________________
रुचिराख्यया व्याख्यया समेतः ।
परिच्छदः ]
एवं भावादिष्वप्यूह्यम् ।
अत्रायं पर्यालोकः - काव्यानां चारुत्वप्रतीतिः क्वचिद् वाक्यगता, कचिच्च पदगता, अन्वयव्यतिरेकाभ्यां पुनस्तस्याः संस्थानम् । वाव्यानि हि शरीरीणीव, तेषां च चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां वाक्येष्वपि कल्प्यते इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहार इति ध्वन्याचार्याणामाशयः । अत्राहुः प्रदीपकारा:-' ननु पदस्य व्यञ्जकत्वे किमायातम्, वाक्यरूपस्य काव्यस्य ध्वनित्वम् ! कथं वा पदमात्रस्य व्यञ्जकत्वे वाक्यस्यैव समस्तस्य चारुतेति चेत् ! उच्यते, पदप्रकाश्यत्वं न पदमात्रस्य व्यञ्जकतया, किन्तु तस्य प्राधान्येन । अविवक्षितवाच्ये पदमात्रस्य व्यञ्जकत्वेऽपि यद्वायवर्तिशब्दस्यार्थस्य वाक्यस्याप्यतिशयितार्थव्यञ्जकत्वं तद्वाक्यस्यैव ध्वनित्वमित्युपगमान्न कश्चिद्दोषः । एकदेशस्थितेन च तादृशपदेन समस्तमेव वाक्यं चारुतामुपगच्छतीति । कामिनीवैकावयवस्थेन भूषणेने 'ति । युक्तं चैतत्सर्वेषामपि निर्णयोऽन्वयव्यतिरेकाभ्याम् । पदवाक्य सत्त्वासत्त्वाभ्यां ध्वनेः सत्त्वेऽसत्त्वे चैतस्यापि पदनिष्टत्वं वाक्यनिष्ठत्वं चाप्रतिहतम् । एवं च - पदमात्र द्योत्यो ध्वनिः पदध्वनिः, वाक्यमात्रद्योत्य: पुनर्वाक्यनिष्टः । यद् द्योत्योऽतिशयितोऽर्थचारुतया व्यज्यते तस्यैव ध्वनिव्यपदेशात् । अतएवाभिनवगुप्तपादाः प्राहुः - 'रसप्रतीतिर्विभाचादेरेव । तेन विभावादयो यदा विशिष्टेन केनापि पदेनार्प्यमाणा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यते । इति भावः । ' इति
३४३
यथा वा मम -' को ननु धन्यः स युवा तरलायतलोचने प्रिये जगति । तेन दृगन्तेन तव प्रहतोऽपि नयः पुनः प्रहृतः ॥ ' इति । अस्यायमर्थः - हे तरलायतलोचने ! तेन तव दृगन्तेन प्रहतोऽपि यः पुनर्न प्रहतो मृतो जातो जीवतीत्यर्थः । स कोननु युवा जगति धन्यः ॥ इति । अत्र हि स्मृत्यारूढा साक्षादिव प्रत्यक्षपथमवतरन्ती नायिकाSSलम्बनं ' तद्दगन्तस्मृतिश्रोद्दीपनं, दुगन्तस्य चासह्यामोघास्रत्वेन सम्भावनमनुभावो, विस्मयोद्वेगादिर्व्यभिचारीभावश्चेत्येतेषां संयोगादभिव्यज्यते विप्रलम्भः । तस्याभिव्यक्तिव 'तेने 'ति पदेनेकेनैवेति पदगतोऽसावसंलक्ष्यक्रमव्ययो नाम ध्वनिः ।
यथा वा मम - 'यद्यसि जीवितनाथे ! त्वं मयि दीने सुनिधितं दयिता । प्रहरसि किं मां वितथं, हन्त हगन्तेन तिग्मन ॥ अस्यायमर्थ:-- 'हे जीवितनाथे जीविताधीश्वरि ! यदि मयि दीने ( विषये ) सुनिश्चितं दयितां जातदयात्वमसि । तर्हि - किं तिग्मन दुगन्तेन (साधनेन ) हन्त ! मां प्रहरसि प्रहारेण व्याकुलतां नयसि ॥' इति । अत्र हि काऽपि मृगाक्ष्यालम्बनमुद्दीपनं पुनस्तया सह रहसि समागमः, 'जीवितनाथे' इति सम्बुद्धिपदाक्षिप्तं मदनार्दितत्वमनुभावो, व्यभिचारी पुनर्भङ्गयन्तरेणौत्सुक्यं व्यज्यमानमित्येषां संयोगाद्रतेरभिव्यक्ति: । सा च - 'दयिते 'ति पदप्रकाश्या ।
यथा वा - 'मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व वृतिं वधान, ऋजुतां दूरे कुरु प्रयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना, नीचैः शंस, हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ' इति । अस्यायमर्थः - 'हे मुग्धे ! सदुपदेशग्रहणशीलत्वाभावादप्रौढबुद्धे कौमारयौवनान्तर लावस्थाके इति वा मुग्धतयाऽविदग्ध तयैवाखिलोऽतीतो वर्तमान आगमिष्यंव कालः समयो नेतुं यापयितुं किमारभ्यते अतः - मानं धत्स्व बलाद्धारय, वृतिं धैर्य बधान, प्रेयस्यत्यन्तं प्रिये (विषय) ऋतुतां सरलतां दूरे कुरु । एवमित्येवं सख्या प्रतिबोधिता भीतानना सती तां सख प्रतिवच उत्तरमाह - किमिति - नीचैः शंस कथय, हि यतो मे मम ननु हृदि स्थितः प्राणेश्वरः श्रोष्यति । ‘ऋत्यकः ।' ६।१।१२८ इति संहिताया अभावः । अतिशयेन प्रियः प्रेयान् तस्मिन् । द्विवचनविभज्योपपदे तरबीयसुनौ ।' ५।३।५७इति ई । यसुन् । 'प्रिय स्थिर स्फिरो रुबहुलगुरुवृद्ध प्रदीर्घवृन्दारकाणां प्रस्थस्फवर्वहिगर्वत्रिपदाघिवृन्दाः ।" ६।४।१५७ इति प्रादेशः । इति । अत्र हि प्राणप्रिय आलम्बनं तेन विना संस्थानं रहसि सखीभिः संवादी वाद्दीपनं भीताननत्वेनोत्प्रेक्षितं चकितनयन निरीक्षणाद्यनुभावः भयकम्पादिपुनर्व्यभिचारी भाव इत्येतेषां च संयोगादभिव्यज्यते सम्भोगः शृङ्गारः । स च ' भीतानने 'ति पदमात्रद्योत्यः, भयप्रतिपाद्या कृत्रिमानुरागेण च तस्य प्रकर्षात् ।
अथोक्तन्यायमितरत्राप्यतिदिशति - एवमित्यादिना ।
एवं यथोक्तस्थले शृङ्गारे तथा । भावादिषु भावतदाभासादिषु । अपि । ऊह्यमसंलक्ष्यक्रमव्यङ्गयस्य पदप्रका इयत्वमिति शेषः । तत्र - भावध्वनिर्यथा - 'तन्मज्जुमन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि हृदयमुन्मदयन्ति हन्त सायन्तनाम्बुजसहोदरलोचनायाः ॥ ' इति । अस्यायमर्थ: - 'सायन्तनाम्बुजसहोदरलोचनाया अर्थ