________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
३३३ 'मल्लिकामुकुले चण्डि ! मत्तो गुञ्जति षट्पदः ।
प्रयाणे पश्चबाणस्य शङ्खमापूरयन्निव ॥ १८६॥' अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षाऽलङ्कारेण 'कामस्यायमुन्मादकः कालः प्राप्तः, तत् कथं न मानिनि ! मानं मुश्चसि ।'इति वस्तु व्यज्यते ।
'महिलासहस्सभरिए, तुह हिअए सुहअ ! सा अमाअंति । अणुदिणमणस्मकम्पा अंगं तणुअंपि तणुएइ ॥ १८७ ॥'
जन
अथालङ्कारेण वस्तुध्वनिमुदाहरति-'मल्लिकामुकुले' इत्यादिना । . 'चण्डि अत्यन्तकोपनशीले! पश्चबाणस्य कामदेवस्य सार्वभौमस्येति शेषः । 'कामः पञ्चशरः स्मरः ।' इत्यमरः । प्रयाणे दिग्विजययात्रायाम् । शङ्खं विजयशसमित्यर्थः । आपूरयन् । इव। मतः। सर्वे तुच्छमाकलय्य हन्तुं पीतमदिर इव त्यक्तकर्त्तव्याकर्तव्यविचार इति भावः । षट्पदो भ्रमरः । ज्वरस्य त्रिपान्मात्रतया ततो द्विगुणप्रभाव इति यावत् । 'द्विरेफपुष्पलिड्भृङ्गषदभ्रमरालयः ।' इत्यमरः ।- मल्लिकामुकुले मल्लिकाया 'बेल्ली'ति प्रसिद्धाया लताया मुकुलो विकाशोन्मुखी कलिकेति यावत् तत्र तत्सविधे इति भावः । अत्रानुष्टुन्छन्दः । लक्षणं च प्रागुक्तम् ॥ १८६ ॥
अत्र व्यङ्ग्यमाह-अत्रेत्यादिना । - अवास्मिन्नुदाहृते पद्ये इति यावत् । कविनिबद्धवक्तप्रौढोक्तिसिद्धेन कविना निबद्धस्य कामिनः प्रौढो. त्या सिद्धेन प्रौढोक्तिश्चालीकस्यापि भ्रमरध्वने: कामस्य च दिग्विजयार्थ प्रयाणम्यावसरे शखध्मानत्वेनोत्प्रेक्षणरूपा । उत्प्रेक्षाऽलङ्कारेण तदात्मकेन व्यञ्जकेनार्थेनेति यावत् । 'कामस्य मदनस्य । उन्मादकः प्रभावोत्कर्षाधायकत्वेन प्रमत्तताया विधाता। अयम् । कालो वसन्ताख्य इति यावत् । प्राप्तः। तत्तहि । है मानिाने दुराग्रहीले ! मानमाग्रहमप्रणमनस्वभावमिति यावत् । कथं केन हेतुना। न नैव । मुश्चसि परित्यजसि ।' इति वस्तु तपमभिधानमिति भावः । व्यज्यते व्यञ्जनया बोधविषयीक्रियते । इति ।
यथा वा, मम-'सुमुखि ! मुखं तव रुचिरं स्वमिव न केनापि तुल्यमन्येन । इति तत् पश्यन् हसति प्रवर्धमानोऽपि हन्त शशी ॥' इति । अस्यायमर्थः-'अयि सुमुखि ! । तव मुखं रुचिरं मनोरमम् तत्, किमिवेति चेत् स्वमिव स्वेनैव तुल्यम् , अन्येन केनापि तुल्यं न तपमानभूतताया अन्यत्रालब्धेः । इत्यस्माद्धेतोस्तदलौकिकसौन्दर्यसर्वस्वभूतं त्वदीयं मुखं पश्यन् निरीक्षमाणः शशी चन्द्रः प्रवर्धमानः पुनःपुनर्भयनैव शनैःशनैर्वृद्धि प्रतिपद्यमानोऽपि हसति ततो भ्रश्यतीति । अत्र कविनिबद्धस्य कामिनो वक्तुः प्रौढोक्तिमात्रसिद्धेभ्योऽनन्वयव्यतिरेकविरोधाभासेभ्यः “न त्वया वहिर्गन्तव्यम् , वहिर्गतायां च त्वयि परेषां मानभङ्गाजनितोऽन्तः सन्ताप उपपद्यते, त्वया तु कारणान्तरतोऽपि जातस्य सन्तापस्य निवृत्ति विधातव्येति निजरमणविरहासहिष्णुत्वापसवनं वस्तु व्यज्यते । यथा वा, मम-'अयि सुन्दरि ! तव सदृशी सुषमा लवतोऽपि कुत्रचिन्नैव । असदृशनिरतिशयरुरुचिरतया यदेकाऽसि सर्वतो विदिता ॥' इति ।' अस्यायमर्थ:अयि सुन्दरि ! असदृश निरतिशयरुचिरतया यत्त्वमेकाऽद्वितीया सर्वतो विदिताऽसि तत्तव त्वया सदृशी सुपुमा परमा रमणीयता कुत्रचित् कुत्रापि नैवास्ती'ति । अत्र कविनिबद्धप्रोढोक्तिमात्रसिद्धेन व्यतिरेकेण 'विदितसौभाग्याया अद्वितीयायास्तवासदृशनिरतिशयाह्लादहेतुत्वमुचितमेवे ति वस्तु व्यज्यते।
अथालङ्कारेणालङ्कारध्वनिमुदाहरति-'महिलासहस्सभरिए-'इत्यादिना ।।
'सुहअ हे सुभग ! परमैश्वर्यशालिन्निति यावत् । महिलासहस्सभरिए महिलानां वधूनां सहस्रं तस्य भरितं सधयुक्तं तत्र । भरो जातो यस्य तत् । तदस्य सजातं तारकादिभ्य इतन् ।' ५।२।३६। इतीतच् । 'वनिता महिला तथा इत्यमरः । तुह तव धूर्तसुभगस्येति यावत् । मनोहारित्वेन वञ्चकत्वेन च तस्य तत्त्वात् । हिअए हृदये तदुपलक्षितान्तःप्रदेशविशेषस्य मध्ये इति यावत् । अमाअंती अमान्ती स्थानमविन्दन्तीति यावत् । अत एवअणण्णकम्मा अनन्यकर्माऽनन्यकर्त्तव्या त्यक्तसमस्तकर्त्तव्यान्तरत्वादिति यावत् । मान्यद वक्ष्यमाणाङ्गतनूकरणातिरिक्तं