________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः।। अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषी'ति विभा. वनाऽलङ्कारो व्यज्यते । 'शिखरिणि क्व नु नाम कियञ्चिरं किमभिधानमसावकरोत्तपः । सुमुखि ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १८४ ॥'
अत्रानेन कविनिबद्धस्य कस्यचित् कामिनः प्रौढोक्तिसिद्धेन वस्तुना 'तवाधरः पुण्यातिशयलभ्य'इति वस्तु व्यज्यते ।
व्यङ्गयमाह-अत्रेत्यादिना।
अत्रास्मिन् पद्ये । कविप्रौढोक्तिसिद्धेन। साक्षान्नयनगोचरतामप्रतिपद्यमानाया अमूर्तीया अपि कीर्तेः पुजाभिधानं धवलत्वेनाभिधानं च कवेः प्रौढोक्तिस्तसिद्धेनेत्यर्थः । रूपकालङ्कारेणोपमानोपमेययोर्निरपह्नवेनाभेदारोपणं रूपकं तदाख्येन तत्स्वरूपेण वाऽलङ्कारेणेत्यर्थः । तद्रूपेण व्यञ्जकेनार्थेनेति शेषः । भूमिष्ठो भूमेः स्वर्गापेक्षयाऽधस्तनत्वं तत्स्थोऽधःस्थ इति यावत् । अपि । त्वमिति शेषः । स्वर्गस्थानां वर्गस्य भुम्यपेक्षयोर्ध्वत्वं तत्स्थानामूलस्थानाम् । देवसुन्दरीणामिति यावत् । परम्परया देवानामपीति भावः । उपकारं हिताधानम् । करोषि ।' इति विभावनालङ्कार इत्येवं कारणमन्तरेण कारणसापेक्षस्यापि कार्योदयस्याभिधानं विभावमा तन्नामालकार इत्यर्थः । व्यज्यते ध्वन्यते।
इत्येवं कविप्रौढोक्तिसिद्धाभ्यां वस्त्वलङ्काराभ्यां वस्त्वलङ्कारयोर्ध्वनिमुदाहृत्य कविनिबद्धप्रौढोक्तिसिद्धाभ्यां वस्त्व. लङ्काराभ्यां वस्त्वलकारयोर्ध्वनिमुदाहर्तुकामस्तत्र तावद्वस्तुना वस्तुध्वनिमुदाहरति-'शिखरिणि' इत्यादिना । 'हे सुमुखि मनोहरवदने ! यद्वा-सुष्ठ 'दृष्टमात्रं कमायामोदमाधत्ते' इति पुण्यातिशयलभ्यं मुखमाननं यस्या
थोक्त ! लोके द्वेषा प्रसिद्धिः-दृष्टमात्रं यन्मुखं कमपि विदम्यादामोदं स सुमुखस्तन्मुखमपि दर्शनीयत्वेन सुष्ठिति । नामाश्चर्यम् आश्चर्येण पृच्छ्यते इति यावत् । 'नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपि च ।' इति मेदिनी। असौ । शुकशावकः शुक्स्य कीरस्य शावक: पोतो बालपुत्र इति यावत् । 'पोतः पाकोऽर्थको डिम्भः पृथुकः शावकः शिशुः ।' इत्यमरः । क कस्मिन् । नु ननु । शिखरिणि शैले। कियच्चिरं कियत्समयावधि। किमभिधानं किनामकम् । तपोऽनेकानेकजन्मार्जितपापपुजप्रायश्चित्ताचरणम् । अकरोत् कृतवान् । प्रश्नाभिप्रायमाहयेन हेतुना तपोमहिना । तव नितान्तपुण्योपचयेन दर्शनीयायाः । यद्दर्शनमामोदातिशयहेतुस्तदर्शनं तावनितान्तं कृतैः पुण्यरिति प्रसिद्धेः । अधरपाटलमधरवदूर्वाधस्तनौष्टवत् पाटलं श्वेतरक्तवत्त्वमात्रेण रमणीयं न तु सर्वतोभावेन । अधरसस्मितमित्यनुक्त्वाऽ'धरपाटल' मित्युक्त्याऽधरयोरनौपम्यमेवेति सूचितम् । 'आशुत्रीहौ पाटलो ना श्वेतरक्तेऽन्यलिङ्गवान् ।' इति रुद्रः । बिम्बफलम् । दशत्यास्वादते न त्वनच्छिन्नप्रबन्धतयौदरिकवत् केवलं भुइक्ते इति यावत् । द्रुतविलम्बितमत्र वृत्तम् । उक्तं च तल्लक्षणं प्राक् ॥ १८४ ॥
अत्रेदमभिहितम्-अयि सुन्दरि ! तव मुखदर्शनमतीव दुर्लभं जातं, यदिदमामोदमावहति, तत्र पुण्योपचय एव कारणम्, मम पुनस्तज्जातमिति ममाप्यतीव कश्चित् पुण्योपचयो जन्मान्तरीणोऽवश्यम् । अहो शुकशावकोऽयं मदपेक्ष. याऽपि नितान्तं कृतपुण्यः प्रतीयते । तवाधरो निरतिशाय्यसदृशसौभाग्यसर्वखम् , तस्य यत् किञ्चिदेव यत्रोपमेयत्वमप्युपलभ्येत तदपि वरम् , बिम्बफलं च सर्वतोभावेन तदुपमितं स्यादिति तु व ? किन्तु श्वेतरक्तिमशालितया यदारोहते तत्सादृश्यं तच्चाखादते शुकशावक एष इत्यस्य पुण्योपचयातिशयं कथं वर्णयितुं शक्तः स्याम् । अहमपि तत्सदृशो भविष्यामीति नाशासे, जिज्ञास्यते, यत्रैनेन तप्तः स किमभिधेयः शैलः, शैलषु हि महान्तस्तपन्तीति प्रसिद्धः। यद वधि च तप्तं, स कियान् समयः, तपांसि पुनर्बहुविधानि, तत् तपश्च किम् ? इति ।
अत्र व्यङ्गयमाह-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्य इति यावत् । अनेनालीकस्य शुकशावकत पश्चरणस्ड वास्तविकतया प्रतिपादनरूपेणेति यावत् । कविनिबद्धस्य । कस्यचित् कस्यापि । कामिनः सुन्दरीदर्शनमात्रेण मदनाशुगैर्विध्यमानस्य वक्तु .