________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । "अनन्यसाधारणधी ताऽखिलवसुन्धरः । राजते कोऽपि नगति स राजा पुरुषोत्तमः ॥ १९३ ॥"
तौ शब्दाविति तयोस्तथोक्तयोः सदागमशब्दप्रतिपाद्यस्य सदागमशब्दप्रतिपाद्यस्य चेति यावत् । उपमानोपमेयभावाविवक्षणादुपमानत्वोपमेयत्वयोर्विवक्षाऽभावादित्यर्थः । नोपमाध्वनिरिति शेषः । हि यतः । अत्रायं हेतुरिति भावः । रहस्यस्य रहसि संवेदनीयस्य गोपनीयस्यार्थस्येति यावत् । रहस्येकान्ते भवमिति रहस्यम् । 'दिगादिभ्यो यत् ।' ४।३। ५४ इति यत् । 'रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत् ।' इति मेदिनी । सङ्गोपनार्थ सम्यग्गोपनं रक्षणमप्रकाशनमिति यावत्तदेवार्थो यत्र तद् यथा भवेत्तथा । एव । यर्थपदप्रतिपादनं द्वयर्थपदानां प्रतिपादनम् । 'द्वयथैः पदैः पिशुनयेच रहस्यवस्तु।' इति नियमात् । न चैवं सच्छास्त्राभिधानमपि प्रकृतं स्यात्, विवक्षाया उभयत्र साम्यात् इति वाच्यमित्याह-च पुनः । प्रकरणादिपर्यालोचनेन तदद्वारेति शेषः । आदिपदेन वक्तृबोद्धव्ययोरभिधानम् । सच्छास्त्राभिधानस्य । असम्बन्धात् सम्बन्धाभावात् । न सदागमशब्देन सच्छास्त्राभिधानं प्रसज्येत । 'वक्तृबो. व्याधीनत्वादभिधायाः' इति शेषः । अत्रेदमभिहितं भवति-प्रस्तुतोऽर्थोऽत्रोपपतेः प्रशंसनं, वेदादिसच्छास्त्रप्रशंसनं न पुनः प्रस्तुतार्थविषय, वक्तृबोद्धव्यवैशिष्टयेनाभिधायास्तत्रैव नियमनात् । अथापि प्रस्तुतार्थस्य तस्य सकलजनसंवेदने रहस्यभङ्गः सारस्यभङ्गश्चेति भियाऽप्रस्तुतस्याप्यर्थस्य प्रस्तुतार्थत्वेन कल्पनम् । अत एवास्याभिधानं प्रथमम् । तत्र चाभिधया दर्शिते व्यापारे 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इति नयेन तस्या एव पुनर्व्यापारान्तरं दर्शयितुमशक्ती प्रस्तुतोऽपि 'सत आगमः कस्यानन्दहेतुको न स्या'दित्यर्थो व्यञ्जनयाऽवगम्यते । न चैवमनयोरुपमा, प्रधानभूते व्यजयायें एव प्रतीतिविधान्तावुपमाकल्पनाभावात्, सङ्गोपनार्थमेवाप्रस्तुतस्याप्यर्थस्य प्रथममुपस्थानात्, शक्यस्य प्रस्तुतस्याथस्यापि अप्रस्तुतत्वेन कल्पनात्पुनरुपस्थानाच्च । यद्यपि भुक्तिमुक्तयेकान्तादीनामपि व्यञ्जकत्वं, तथाऽपि तेषां न सदागममन्तरेणेति परिवृत्त्यसहत्वात्सदागमपदप्रकाश्य एव वस्तुध्वनिः । इति ।
अथ पदप्रकाश्यमलङ्कारध्वनिमुदाहरति-"अनन्यसाधारणधी"रित्यादिना ।
