________________
३४०
[ बतुर्थः
साहित्यदर्पणः। अत्यन्ततिरस्कृतवाच्यः पदगतो यथा-'निःश्वासान्धः-' इत्यादि।
दर्शनादिति भावः । 'यथामुखसम्मुखस्य दर्शनः खः । ५।६ इति खः । समं सर्व मुखमिति सम्मुखम् । रामशब्दस्या न्तलोपश्च निपातात् । एव केवलाद्धेतोः । प्रतिपाद्यत्वे वोधनीयत्वे वोधन इति यावत् । लब्धे सतीति शेषः । तश भे सतीति भावः । 'वाम'। इतीत्येवम् । पुनर्वचनं पुनरुक्तिः ( कर्त)। अन्यव्यावृत्तिविशिष्टमन्येभ्यो बोधनीयव्यतिरिकेभ्योऽन्तिकस्थितेभ्यो व्यावृत्तिनिवृत्तिस्तद्विशिष्टमित्यर्थः । त्वदर्थ त्वत्पदार्थम् । लक्षयति | लक्षितं करोति । एवमनेन प्रकारेणैवेति भावः । 'वच्मि' कथयामि । इत्यनेनेत्यभिधानेन । एव । कर्तरि कर्तृपदार्थ । लब्धे रातीति शेषः । 'अस्मि' अहम् । इति पुनर्वचनम् । अन्यव्यावृत्तिविशिष्टं मदर्थ लक्षयतीति शेषः । तथा। विदुषाम् । समवायः । इत्यनेनेत्येतेनाभिधानेनेत्यर्थः । एव । वक्तः । वक्तृजनस्य । प्रतिपादने वोधने बोध. व्यविषय इति यावत् । सिद्धे । पुनः पश्चात् । 'वच्मि'ब्रवीमि । इति वचनमित्यभिधानम् । उपदिशाभ्युप' देशं करोमि । च तथा । एतानि लक्षितानि पदानीति शेषः । स्वातिशयं स्वस्य स्वकीयास्थार्थस्य लक्ष्यस्येति यावदतिशयम्तम् । व्यायन्ति । एतेन लक्ष्यार्थाभिव्यञ्जनेन । 'ममाप्तस्यैतस्योपदेशकस्येत्यर्थः । वचनं कथनम् । तव । अत्यन्तम् । हितं हितकरम् । तत्तस्माद्धेतोः । अवश्यम् । निश्चितम् । एव । कर्तव्यमनुष्टेयम् । इत्यभिप्रायो निष्कृष्ट इति शेषः। तत्तस्मात्कारणात् । एवमनेन प्रकारेण। वाक्यगतो वाक्यनिष्टः। अर्थान्तरसइक्रमितवाच्यः । तदाख्य इति यावत् । अयं निर्देश्यमांनः । ध्वनिः । बोध्य इति शेषः । अत्रेदमभिहितम्-विदुषां सभायां प्रविशन्तमभिमुखीकृत्य कस्यचिदाप्तस्येयमुक्तिरित्येवं विधेही'ति सम्बोध्यमुद्दिश्याभिधानम्, अर्थतेनैव वक्तव्यविषयाभिधानेन गतार्थ 'लामस्मि वच्मी' त्यभिधानमिति माभूदनुपयुक्तमिति 'त्वा'मित्युपदेशार्ह त्वा मि,त्यस्मी' त्याप्तोऽहमिति, 'वच्मी'ति 'चो पदिशामी'ति लक्षयत्यर्थम् । लक्ष्यातिशयश्च व्यायः । एवं च-'विद्वत्प्रत्यक्षेऽपि 'विदुषा'मिति, आत्ममतेश्च सार्वकालिकत्वेऽपि 'आत्मीया' मित्यभिधानं च यथाक्रम 'सर्वशास्त्रविशारदानां विदुषा मिति प्रमाणपरतन्त्रामात्ममति'मिति च निर्दिशनअन्यथाऽऽचरणे भविष्यसीत्युपहासास्पदमित्यभिव्यञ्जयति तदेवं त्वा' मित्यादिपदार्थाना 'मन्यव्यावृत्तिविशिष्टमुपदेशाई त्वा'मित्यादिष्वर्थान्तरेषु सक्रमितत्वात्प्रकृतोऽयं ध्वनिरर्थान्तरसमितवाच्यः ।' इति । अतएवैवं व्याख्यातं तर्कवागीशैः'अस्मीति पुनर्वचनमिति । 'हितकारि मदर्थ लक्षयति' इति शेषः । सर्वत्र मुख्यार्थस्याभेदः सम्बन्धः । एतान्यन्यव्यावृत्तिविशिष्टत्वादिवस्तूनि । स्वातिशयमिति । त्वत्पदार्थस्य वादजल्पादिक्षमत्वम् । मत्पदार्थस्यान्तहितैषित्वम् । उपदेशस्यानुपेक्षणीयत्वमतिशयः ।' इति ।
अथात्यन्ततिरस्कृतवाच्यस्य द्वितीयप्रभेदस्य लक्षणामूलस्य ध्वनेः पदनिष्ठत्वं निदर्शयन्नाह-अत्यन्ततिरस्कृतवाच्य इत्यादि ।
अत्यन्ततिरस्कृतवाच्योऽत्यन्तं तिरस्कृतो न केनापि स्वरूपेणान्वयं प्रविष्टो वाच्यो यत्र स सादृश इति यावत् । जहत्वार्थामूलत्वादिति । पदगतः पदनिष्टो ध्वनिरिति शेषः । यथा-'निःश्वासान्धः-इत्यादि । 'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' इत्यस्य पूर्वार्ध 'रविसकान्तसौभाग्यस्तुषारावृतमण्डल: ।' इति । पद्यमिदं च व्याख्यातपूर्वम् । दर्शितश्चात्रात्यन्ततिरस्कृतवाच्यो ध्वनिः पदनिष्ठ इति ।
यथा वा-'मुनिरस्मि निरागसः कुतो मे भयमित्येव न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घयम् ॥' इति । अस्यायं पुनरर्थ:-'अहमर्जुनो मुनिरस्मि, निरागसो निरपराधस्य मम भयं कुतो भवेत् , इत्येवाभिमानो भूतये सम्पदे सुखायेति यावन्न । हि यतः-परवृद्धिषु परकीयासून्नतिषु बद्धमत्सरणां जातमात्सर्योद्रेकाणां दुरात्मनामलङ्ग्यं न लध्य किमिव किनामास्ति, अस्ति किमपि नालध्यमकार्यमिति ॥' अत्र हि-मत्सरस्य 'मत्सरोऽन्यशुभद्वेषे' इत्यमरोक्त्याऽन्यशुभद्वेषरूपस्य चित्तवृत्तिविशेषस्य बन्धनासम्भवाद्वद्ध इति नितान्तं सद्भाव लक्षयति, लक्षितेन पुनरेतेन मत्सरस्य (परवृद्धयो माभूवन्निति द्वेषरूपस्य चित्तवृत्तिविशेषस्य ) नितान्तसद्भावे वद्धसाधर्म्यमुद्रेकविशेष व्यनयतीति वाच्यस्यात्यन्तं तिरस्कृतत्वादत्यन्ततिरस्कृतवाच्याभिधेयो ध्वनिः ।