________________
[ चतुर्थः
साहित्यदर्पणः ।. एवं वाग्याश्यलकत्वे उदाहतम् । लक्ष्यार्थस्य यथा-'निःशेषच्युत'मित्यादि
लक्ष्यार्थव्यङ्ग पार्थयोरप्येवं व्यजकत्वमुदाहतुकाम आह-एवमित्यादि । एवं निरुक्तदिशा । वाच्यार्थव्यञ्जकत्वे वाच्यार्थस्य व्यञ्जकत्वं तस्मिन्सति। उदाहतं व्यङ्गयमिति शेषः ।
अथ क्रमप्राप्तं लक्ष्याऽर्थव्यङ्गयाऽर्थयोरपि व्यजकत्वे व्यायमुदाहृतु प्रवृत्त आह-लक्ष्यार्थस्य व्यञ्जकत्वे सतीति शेषः। यथा 'व्यङ्गय मिति शेषः। 'निःशेषच्युत'मित्यादि । 'बोध्यमिति शेषः । अत्राऽयमभिप्रायः-पद्यार्थस्तुःस्फुदीक्त एव प्राक । अत्रेदमन्वेषणीयम्-कोऽत्र लक्ष्यार्थः तस्य व्यन्जकत्वे किं व्यङ्गय स्फुरत'ति । अत्र वापी स्नातुमितो याता न भवती किन्तु तस्यान्तिकमिति विपरीत परिणमन् अत एव सुचिरं तेन समं विहत्य समायाताऽस्तीति व्यङ्गया धमवतारयति । अथ स्वतःसम्भविना लक्ष्यार्थरूपेण वस्तुनाऽलङ्कारध्वनिर्यथा-'बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दु नियमय पुनः पन्नगगणैः । न कुर्व्यास्त्वं हेलामितरजनसाधारणधिया जगन्नाथस्याऽयं मुरधुनि! समुद्वारसमयः । अत्र हि जगन्नाथ इति वाच्योऽर्थः प्रकृतानुपयुक्तपापविशिष्टत्वेन लक्ष्यते असौ पुनारतरजनसाधारणोनायं पापीति जगन्नाथो जगन्नाथ इव पापीयानिति व्यञ्जयत्यनन्वयम् । अलङ्कारेण पुनर्वस्तु ध्वनिर्यथा मम-'शान्तोऽसि दान्तोऽगि सुहृद्रोऽसि त्वमेक एवासि दयानिधानम् । परोपकर्ता त्वमनन्य एव एवं निरर्थ भुवनत्रयेऽपि ॥' एवं निरर्थे भुवनत्रयेऽद्य परोपकर्ता न परस्त्वयाऽस्ते । इत्येक एवासि विधातृसृष्टौ दयानिधानं त्वमेव' इति । अत्र हि नितान्तं निरर्थमपकारिणं प्रत्युक्तिरिति वाच्योऽर्थः । प्रकृतेऽनुपयुज्यमानो विपरीतलक्षणया विपरिणमति । तत्सिद्धेन पुनरनन्वयेन हन्त यदद्य निरर्थमपकृतम्-अथापि मधुर एवाहं भाषे न पुनः परुषमितीदृशेऽपि मयि दुर्धियस्तव पापीयस्त्वं केन वक्तुं न शक्यतेति व्यज्यते । यद्वा-विधातृसृष्टौ त्वमेतादृश इति वरम् । यद्यपरोऽपि त्वादृशोऽभविष्यत्तर्हि किं लोकदुःखमुदवर्धिष्यतेति किं केन वक्तुं शक्येत इति व्यज्यते । अलङ्कारेण पुनरलकार ध्वनिर्यथा मम-अलकतमः परिपीतं सुस्मितसुषमापुरस्कृतं मधुरम् । को न सुधानिधिसहज सुमुखि मुखं हन्त सम्मनुयात् ॥' अस्यार्थ:-अलकयोस्तमोऽलक एव तमो राहारति वा तेन परिपीतं सुषमा परमा शोभा तया पुरस्कृतं मधुरं मिट रमणीयं वा मुखं.