________________
३३६
साहित्यदर्पणः।
[ चतुर्थः
यथा__'हिममुक्तचन्द्ररुचिरः सपद्मको, मदयन द्विजान् जनितमीनकेतनः ।
अभवत् प्रसादितसुरी महोत्सवः प्रमदाजनस्य सचिराय माधवः॥ १८८ ॥ अब ‘माधवः' कृष्णः 'माधवो' वसन्त इवेत्युपमाऽलङ्कारो व्यङ्ग्यः । उदाहरति-यथेति ।
'हिममुक्तचन्द्ररुचिरो हिममुक्तो हिमावरणशून्यत्वेन निर्मलो यश्चन्द्रस्स इव रुचिरोऽभिलषणीयः, हिममुक्तश्चन्द्रो यत्र तादृशोऽसौ रुचिर इति वा । विवृतिकारास्तु 'हिममुक्तेन चन्द्रेण रुचिरो दीप्यमानः' इत्याहुः । सपाकः पद्मया लक्ष्म्या पद्मः कमलैर्वा सहित इति । द्विजान विप्रान् कोकिलादीन् पक्षियो बा। मदयन् हर्षयन् स्थित इति शेषः । जनितमीनकेतनो जनितः पुत्रत्वेनोत्पादितः सुरतोत्सववर्धकत्वेन समुलासितो वा मीनकेतनः प्रद्युम्नो मदनो वा येन सः । प्रसादितसुरः प्रसादिताः प्रसादं प्रसन्नतामानीता गता वा सुरा येन यत्र वेति । वि. तिकारास्तु-'प्रसादिता विमलीकृता सुरा मद्य येने त्याहुः । स प्रकृतः प्रसिद्धो वा । माधवो यदुनन्दनो वसन्ती वा । प्रमहाजनस्य वधूजनस्य । महोत्सवः । चिराय चिरकालपर्यन्तम् । अभवदभूत् ॥ १८८॥' इति ।
अत्र व्यङ्ग्यमाह-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये । 'माधवस्तत्पदवाच्यः । कृष्णः । माधवस्तत्पदवाच्यः । वसन्त ऋतुराजः । इव ।' इत्येवम् । उपमालङ्कारः। शब्दार्थाभयशक्तिमूल इति शेषः । व्यङ्गयो ध्वन्यः । अनेदं तात्पर्यम् -सपहाद्रिजमाधवशब्दानां परिसृत्त्यसहिष्णुत्वं, हिममुक्तादिशब्दानां पुनः परिवृत्तिसहिष्णुत्वमिति शब्दार्थोभयस्य प्राधान्येन व्यङ्गयोपमेति ग्रन्थकाराणां, विवृतिकाराणां पुनः प्रमदाजनस्य महोत्सवजनने 'यदर्थे यस्य प्रसिद्धिस्तत्रैव तस्य सामर्थ्यम्' इति वसन्तस्यैव सामर्थ्यम् । प्रतिसन्धानसहकृतेन माधवपदेन वसन्त एव व्यज्यते न त्वर्थान्तरम् । तस्य (माधवपदस्य ) तत्र (अर्थान्तरे ) सामर्थ्याभावात् । न चात्र शब्दार्थोभयश्लेषसत्त्वेन शब्दाभियशक्तिव्यङ्गयोपमेति वाच्यम् । तथा सति 'दुर्गालद्धित-' इत्यत्राप्युभयश्लेषसत्त्वेनोभयशक्तिव्यङ्ग्यत्वं स्यात् । 'गृहीतगरिमे' त्यर्थश्लेषस्यापि तत्र सत्वान् । इति, अथान्येषाम्-'दुर्गालचितविग्रहः' इत्यत्र परिवृत्तिसहिष्णूनां वल्लभादिशब्दानामन्तिरव्यञ्जकताया अभावात् परिवृत्त्यसहिष्णूनामेवोमादिशब्दानामर्थान्तरव्यञ्जकतायाश्च सद्भावान्न शब्दार्थोभयशक्तिमूलत्वं, प्रकृते पुनः 'हिममुक्तचन्द्रादिशब्दानां परिवृत्तिसहिष्णूनां सपद्मकादिशब्दानां पुनः परिवृत्त्यसहिष्णूनामित्युभयेषामप्यर्थान्तरव्यञ्जकत्वमिति शब्दार्थोभयव्यङ्ग्यत्वं निर्बाधमिति ।।
यथा वा, मम-'विलसतस्पृहणीयरुचिमित्रप्रेम्णा विमुक्तचन्द्रमनाः । जीवनदिव्यविभूतिः पमिनि ! मानसमुपेताऽसि ॥' इति । अस्यायमर्थः-' हे पद्मिनि सुन्दरीणां मुख्ये ! कमलिनि ! इति वा त्वं विलसत्स्पृहणीयरुचिविलसतो विलासं कुर्वतो नायकस्य स्पृहणीयरुचिः, विलसन्ती स्पृहणीया रुचिर्यस्याः सेति वा मित्रप्रेम्णा मित्रस्य दयितस्य नायकप्रवरस्य, सूर्यस्य वा प्रेम्णा । तद्वियोगासहिष्णुत्वरूपेण तदवियोगमात्रकालखविकाशित्वोत्प्रिक्षितेन वाऽऽन्तरिकेण भावेन, विमुक्तचन्द्रमना विमुक्तं चन्द्रमनश्चन्द्रमसि तदाख्यालङ्कारे वा मनो यया स जीवनदिव्यविभूतिजीवनस्य जीवितस्य दिव्या विभूतिः जीवनं जलं दिव्यविभूतिर्दिव्यावतारकारणं वा यस्याः सा, मानसं चित्तं सरोवरं वोपता गता स्थिता वाऽसि ॥' इति । अत्र विलसन्मित्रचन्द्रजीवितविभुतिमानसशब्दानां परिवृत्त्यसहिष्णुतया परिवृत्तौ चापरार्थबोधजनकताऽसम्भवात् स्पृहणीयरुचिप्रेमादीनां शब्दानां पुनः परिवृत्तिसहिष्णुतया पद्मिनीतदभिधेयानां विकास्वरूपात्वं पद्मिनी कमलिनी वासी, ति तयोरुपमानोपमेयभावेनोपमा व्यज्यते।
यथा वा, मम-'भाति विलास्युपरिष्टाद्रुचिमादधदिष्टमस्य लोकस्य । वदनमिदं रमणीय सुभगं तमसो भयान्मुक्तम् ॥' इति । अस्यायमर्थ:- 'अयि सुन्दरि ! विलास्युपरिष्टाद्विलासिजनस्योपरि रुचिं प्रीतिमादधदाहितं (निहितं) कुर्वाणमस्य (मम) लोकस्य प्राणिन इष्टममीप्सितं सुभगं सुन्दरं तमसो मालिन्यस्येति यावद्भयान्मुक्तं रमणीयं रमण्यास्तवेदमिति तथाभूतमिदं वदनं मुखं भाति ॥' इति । यद्वा-'अयि सुन्दरि ! उपरिष्टाद्गगनमण्डले रुचि कान्तिमादधद विलासिलोकस्य विश्वस्यास्य चेष्टमाराधनीय रमणीयं सुन्दरं सुभगं सुभं सुष्ठभं नक्षत्रं रोहिण्याख्यमिति यावत्तद्रच्छतीति