________________
साहित्यदर्पणः। -
[ चतुर्थःअत्र अमाती'ति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण 'तनोस्तनूकरणेऽपि तव हृदये न वर्तते इति विशेषोक्त्यलङ्कारो व्यज्यते ।
कर्म यस्याः सा । सा प्रकृता साध्वीत्वेन सत्स्वभावत्वेन खभावतः कृशोदरीत्वेनैव वा प्रसिद्धत्यर्थः । अणुदिणम् अनदिनं प्रतिदिनमिति यावत् । तणुअं तनुकं सूक्ष्ममिवेति यावत् । तन्विव तनु इति कन् । 'तनुः काये त्वचि स्त्री स्यात् त्रिज्वल्पं विरले कृशे'इति विश्वमेदिन्यौ। पि अपि न तु स्थूलम् । अंगं अङ्गम् । तणुएइ तनयति तनूकरोतीति यावत् । तत्र प्रवेशलाभायेति शेष: । पद्यमिदं गाथासप्तशत्याम् । गाथा चात्र च्छन्दः । लक्षणं तु प्रागुक्तम् ॥ १८७ ॥
अत्र व्यङ्गयमाह-अवेत्यादिना ।
अवास्मिनुदाहृते पद्य इति यावत् । 'अमाअंती' अमान्ती । हृदयस्य स्वतःसूक्ष्मत्वेऽपि महिलासहस्रभरितत्वेन सुतरां निरवकाशत्वे सूक्ष्मत्वमिति तत्रावकाशमानाऽवकाशलाभायाङ्गं तनूकरोतीति यावत् । इत्येवं हेतोर्वाक्यपदार्थले काव्यलिङ्ग'मित्युक्तदिशेति यावत् । कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कविना निवद् उत्तम्भितखरूपोऽसौ वक्ता नायकाय नायिकाया विरहदशामावेदयन् यः सखीजनस्तद्रूपस्तस्य प्रौढोक्तिसिद्धेन । काव्यलिडालङ्कारेण अत्र जात्यभिप्रायेणैकवचनमिति काव्यलिङ्गालङ्काराभ्यामित्यर्थः । 'अमाअंती'इत्यत्र महिलासहस्सभरिए'इति सच्यमानोहेतु: 'तणएइ'इत्यत्र पुनः 'अमाअंती'इति सूच्यमानः, तदेवं काव्यलिङ्गद्वितयत्वम् । तनोः सूक्ष्मस्य शरीरस्येति वा । 'तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे' इति हैमः । तनूकरणे सूक्ष्मकरणे । अपि । तव महिलासहस्रभरितहृदयस्येत्यर्थः । हृदये । न नैव । वर्तते स्थानाभावादप्रविष्टैव तावद्विद्यते इत्यर्थः । इत्येवं 'कारणसत्त्वेऽपि कार्यानुत्पत्ते' रित्यर्थः । विशेषोत्यलङ्कारः ‘सति हेतौ फलाभावो विशेषोक्तिरित्युक्तस्वरूपोऽलङ्कारः । व्यज्यते ध्वन्यते ।
यथा वा, मम-'जपदिव तपदिव सलिले केवलमुद्यन्तमीक्षते सूर्यम् । तदपि न जातं कमलं मुभगे ! वदनेन ते सदृशम् ॥' इति । अस्यायमर्थः-'हे सुभगे! सलिले जलमध्ये तिष्ठजपज्जपं कुर्वदिव तपतपः कुर्वदिव कमलम् (कर्त) उद्यन्तमुदयमानं सूर्य भगवन्तं गायत्र्युपास्यं सवितारमीक्षते तन्मात्रमनस्कतया तदेकलग्नदृष्टिभूत्वाऽद्य यावर्त्तते । तदपि एव मजहजपादिकुर्वाणमपि तदेतदवधि ते तव वदवेन मुखेन सदृशं न जातं किं पुनस्तदुपमानभूत'मिति । अत्र कविनिबद्धप्रौढोक्तिसिद्धेनोत्प्रेक्षाऽलङ्कारेण व्यतिरेको व्यज्यते ।
यथा वा, मम-'सुन्दरि! सुधांशुसदृशं, तव वदनं नांशतोऽपि जातु भवेत् । इह वदनं नभसि पुनर्हन्त सुधांशुः समुद्याति ॥' इति । अस्यायमर्थ:-'हे सुन्दार ! जातु कदाऽपि तव वदनं मुखमंशतोऽशमात्रेणापि सुधांगुसदृशं न भवेत् । इहास्मिल्लोके वदनं तवेदं मुखं विराजते, हन्त ! सुधांशुः पुनर्नभसि तदुपलक्षिते ऊर्ध्वदेशे समुद्याति समुदयते, अथ समुत्थितो भवति ॥' इति । अत्र कविनिबद्धप्रौढोक्तिसिद्धेनाक्षेपेण व्याजस्तुत्याख्येन वाऽलङ्कारेण व्यतिरेको व्यज्यते । - यथा वा, मम-'अमृतनिधानं रुचिरं सन्तापनिवर्त्तने सदा मुदितम् । चन्द्रमुखं तव सुन्दरि ! सुस्मितभासा विकाशते परितः ॥' इति । अस्यायमर्थः-हे मुन्दार अमृतस्य पीयूषस्य तथाभूतस्यास्वादस्य निधानमाधारभूतं रुचिरं मनोज्ञं रुचि कान्ति राति ददातीति तथाभूतं सन्तप्तानां पुनः सन्तापनिवर्त्तने सदा न तु कदाचिदेव मुदितमुल्लासभाक् - न तूदासीनं न वाऽहृष्टम् । तव चन्द्रमुखं चन्द्र एव मुखं न तु मुखमेव चन्द्रः, सुस्मितभासा मन्दमन्दरुचिरहासः सम्बन्धिन्या कान्त्या परितः समन्ताद्विकाशते ॥ इति । अत्र कविनिबद्धप्रौढोक्तिसिद्धेन रूपकेण ' प्रसिद्धश्चन्द्रो नक्तमेव गृहिणामेव च सन्तापं निवर्तयति, इदं पुनर्नक्तंदिनं, गृहिणां पथिकानां चेत्युभयेषामपि सन्तापनिवर्तक मिति व्यतिरेकः, 'चन्द्रो यथा भासा विकाशते तथा पुनरिदं सुस्मितेने ति श्लिष्ट रूपकं, न तु श्लिष्टोपमा,तत्र प्रसिद्धस्यैवोपमानोपमेयभावस्य तादवस्थ्येनाङ्गीकारात्, अत्र पुनः 'चन्द्रमुख' मित्युक्त्या 'मुखचन्द्र' इत्यनुक्त्या च प्रतिद्धस्योपमानस्य चन्द्रस्योपमेयभावेनारोपस्यैव न तु सादृश्यस्य सद्भाव इति तयोः संसृष्टिय॑ज्यते ।