सुधानिधिसहजं कोन सम्मनुतेऽपि तु सर्व एवेति । अत्रोत्प्रेक्षया रूपकं समासोक्तिश्च व्यज्यते । कविप्रौढोक्तिसिद्धेन लक्ष्यवस्तुना वस्तुवनिर्यथा मम-'अयि सुभगे! तव नयने कृतार्थयेते अपिक्षणं यं यम्। हन्त !स एव न चाऽन्योभुवनत्रितयेऽपिधन्यमूर्धन्यः ।।' अत्राहि कृतार्थयेते इति स्वयं बाधितः सन् पश्यत इति परिणमन् तव दृष्टिपातोऽनेकसुकृतकलभ्य इति व्यन्जयति । वस्तुनाऽलङ्कारध्वनिर्यथा मम'विकसितसुस्मितरुचिरं मधुरिमसुरभितदिगन्तमुल्लसितम्। मध्ये भुवनत्रितये सुन्दार ! तव सङ्गतं वदनम् ।।' अत्र हि विकास्य सुरभेरुल्लासस्य च कुसुमधर्मस्य च स्मिते मधुरिमणि वदने च बाधितत्वान् । स्मितादिपदैः कुसुमधा लक्ष्यन्ते तैश्च मुखस्य साधर्म्यमुपस्थाप्यते इत्युपमालङ्कारो लक्ष्यवस्तुना व्यज्यते । अलङ्कारेण वस्तुवनिर्यथा-'जयति प्रियापदान्ते गरलप्रैवेयक: स्मरारातिः । विषमविशिखे विशन्निव शरणं बद्धकरवालः ॥' अत्र हि गरलस्य रसविशेषस्य पार्थिवविशेषत्वाऽसम्भवाद्गरलस्य तस्यापि तादृशधर्मित्वं लक्ष्यते तत्सिद्धेन पुना रूपकेण-अयि प्रिये झटिति प्रसीद अन्यथा त्वत्सम्मुख एवेषोऽहं म्रिये। स्मरहतके कुपितायामेव त्वयि तमहं विजितवानपि अद्य पुनर्मयि कुपितायां त्वयि स एव मां विजेतु. मुद्यत इति व्यज्यते । यथा वा मम-'मानससम्भवदयितं मित्रमुपेत्य प्रहृष्यदास्यरुचि । सरसिजविकाससहज सुमुखि ! तवेदं मुखं भवने ॥' अत्र हि सरसिजविकाससहजताया मुखे बाधात्तत्साधर्म्य लश्वेत एतत्सिद्धेन पुनरुपमालङ्कारेण तव मुखं सरसिजमिव जडत्वादिसम्पन्नं किन्तु तद्विकासमात्रसमानमिति व्यज्यते। अलङ्कारेण पुनरलङ्कार व निर्यथा मम-- मुमखि ! तव स्मितसहजश्चन्द्रः स्मितं च तत्सहजम् । तदुभयमपि रमणीयं नयनानन्दसोपानम् ॥' अत्र हि उपमेयोपमया रूपकं व्यज्यते। कविनिबद्धप्रौढोक्तिसिद्धेन लक्ष्यवस्तुना वस्तुवनिर्यथा-'मुखं विकसितस्मितं वशितविभ्रमप्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥' अत्र विकासस्य पुष्पधर्मस्य स्मिते वशीकरणस्य प्रेक्षिते ऊर्ध्वगतिरूपसमुच्छलनरूपस्य मूर्तद्रवधर्मस्य विभ्रमे संस्थाया (मर्यादायास्त्यागस्य चेतनधर्मस्य) मतो मुकुलितत्वस्य पुष्पधर्मस्य स्तनयुगले उद्धरस्योत्कृष्टरूपधुरावत्त्वस्य चेतनधर्मस्य जघने मोदस्य (हर्षस्य चेतनधर्मस्य) यौवनोद्ये बाधितत्वाद्विकासादिभिः पदैः पुष्पादिनिष्ठधर्माः स्मितादि