________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । अत्र द्वितीयनयनशब्दो भाग्यवत्ताऽऽदिगुणविशिष्टनयनपरः । वाक्यगतो यथा
"त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥ १९०॥" अत्र प्रतिपाद्यम्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे 'त्वा' मिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थ लक्षयति । एवं 'वच्मी' त्यनेनैव कर्तरि लब्धे स्मीति पुनर्वचनम् । तथा 'विदुषां समवाय' इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुन 'वच्मी' तिवचन 'मुपदिशामीति वचनविशेषरूपमर्थ लक्षयति । एतानि च स्वातिशयं व्यञ्जयन्ति । एतेन 'मम वचनं तवात्यन्तं हितं, तदवश्यमेव कर्त्तव्य' मित्यभिप्रायः । तदेवमयं वाक्यगतोऽर्थान्तरसङ्क्रमितवाच्यो ध्वनिः।
भविता भविष्यति । सः । एव । न पुनरन्यविधोऽपीति शेषः । तरुणः । धन्यो भाग्यशाली।च तथा । तस्य तरुणस्येति शेषः । एव । नयने नेत्रे । नयने धन्ये इति यावत् ॥' इति । अत्रायम्भावः-मोहविद्यैवेयं यूनां मोहविधात्री अस्याश्च सुमुख्याः सौन्दर्यातिशायिन्या दर्शनादि परमेण भाग्येनैव नान्यथाऽपि, अथ यस्य नयनपथिकेयं, स परं धन्यः, तस्य नयने अपि परं धन्ये, अन्यथाऽस्यादर्शनाद्यपलब्धिप्रसङ्गासम्भावात् । इति ॥ १८९॥
अत्र ध्वनेः पदसम्भवित्वं दर्शयितुमाह-अत्रेत्यादि ।
अबोदाहृतेऽस्मिन् पद्ये इति भावः । द्वितीयनयनशब्दो द्वितीयो द्वितीयवारं पठितो नयनशब्दो 'नयने चे'त्यत्र 'नयने' इति शब्द इति भावः । भाग्यवत्ताऽऽदिगुणविशिष्टनयनपरो भाग्यवत्ताऽऽदयोये गुणास्तैर्विशिष्टं सम्पन्न
तत्परस्तदर्थबोधनाभिमुख इत्यर्थः । आदिपदेन च धन्यत्वमनोहरत्वाऽलौकिकत्वादयो ग्राह्याः । अत्रेदं बोध्यम्'कदली कदली-'त्यादाविव प्रकतेऽप्युदाहतेऽस्मिन् पये द्वितीयशब्दो न वाचकः, किन्तु लक्षकः । पूर्वत्र कदल्यादिशब्द इव लक्षको,ऽसावपि लक्ष्यस्यातिशयमवगमयति । लक्ष्यश्चात्र भाग्यवत्तादिः । यद्यपि 'कदली कदली ति पदगतध्वने रुदाहरणं दर्शितपूर्वम् , पुनरिदं प्रकृतमलङ्कर्तुमिति ।
अथ वाक्यनिष्ठममुमेवोदाहर्तुमाह-वाक्यगत इत्यादि।
वाश्यगतो वाक्यं पदसन्दर्भविशेषनिष्ठ इति भावः । “अर्थान्तरसङ्क्रमितवाच्य” इति शेषः। यथा'स्वा' मित्यादौ।
'अत्रास्मिन् स्थाने । यदिति शेषः । तथा च-अस्मिन् स्थाने यस्मात्कारणादिति भावः । विदुषां विदन्ति जानन्तीति यावत् इति तेषाम् । पण्डितानामित्यर्थः । 'लटः शतृ...। ३ । २ । १२४ इति शतुः 'विदे शतुर्वसुः । ७ । १ । ३६ इति वसुः । समवायः समूह: समाज इति यावत् । 'समवायश्चयो गणः ।' इतिकोशः तिष्ठति सावधानमास्ते । तत्तस्मादित्यर्थः । आत्मीयां खकीयामात्मसम्बन्धिनीमिति थावत् । 'गहादिभ्यश्च ।' ४।२।१३८ इति छ: 'आत्मने हितामिति व्याख्यानं तु न सत् । 'तस्मै हितम् ।' ५।१।५ इति बाधित्वा 'आत्माध्वानो खे ।' ६।४।१६४ इति प्रवृत्तौ 'आत्मनीना'मिति सुवचस्त्वात् । मतिं बुद्धिम् । आस्थायावलम्ब्य । अवास्मिन् विदुषां ( पंण्डितानां ) समवाये इति यावत् । स्थितिं सावधानमासनमित्यर्थः । विधेहि कुरु । इतीति शेषः । अस्म्यहम् आप्तोऽहमिति यावत् । अव्ययमिदम् 'त्वां नेत्रगोचरतां प्राप्तम् । उपदेशाहमिति थावत् । वच्मि ब्रवीम्युपदिशामीति यावत् । विद्वत्समाजे प्रविशन्तं कमपि युवानं बालं प्रत्येव वा कस्यापि वृद्धस्याप्तस्योक्तिरियम् ॥ १९०॥
अथात्र लक्ष्यं व्यङ्गयञ्च निर्दिशन् वाक्यनिष्टमर्थान्तरसमितवाच्यं ध्वनिं दर्शयति-अत्रेत्यादिना ।
अनास्मिन्नुदाहृते पद्ये इति यावत् । प्रतिपाद्यस्य वोधनीयस्योपदेशाहस्येति यावत् । प्रतिपादयितुं बोधयितुमह इति तस्य । 'अचो यत् ।' ३।११९७ इति यत् । सम्मुखीनत्वात् सम्मुखस्य दर्शनो द्रष्टेति तत्त्वात् । प्रत्यक्ष
१ द्वितीशब्दो द्वितीयवारं पठितः शब्द इत्यर्थः ।