________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । एवं च व्यङ्गयभेदादेव व्यञ्जकानां काव्यानां भेदः ।
२९१ तदष्टादशधा ध्वनिः॥ २८७ ॥ अविवक्षितवाच्यः, अर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधा। विवक्षित. पदवाच्यस्तु असँल्लक्ष्यक्रमव्यङ्ग्यत्वेन एकः । सल्लक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पश्चदश, इत्यष्टादशभेदो ध्वनिः ।।
..... ....-- तथोक्तम् , तमसो राहोर्भयान्मुक्तमिदं वदनम् ॥' इति अत्र 'विलास्युपरिष्टादधरादिशब्दानां परिवृत्तिसाहिष्णुतय 'रुच्या दिशब्दानां च परिवृत्त्यसहिष्णुतया चन्द्रबिम्बेन सभं वदनस्योपमानोपमेयस्य व्यङ्गयत्वेनोपमोलासेऽपि वदनपदार्थस्याश्लिष्टतया चन्द्रबिम्बेन समं तस्याभेदाध्यवसाया'द्वदनं चन्द्रबिम्ब'मिति रूपकं व्यज्यते । न च 'वदनचन्द्रविम्व. . योर्भेदेऽपि तदभावेनाभिधानादतिशयोक्तिरिति वाच्यम् । तत्र विषयिणा विषयस्याभेदमात्रावश्यकत्वेन निगरणस्यात्र पुनरन्यथात्वस्य सम्भवात् ।
ननु किमेवं व्यङ्गयभेदप्रपञ्चनेन प्रकृते समायातमित्याशङ्कयाह-एवं चेत्यादि ।
एवम् । च पुनः । व्ययभेदाद् व्यङ्गयानां व्यङ्गयार्थानां भेदस्तस्मात् । एव नत्वन्यतः । व्यञ्जकानाम् । काव्यानां कवित्वानां रसात्मकवाक्यानाम् । भेदः। एवं च यावन्तो व्यङ्गयभेदास्तावन्त एव काव्यस्यानि प्रभेदा इति सिद्धम् ।।
नन्वेवं कियन्तः काव्यभेदा जाता इत्याह-२९१ तदित्यादि।
२९१ तत् तस्माद्धेतोरित्यर्थः। ध्वनिरगुणीभूतो व्यङ्गयोऽर्थः। अष्टादशंधाऽटौ दश चेति सङ्ख्याकभेदात्मनाs. वस्थित इत्यर्थः । तदेवं ध्वनिकाव्यमष्टादशप्रकारमिति निष्पन्नम् । यावन्तो व्यङ्गवार्थास्तावन्ति पुनः काव्यान्यपीति सिद्धान्तादध्वनेरष्टादशत्वे काव्यस्यापि स्यादेवाष्टादशत्वमिति स्पष्टोऽर्थः ॥ २८७ ॥
तदेव विवृणोति-अविवक्षितवाच्य इत्यादिना।
अविवक्षितवाच्योऽविवक्षितो विवक्षाया अविषयभूतोऽन्वयायोग्यत्वेनानुपयुक्त इति यावदवाच्योऽभिधाविषयगतोऽर्थो यत्र स तदभिधेय इत्यर्थः । यत्र वाच्यतावच्छेदकरूपणान्वयबोधविषयो न भवति शक्योऽर्थः भवति पुनस्तत्सम्बन्धी स ध्वनिरविवक्षितवाच्य इति व्यपदिश्यते, अत एव ध्वनिरण्ययं लक्षणामूल इति भावः । अर्थान्तरस.
क्रमितवाच्योऽर्थान्तरे स्वभिन्ने विवक्षोपयोगिनि लक्ष्यताऽवच्छेदकेऽर्थे इति यावत् सडक्रमित आश्रयत्वेन परिणतो वाच्यो वाच्यार्थी यस्मिन् स इत्यर्थः । च तथा । अत्यन्ततिरस्कृतवाच्योऽत्यन्तं सर्वथा तिरस्कृतोऽनाहतोऽन्वयमप्रविष्ट इति यावद् वाच्यो वाच्यार्थों यत्र स तादृश इति यावत् । इत्येवम् । द्विविधो द्विप्रभेदो द्विरूपात्मेति यावत् । अर्थान्तरसइक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति अजहत्स्वार्थामूलो जहत्स्वार्थामूलश्चेत्येवमविवक्षितवाच्यो नाम ध्वनिर्दि रूपः, लक्षणाया अजहत्स्वार्थत्वेन जहत्स्वार्थत्वेन च तन्मूलोऽप्ययं ध्वनिर्द्विप्रभेदः, तत्राजहत्स्वार्थामूलस्यार्थीन्तरसङ्क्रमितवाच्यत्वं जहत्वार्थामूलस्य पुनरत्यन्ततिरस्कृतवाच्यत्वमिति तात्पर्यम् । अथ-विवक्षितान्यपरवाच्यो विवक्षितो वाच्यताऽवच्छेदकरूपेणान्वयबोधविषयभूत: सन्नेवान्यपरो व्यङ्गयोपसर्जनीभूतो व्यङ्गयरूपेणावस्थित इति यावद् वाच्यो वाच्यार्थी यत्र स इत्यर्थः । खरूपेण विवक्षितः सन् यो हि यत्र वा वाच्यार्थो व्यङ्गयावगमको भवति स विवक्षितान्यपरवान्यो नामाभिधामूलो ध्वनिरिति भावः । अत्र हि वाच्यार्थः स्वरूपेणान्वयबोधविषयीभवन् व्यङ्गयरूपतामापद्यते इति बोध्यम् । त । असँल्लक्ष्यक्रमव्यङ्यत्वेन न सम्यग् लक्ष्यो लक्षयितुं शक्यः क्रमः पौर्वापर्य यस्य तादृशो व्यङ्गयो व्यङ्गयाओं यत्र तत्त्वेनेत्यर्थः । यत्र हि प्रकरणमहिना झटिति युगपदिव विभावादयः प्रतीयमाना जायन्ते, तत्र सूक्ष्मेणैव कालेन व्यङ्ग्यप्रतीतिरुदयते इत्येवंविधे प्रकरणे हेतुहतुमतोः कथं स्यात् सँल्लक्षितं पौवापर्यम् । इति बोध्यम् । एको रसभावाद्यात्मेति शेषः । च पुनः । सँल्लक्ष्यक्रमव्यङ्गयत्वेन सम्यग् लक्ष्यः क्रमो यस्य तादृशो व्यङ्गयो यत्र तत्त्वेनेत्यर्थः । यत्र हि प्रकरणमहिम्ना न झटिति किन्तु विलम्बेन विभावादयः प्रतीयन्ते तत्र प्रकरणस्य विचारवेद्यत्वाचमत्कारस्य च व्यायास्मकस्य प्रकारणावगमाधीनत्वेन मान्थर्यमिति शनःशनैर्व्यङ्गयप्रतीयमानत्वे स्फुटं भवति सँल्लक्षितं पौवापर्यम् । इति