"अनन्यसाधारणधीः नान्यसाधारणा अन्येन साधारणा तुल्या धीर्यस्य सः । 'साधारण: समानश्च'त्यमरः । विलक्षणविचक्षणत्वात्सर्वज्ञत्वाद्वा । धताखिलवसुन्धरो धृता खवशीकृतत्वेन हस्तसात्कृता वराहरूपेण वोद्धता अखिला समस्ता चतुःसमुद्रान्सा वसुन्धरा रत्नगर्भा पृथिवी येन स तथोक्तः । पुरुषोत्तमः पुरुषाणां मनुष्याणां क्षेत्रज्ञानां वोत्तमः श्रेयान् । पुरुषाणां प्रभुत्वेन " उत्तमः पुरुषस्त्वन्यः" इत्यादिस्मृत्यनुकूलेषु 'श्रीपतिः पुरुषोत्तमः' इत्यादिकोषेषु प्रसिद्धो वा । सम्बन्धसामान्यविवक्षया षष्ठी न तु निर्धारणे । 'न निर्धारणे' २।२।१० इति निषेधात् । यत्त केचि"न निर्धारणे।"२।२।१० इति षष्ठीनिषेधान्न षष्ठीसमासः, किन्तु पुरुषेषूत्तम इति निर्धारणसप्तमीसमास एवेत्याहस्तन्न हृदयङ्गमम् । “संज्ञायाम् ।” २।१।४४ इति शास्त्रात्सप्तम्यन्तस्य सज्ञायामेव समासस्य नित्यत्वात् । अत एवाहुः कैयटपादाः-“यस्मिनिर्धार्यते वा यश्चैकदेशो निर्धार्यते यश्च निर्धारणहेतु'-रित्येतत्त्रयसन्निधाने निर्धारणं भवतीति तत्रैव षष्ठीसमासनिषेधो भवति । इह तु नागानामुत्तमो नागोत्तम इतिवत् तत्त्रितयसन्निधानाऽभावात्सम्बन्धसामान्ये षष्ठीति समासो भवत्येवेति । अन्येऽप्याहुः, “यत्तु केऽप्याहुः पुरुषेषूत्तम इति निर्धारणसप्तम्याः “सञ्ज्ञाया"-मिति समासः - नचैवं 'न निर्धारणे' इति व्यर्थम्,खरे भेदात् । सप्तमीसमासे हि "तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः।" ६।२।२ इत्यादिना पूर्वप्रकृतिवरः, षष्ठीसमासे तु "समासस्य ।” ६।१।२२३ इत्यन्तोदात्तत्वं स्यात्, तच्चानिष्टमिति, तन्त्र विचारसहम् । सञ्ज्ञायामिति समासस्य नित्यत्वेन स्वपदविग्रहासङ्गतिप्रसङ्गात्" इति । तर्कवागीशास्त्वाहः,-"ननु सज्ञायामेव "सज्ञायाम् ।” २।१।४४ इति शास्त्रात् ( समासशास्त्रात् ) कथं पुरुषोत्तमपदस्यानेकार्थकत्वं ? न च सप्तमीसमासस्यैव सज्ञायां विधानात् षष्ठीसमासेन पुरुषश्रेष्ठवाचकत्वमिति वाच्यम् । निर्धारणे विहितायाः षष्ठयाः, "न निर्धारणे ।" २।२।१० इति शास्त्रात्समासनिषेधात् । उच्यते-"पुरुषमुत्तमयति संसर्गेणोत्कृष्टं करोति" इतिव्युत्पत्त्या तस्य पुरुषश्रेष्ठवाचकत्वात् ।" इति । अन्येऽप्याहुः "उत्तमः पुरुषस्त्वन्यः" इत्युक्तदिशा 'उत्तमः पुरुष' इति कर्मधारय एव युक्तः प्रतिभासते, परनिपातस्तु राजदन्तादित्वादूह्यः ।" इति । सः प्रसिद्धः । कोऽपि कश्चिददृष्टवरूपोऽनिर्वचनीयस्वरूपो वा । राजा राजतीति राजा, नृपतिर्विभुवी "स सर्वस्येशान" इत्यादिश्रुतेः, "कनिन्..."(उ०) १९५४