________________
३४४ साहित्यदर्पणः।
[चतुर्थ:'भुक्तिमुक्तिकृदेकान्त-समादेशन तत्परः । कस्य नानन्दनिस्यदं विदधाति सदागमः ॥ १९२ ॥
अत्र सदागम'शब्दः सन्निहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम'इतिवस्तु व्यनक्ति । ननु सदागमः सदागमइवेति न कथमुपमाध्वनिः ? 'सदागम'शब्दयोरुपमयोपमेयभावाविवक्षणात् । रहस्यस्य संगोपनार्थमेव हि व्यर्थपदप्रतिपादनं प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धात् ।
मावा
विकसितकमलमुकुलसदृशनेत्रायास्तन्मुजु मनोहरं मन्दहसितं स्मितं, तानि श्वसितानि सौरम सम्पन्नामुखश्चासाः, सा वै कलङ्कविधुरा निष्कलङ्का मधुरास्वाद्याऽऽननश्रीर्मुखच्छटा अद्यापि मे मम हृदयं हन्तोन्मदयन्ति ॥' इति । अत्र च तत्पदमात्रप्रकाश्यः स्मृतिभावध्वनिः । यथा वा मम-'विकसत् कमलं समुदितमिन्दु पीयूषसागरं वाऽपि । सुमुखि । यदेव विलोके तदा तदेव प्रमोदेऽहम् ॥' इति । अस्यायमर्थ:-हे सुमुखि ! कमलवदनत्वाच्चन्द्रवदनत्वाद्वा यदैव विकसद्विकाशोन्मुखं कमलं, पीयूषस्य सागरभूतमिन्दं चन्द्रमसं वा विलोके पश्यामि तदा तदेव प्रमादेऽहम् ॥' इति । अत्र हि 'प्रमोदे' इत्यस्य हेतुर्विकसतः कमलस्य समुदितस्य वा सुधानिधेर्विलोकनं, तदपि सुमुख्याः सादृश्येन तत्स्मारकत्वात् । स्मृतिन पुनर्वाच्या, तद्वाचकानुपलम्भात् । 'तदेवेति च तदागमकालिकमनिर्वचनीयमलौकिकप्रमोदानुभवमुपन्यस्यति, न त्वभिधत्ते, अनुभवपदार्थस्यैव वचनागोचरत्वात् । 'तदे' त्यस्य बुद्धिस्थ (त्व) धर्मप्रकारकस्य बोधस्य जनकत्वेऽपि वचनागोचरत्वप्रकारकबोधजनकत्वे शक्त्यभाव एवेति तन्मात्रप्रकाश्यः स्मृतिध्वनिः । इति दिक् ।।
अथ संलक्ष्यक्रमव्यङ्गयो वाक्यगतो यथा मम-'न दिवा सुधानिधानं विकसति नक्तं न हन्त वा कमलम् । एक पनस्त्वदीयं सुभगे वदन दिवानिशं विकसत् ॥' इति । अस्यायमर्थ:-हे सुभगे : सुधानिधानं तत्त्वेन केवलं प्रसिद्धश्चन्द्रो न दिवा दिवसे कदापि विकसति, न वा हन्त : कमलं नक्तं निशि विकसति । एकं पुनस्त्वदीयं वदनं दिवानिशं विकस. द्विकसति ॥' इति । अत्र हि-चन्द्रापेक्षया कमलापक्षया च सुभगाया वदनमतिशयितंचमत्कारशालीति व्यतिरेकण 'यदीन्दर्दिवाऽपि कमलं वा नक्तमपि विकसेत्तदा स्यात्सुभगावदनं तत्सदशमि'त्युत्प्रेक्षा : 'विरूद्धधामणोरपि सर्वखायतनं सुभगावदन'मिति वा वस्तु व्यज्यते । इति दिक।
अथ संलक्ष्यक्रमव्यङ्गयस्यैतस्यैव पदप्रकादयत्वमुदाहतुं प्रवृत्तस्तत्र तावद् वस्तुना वस्तुध्वनिमुदाहरति-'भुक्तिमुक्ति. कृत्'इत्यादिना।
भुक्तिमुक्तिकृद् भुक्तिः स्वर्गादिभोगः सम्भोगश्च मुक्तिरपवर्गः सुरतप्रवृत्तौ वा विरहजनिततापत्रयस्य निवृत्तेः खतःसिद्धत्वात्तदामोदोद्रेके समस्तकर्त्तव्यान्तरत्यागस्तत्कृत् । एकान्तसमादेशनतत्पर एकान्तः परमात्मस्वरूपं विविक्त. देशो वा तत्समादेशनं तस्य सम्यक्तयोपदेशस्तत्परः । सदागमः सन् श्रेष्ठः सतो वाऽऽगमः शास्त्रं प्राप्तिः । कस्य सुखेप्सुनो युवतीजनस्य वा मद्विधस्येति यावत् । आनन्दनिस्यन्दमानन्दस्य निस्यन्दः क्षरणमिति तम् । न नैव । विदधाति समत्पादयति, अपि तु सर्वस्येव ।' अत्र हि समागतमुपसन्नमुपनायक कमपि युवानं प्रति जनान्तरसनिधी रहस्याभिधाने खारस्यभङ्गभियाऽप्रस्तुतवेदादिशास्त्रप्रशंसामिषेण स्यवकीयं तदनीतनं हर्षमपारयन्त्या अतएवैतं सूचयन्त्याः कस्याश्चनोपनायिकाया उक्तिरियम् ॥१९२॥
अथात्र पदप्रकाश्यं ध्वनि निर्दिशति-अत्रेत्यादिना ।
अत्रोदाहृते पद्ये इति यावत् । सदागमशब्दः 'सदागम इति पदमित्यर्थः । सन्निहितं समीपे स्थितम् । आगत्य समीप एव कृतस्थानमिति यावत् । उपनायक साक्षानायक(पति) तो भिन्नमुषपतिमित्यर्थः । प्रति । सच्छास्वार्थ सच्छास्त्रमेवार्थ इति तम् । साधुत्रमित्यर्थमित्यर्थः । अभिधायोक्त्वा मुख्यया (अभिधया) वृत्त्या प्रतिपायेति यावत् । अप्रस्तुतस्याप्येतस्यार्थस्य प्रस्तुतत्वेन कल्पितत्वात् । 'सतः श्रेष्ठस्य सुरतोपयुक्तत्वेन नायकत्वन कल्पितत्वात् । पुरुषस्य पौरुषमुन्नयतः । आगमः प्राप्तिः सम इति यावत्।'इति वस्त्वित्यभिधानरूपं वस्तु । व्यनक्ति वनयति ।
अथात्राशङ्कते-नन्वित्यादिना । ननु । सदागमः संत आगमः। सदागमः सतामागमः शास्त्रमिति । इव यथातथा। इतीयतः । उपमाध्वनिरूप. मालङ्कारस्य ध्वनिर्ध्वन्यमानत्वेनावस्थानम् । कथम् । न । इति चेदुच्यते-सदागमशब्दयोः सदागमश्च सदागमश्चति