकाशं तस्य मणिरिव मणिरिति तथोक्तः सूर्यः । अस्ताचलमौलिमस्ताचलस्य स्वयं यमुपेत्य अस्तो भवति तस्य पर्वतस्येति यावन्मौलि: शिखरं तम् । 'मौलिमस्तकमुण्डके' इति हैमः । 'उल्लङ्घथे ति शेषः। यातः । निबिडा सम्प्रति जाता रात्रिः, अतः सूर्योऽस्तगिरेरपि, परस्मिन्प्रदेशे गत इति भावः । एवं च न लेशतोऽप्युष्णतासद्भावः, येन कथमपि क्लमाविर्भावः सम्भाव्येत इति व्यज्यते । तथा-विश्रब्धं-विश्रब्धं निभीक यथा भवेत्तथा, स्वच्छन्दमित्यर्थः । मन्थरमभीतं चेति भावः । अत्र अस्मिन्दृश्यमाने प्रत्याख्यातुमशक्ये कुजादिना घनच्छायभूते देशे इति यावत् । आगतिरागमनम् । 'तवेति शेषः । एवं च मार्गकृतस्तत्र त्वरया गमनकृतश्च न क्लमः सम्भवति इति व्यज्यते । आश्चर्य विस्मयः । किं तदित्याह- तव प्रौढामप्येतामवस्थामापन्नाया इति भावः । अभितः सर्वतो बहिरन्तश्च, न वा बहिरेव नचान्तरेवेति यावत् । सौकुमार्य सुकोमलत्वम् । 'अस्तीति शेषः । येन सौकुमार्येण ।