________________
साहित्यदर्पणः।
[चतुर्थः-- अत्र लावण्यादीनां ताहगनुभवैकगोचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः।
तदुक्तं ध्वनिकृता'एकावयवसंस्थेन भूषणेनैव कामिनी । पदद्योत्येन सुकवेनिना भाति भारती ॥'
कान्तिरिति चण्डीदासः । इति । असोन वेषा । सनिश्वाभावात । पूर्व साक्षात्कृतवन स्मृतिमात्रमाटा तद्विषय वन वा जाता । कान्तिश्शोभा लावण्यनिष्ठेति यावत् । इच्छेति वा । 'कान्तिश्शोभेच्छयो: त्रियाम् । इति विश्वः । तत् । रूपमाकारः । यद्गतं कान्तिसवलितमिच्छाविषयं वा लावण्यं तदित्यर्थः । सः । स्मृतिमात्रमारूट: । वचःक्रमो वचसामुक्तीनां क्रमोऽवस्थापनशैली, किन्तु-तदा यदा तया तादृशलावण्यशालिन्या सह सगागमो जात इति शेषः । सुधास्यन्दं सुधां स्यन्दयन्तीति तथोक्तम् । स्यन्दू प्रस्रवणे। मुखातिशयजनकमित्यर्थः । एतत्सर्वमिति शेषः । अभृत् । अधुना। तु पुनः । महान भयङ्करः । ज्वरः सन्तापः । अभूदिनि पूर्वतोऽन्वेति । कस्यापि कयाऽपि कदापि विहितसङ्गमया नायिकया सम जाते पुनर्विरहे राङ्गमकालिकामोदानुभवं स्मरतः कामुकस्योक्तिरियम् । अत्र हि स्मृत्यारूढानायिकाऽऽलम्बनं, कथमपि तत्स्मृतिरेव कोऽपि वा तत्स्मृतिहेनुहद्दीपन, ज्वरणवाद्यमानत्वमनुभावश्चित्तो त्रासादियभिचारीभावश्चेत्येतेषां संयोगाद्विप्रलम्भो नाम शृङ्गारो रतिष वा तत्स्थायिभावभूता व्यज्यते इति बोध्यम् १९.१॥
अथ तदादिपदानां व्यञ्जकत्वमुपपादयति-अत्रेत्यादिना । __ अत्रोदाहते पये। लावण्यादीनाम । आदिपदेन कान्तिरूपवचः-चकमाणनामपि ग्रहणम् । तादृगनुभवैकगोचरताव्यचकानां । ताग यादृशो लावण्यादयः, योऽनुभवोऽनिर्वचनीयो मूकावादितावादनीयास्वादसदृशो वक्तुमशक्यो लावण्याद्यवगमोदार इति, तस्यैकगोचरता तेनैकगोचरतेति वा मुख्यविषय (प्रतिपाद्य ) त्वं तस्या व्यअकानीति तेषां तथोक्तानाम् । एका मुख्याऽसौ गोचरतेति । सम्बन्धसामान्ये षष्ठी, अभेदे वा तृतीया । तदादिशब्दानाम् । आदिपदमदःशब्दस्यापि ग्राहकम् । एव ननु लावण्यादीनामपि । प्राधान्यम् । अत्युत्कृष्टविप्रलम्भव्याने इति शेषः । अन्येषां लावण्यादीनाम् । तु पुनः । तदुपकारित्वं तदादिपदसहकारित्वम् । तददस्तत्तच्छब्दैरभिव्यज्यमानस्यैवानिर्वचनीयत्वस्य सहकारित्वमात्रेणोपकारित्वं न तु स्वातन्त्र्येणेति भावः । एव न तु प्राधान्यम् । इतीत्यम्माद्धेतो: । तन्मूलकस्तदादिशब्दमूलकः । एव न तु वाक्यमूलकः । ध्वनिव्यपदेशः । 'प्राधान्थेन हि व्यपदेशा भवन्ती'ति न्यायात् । प्रमोदामोदाववस्तूनां स्मरणात्तत्तद्विरहदशायां कामुकस्य भवत्येव सन्तापातिशय इत्येव प्रकृतेऽपि विप्रलम्भस्य शृङ्गारस्य सातिशयमभिव्यक्तौ तदादिपदानामेव प्राधान्यात्पदमूलक एवासंलक्ष्यक्रमव्यङ्गयो नाम ध्वनिरिति भावः । अत्राहुस्तर्कवागीशा:- ननु तदादिपदानामनुभवगोचरेऽभिधैव, कथं व्यञ्जनेति चेत्, न अनुभवैकगोचरतेत्यनेनानिर्वच. नीयत्वस्यैव विवक्षणात् । अत एव चण्डीदासः-'अनुभवैकगोचरास्तत्कालचमत्कारणो निर्वक्तुमशक्याः सर्वस्वव्ययप्राणपणादिभिरपि प्रार्थनीयाः।' इति व्याचकार।' इति ।
ननु वाक्यध्वनावपि परस्परं साचिव्येनैव वाक्यतामापनानां पदानां व्यञ्जकत्वं, पदान्तरसाचिव्यमन्तरेण पदस्यैकस्य व्यजकत्वासम्भवादिति प्राधान्याप्राधान्यविवेचनस्य चाकिञ्चित्करत्वम्। एवं सति च 'सर्वत्रैवास्तां वाक्यस्य व्यञ्जकत्वम् ।' इति चेन्नेत्याचार्यमतमपन्यस्यति-तदित्यादिना । .. तत् । यदुपजीव्यात्र पदध्वनित्वमेवं स्वीकुर्म इति शेषः । ध्वनिकृता ध्वन्याचार्येण । उक्तम् । 'एकावयवखंस्थेनेत्यादिना ।
'एकावयवसंस्थेन यस्मिन्कस्मिन्नपि कर्णाद्यन्यतमेऽङ्गे स्थितेनेत्यर्थः। 'विच्छित्तिशोभिनेकेने' ति पाठान्तरम् । विच्छित्तिः 'स्तोकाऽप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।' इत्युक्तलक्षणः स्त्रीणां स्वभावसिद्धोऽलङ्कारविशेषस्तया शोभीति तेन । अभेदे तृतीया । विच्छित्यभिन्नशोभाशालिना । एकेनाद्वितीयेनेत्यर्थः । भूषणेन भूषणद्वारा ! कामिनी । न तु विरक्ता सुन्दरी। इव । पदद्योत्येन पदेन पदद्वारा द्योत्यो व्यङ्गय इति, तेन तथोक्तेन। ध्वनिना। सुकवेः सहृदयस्य कवेः । भारती । श्रोत्रग्राह्यवाक्यव्यङ्ग्यास्फोटरूपा वागित्यर्थः । भाति । प्रकाशते॥' इति ।