________________
१३८
साहित्यदर्पणः।
[चतुर्थः
चतुर्थः
एषु च
२९२ वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः । तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा--
'धन्यः स एव तरुणो नयने तस्यैव नयने च । युवजनमोहनविद्या भवितेयं यस्य सम्मुखे सुमुखी ॥ १८९॥"
बोध्यम् । द्वितीयप्रभेदः सन्निति शेषः । शब्दार्थाभयशक्तिमूलतया शब्दश्चार्थश्चोभयं चेति, तच्छफिर्मूलं यस्य तत्तयेत्यर्थः । शब्दशक्तिमूलतयाऽर्थशक्तिमूलतया शब्दार्थशक्तिमूलतया चेति भावः । पञ्चदश तत्सइख्याकः । अत्रेय व्यवस्था-विवक्षितान्यपरवाच्यो नाम ध्वनिः सँलक्ष्यक्रमव्यङ्गयः सन् पञ्चदशात्मतामापद्यते, तपासौ शब्दशक्तिमूलो वस्त्वात्माऽलङ्कारात्मा चेति द्विविधः, अर्थशक्तिमूलोऽप्येवं वस्तुरूपोऽलङ्काररूपश्चेति द्विविधः, अथ वस्तुरूपः खतःसम्भवी कविप्रौढोक्तिसिद्धः कविनिबद्धप्रौढोक्तिसिद्धश्चेति, अलङ्काररूपः पुनरसावेव खतःसम्भवी कविप्रौढोक्तिसिद्धश्च कविनिबद्धप्रौढोक्तिसिद्धश्चेति षड्विधः, स्वतःसम्भविना कविप्रौढोक्तिसिद्धेन कविनिवद्धप्रौढोक्तिसिद्धेन च वस्तुरूपेणालकाररूपेण च सँल्लक्षितक्रमव्यङ्गयेनार्थशक्तिमूलेन विवक्षितान्यपरवाच्येन वस्तुध्वनावलङ्कारध्वनौ च द्वादशात्मकत्वं तस्येति । शब्दार्थोभयमूल: पुनरसावन्तरसङ्क्रमितवाच्यो नाम सँल्लक्षितक्रमव्यङ्गयात्मा धनिरेकप्रभेदः, स च वाक्य एव सम्भवति । इत्येवम् । अष्टादशभेदस्त्रयाणां पञ्चदशानां च सम्मेलनादिति शेषः । ध्वनिः । ध्वनेश्चाष्टादशत्वे काव्यस्यापि तत्प्रधानस्याष्टादशत्वम् । इति भावः ।
एवं ध्वनेरष्टादशभेदा इति काव्यस्यापि तत्प्रधानस्याष्टादशभेदाः सन्तीति निर्दिश्य, तत्र शब्दार्थाभयशक्तिमूलातिरितानां सप्तदशभेदानां पदवाक्यगतत्वेन द्वैविध्यमिति वक्तुमुपक्रमते-एषु चेत्यादिना ।
एण्वभिहितेषु ध्वनेरष्टादशसु भेदेषु मध्ये इति यावत् । च पुन:
२९२ शब्दार्थशतयुत्थः शब्दार्थयोः शक्तिरिति तस्या उत्तिष्टतीति तथोक्तः । शब्दाोगयराकिलो तरसङक्रमितवाच्यो नाम सल्लक्षितकमव्यङ्गयात्मा ध्वनिरित्यर्थः । 'उदःस्थास्तम्भोः पूर्वस्य ।' ८।४।६५। इत्युत्पूर्वस्य तिष्ठतेः सत्य पूर्वसवर्णत्वम् । 'आतश्चोपसर्गे ।' ३।१।१३६ इति कः । वाक्ये पदसमुदायविशेष । गम्भवाति शेषः । बत तस्मादुनेरित्यर्थः । अन्ये भिन्ना व्यतिरिक्ता इति यावत् । पदवाक्ययोः पदं च वाक्यं चेति, तयोः । पदे वाक्ये त्यभयत्रैव सम्भवन्तीति शेषः । अत्रेदं निष्कृष्टम्-शब्दश्चार्थश्चेत्येतयोः परिवृत्तिसहत्वासहत्वाभ्यां तच्छक्तिमूली ध्वनि नभयशक्तिमल इत्युच्यते इति निर्विवादम् , यद्यपि शब्दशक्तिमूलऽर्थस्य, अर्थशक्तिमूले च वनौ शब्दस्यापि व्यजम सम्भवतीत्यास्तां सर्व वोभयशक्तिमूलत्वमिति वक्तुं शक्यते । तथाऽपि 'प्राधान्येन व्यपंदशा भवन्तीति गुणप्रधानभावेन तेषां पार्थक्यमेवेति न तादवस्थ्यम् । 'अथ एकस्येव पदस्य परिवृत्तिसहत्वं परिवृत्त्यसहत्वं' चेति वक्तमय क्तम , तदन्तरेण च शब्दार्थोभयशक्तिमूलत्वस्यैवासम्भव इति शब्दार्थोभय शक्तिमूलस्य ध्वनेर्वाक्य एव सम्भवित्वम । असौ च वस्तुनाऽलङ्काररूप इत्येकविध एवेति । शब्दपरिवृत्त्यसहः पुनः शब्दशक्तिमूलोऽर्थपरिवृत्त्यसहोऽर्थशक्तिमूलश्च घनिरिति सम्भवत्येव तयोः पदवाक्योभयसम्भवित्वम् । यत्रैकस्यैव पदस्य शक्तेः प्राधान्यम् , अन्येषां पुनरानुगुण्यम्, तत्रध्वनेः पदसमभवित्वम. यत्र तु नानापदानां क्रियाकारकरूपाणां शक्तस्तुल्यत्वम्, न विषमत्वम् । तत्र तस्य वाक्यसम्भवित्वमेव, न पदसम्भवित्वमपीति ।
उभयशक्तिमलस्य पुनर्वनेरुदाहरण "हिममुक्तचन्द्ररुचिर:-" इत्यादि । तञ्च निर्दिष्टमेव पूर्वम् । अथ पदवाक्योभयसम्भविनोऽर्थान्तरसङ्क्रमितवाच्यस्य ध्वनेः क्रमेण पदसम्भवं वाक्यसंभवं चोदाहर्त्तमाह-तत्रेत्यादि।
तत्र पदसम्भविवाक्यसम्भविनोर्मध्ये इत्यर्थः । पदगतः पदसम्भवी । अर्थान्तरसङ्क्रमितवाच्यस्तन्नामेति थावत् । ध्वनिः । यथा यद्वत्सम्भवति तथोदाहियते-"धन्यः-" इत्यादिना ।
'यस्य निर्देश्यमाणभाग्यवैभवस्य कस्यापि युनः । सम्मुखे पुरोभागे । इयम् । सुमुखी सुन्दरवदना वामेति यावत । यवजनमोहनविद्या युवानो जना इति, तेषां मोहनविद्या मोहविधात्री विद्या, तद्वद्विद्यमानेति यावत् ।