________________
साहित्यदर्पणः ।
'सुभगे ! कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चताऽऽसीद्वियोगिनाम् ॥ १८५ ॥ '
'अत्र विनिवद्धवप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्यत्वप्राप्त्या निखिलवियोगिमरन वस्तुना 'शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे' त्युत्प्रेक्षाऽलङ्कारो व्यज्यते ।
[ चतुर्थ:
रिति यावत् । प्रौढोक्तिसिद्धेन प्रौढोत्या सिद्धेन । वस्तुना तद्रूपेणार्थेनेति यावत् । ' तव | अधर ओष्ठः । पुण्यातिशयलभ्यः पुण्यातिशयः पुण्योत्कर्षस्तेन लभ्यो लब्धुं शक्यः ।' इति । वस्तु । अनलङ्कारमुक्तिसौन्दर्यमिति यावत् । व्यज्यते धन्यते । यत्साहदयेनोत्कृष्टं वस्तु पुण्यातिशयमन्तरेण न लभ्यते तस्य सुतरामेव पुण्याति - शयलभ्यत्वमिति भावः ।
अथ वस्तुनाऽलङ्कारध्वनिमुदाहरति- 'सुभगे' इत्यादिना ।
' हे सुभगे सुन्दरि ! मदनाशुगैर्मदनस्य कामदेवस्याशुगा वाणास्तैः । वसन्ते वसन्तसमये । कोटिसख्यत्वं कोटिस्तमिता सङ्ख्या येषां तत्त्वम् । उपेत्य प्रतिपय कामस्य कुसुमेषुत्वात् कुसुमानां च वसन्ते आनन्त्यस्य स्वतः सिद्धत्वात् । पञ्चता पञ्चसख्याकत्वम् । 'कामः पञ्चशरः स्मरः । इत्यमरोत्या मदनाशुगानां पञ्चसख्याकत्वम् | त्यक्ता विमुक्ता । ननु पञ्चता पुनः केषामाश्रिताssसीदित्याह - वियोगिनामध्वगानामस्मादृशानामिति यावत् । पञ्चता पञ्चत्वं मरणमिति यावत् । ' पचता पञ्चभावे स्यान्मरणेऽपिच योषिति' इति मेदिनी । आसीत् । अत्रानुष्टुच्छन्दः लक्षणं, तूक्तं प्राक् ॥ १८५ ।।
अत्र व्यङ्गमाह-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते स्थले इति यावत् । कविनिवद्धप्रौढोक्तिसिद्धेन । वसन्ते इति शेषः । कामशराणां कुसुमेषुबाणानाम् । कोटिसङ्ख्यत्वप्राप्त्याऽनन्तत्वसम्भवात् । निखिलवियोगिमरणेन निखिला ( न त्वमेक एव) वियोगिनः पान्थास्तेषां मरणं प्राणत्यागोपस्थानं तेन तट्टषेणेति यावत् । वस्तुना तदात्मकेन व्यञ्जकेनार्थेन । ' शराणां कुसुमेषोरिति शेषः । पञ्चता पञ्चसख्याकत्वमात्रम् । शरान् । कुमुमंषोरिति शेषः । विमुच्य परित्यज्य । वियोगिनः पथिकान् । श्रिताऽऽश्रिता । इव । वस्तुतः पञ्चत्वयोः पार्थक्यात् । इत्येवम् । उत्प्रेक्षाऽलङ्कारः । व्यज्यते । प्रतीयते । इति ।
यथा वा सम- 'अयि सुभगं तव वदनं पश्यति सुभगे यदा यदा चन्द्रः । ग्लायति हन्त पित्ते सपदि तदैवात्मनो वदनम् ॥' इति । अस्यायमर्थः - 'अयि सुभगे सौभाग्यसम्पन्ने ! चन्द्रचन्द्रमा यदायदा सुभगं दर्शनीयम् अपि तव वदनं
खं (कर्म) पश्यति तदैव दन्त ग्लायति ग्लानिमापद्यते, तथाभूतश्चात्मनो वदनं स्वरूपं सपदि पिधत्ते तिरोहितं कुरुते ॥' इति । अत्र कविनिवद्भवक्तृप्रौढोक्तिमात्र सिद्धेन 'अयि तव सुभगायाः सुभगमपि मुखं चन्द्रो यदायदा निरीक्षते । तदैव न तु कालान्तरे सपदि स्वमुखं पिवत्ते स्वयं तिरोहितो भवति । यदि भवेदसुभगाया असुभगं वा मुखं तदा कश्चिद्विषीदेत् पिदधीत वा स्वमुखं, किन्तु कथमन्यथा भानेऽपीत्याश्रर्यगर्भिताभिधानात्मना वस्तुना व्यञ्जकेनार्थेन विरोधाभासरावलितो व्यतिरेकालङ्कारो व्यज्यते । यथा वा मम - 'अवमनुते तव वदनं धाम सुधायाः श्रियं च पद्मानाम् । सम्मते मम जीवनमित्यसि दयिता मता व मे ॥' इति । अस्यायमर्थः - 'अयि तव वदनं मुखं ( कर्तृ ) सुधाया अमृतस्य धाम स्थानभूतं चन्द्रमसं पद्मानां श्रियं चावमनुतेऽवमानास्पदभूततां नयति, मम जीवनं जीवितमन्तरात्मानमिति यावत्, सम्म सम्मानास्पदं कुरुते इत्यतो हेतोस्त्वं मे मम दयिता प्रिया मताऽसि ॥' इति । अत्र कविप्रौढोक्तिमात्रसिद्धेन वदनकर्तृक्रेणावमानेन सम्मानेन च वस्तुना 'अवमान कर्तुरपि सम्मानकत्तृत्व' मिति विरोधाभासः, वदनं चोपगेयं चन्द्रः पद्मं
तदुपमानमपि तस्य वदनस्य ताभ्यां चन्द्रपद्माभ्यां तत्कर्तृकावजानविषयीभूतत्वेन व्यतिरेकः । चन्द्रविरोधिनः पुनः पद्मविरोधित्वं, तस्य च जीवन (जल) सम्मातृत्वमिति विरोधखलिताभासः, दयितात्वोत्प्रेक्षणादुत्प्रेक्षा, न वदनेन सदृशं सुधाधाम, न वा पद्मादिनिधीनां वैभवमपि केवलं पुनर्जीवनमित्य लौकिकास्वादसम्पत्सर्वस्वत्वेन प्राणसदृशत्वभित्येवं दयितात्वस्यानुमानादनुमानुनं चेत्यलङ्कारा ध्वन्यन्ते ।