________________
साहित्यदर्पणः।
[ चतुर्थः- - अब कविप्रौढोक्तिसिद्धेनापन्हुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते । 'धम्मिल्ले नवमल्लिकासमुदयो, हस्ते सिताम्भोरुहं, हारः कण्ठतटे, पयोधरयुगे श्रीखण्डेलेपो घनः । एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययोनानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे ॥ १८३॥'
भद्रोऽवतीर्णस्तं कालमारभ्येति भावः । पृथिव्यां भूमिपृष्ठे । राक्षसश्रियो राक्षसानां रावणपालितानां दुष्टप्रकृतीनां क्रव्यादानां श्रीः सम्पत् तस्याः । 'श्रीर्वेशरचनाशोभाभारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तिविधोपकरणेषु च ॥ इति मेदिनी । अश्रुबिन्दवोऽश्रूणां बिन्दवः कणिकाः । पर्यस्ताः पतिताः ॥' पद्यमिदं रघुवंशस्य दशमसर्गस्य । अनुष्टुप्छन्दश्च । लक्षणं च प्रागुक्तम् ॥ १८२ ॥
अत्र व्यङ्ग्यमाह-अत्रेत्यादिना ।।
अत्रास्मिन्नुदाहृते पद्ये इति यावत् । कविप्रौढोक्तिसिद्धन कवेः प्रौढोक्तिरलीकस्याप्यनलीकत्वेनाभिधानं तया सिद्धस्तेन । राक्षससम्पदो नायिकात्वाभावेन तदधपातासम्भवात्तथात्वेऽपि कविप्रौढोक्तिमात्रसिद्धत्वम् । अपन्हत्यलङ्कारेण प्रकृतानां मणीनामपहवनेनाप्रकृतानां पुनर्नेत्रजलकणानामुपन्यासस्तद्रूपणालङ्कारेण । भविष्यद्राक्षसश्रीविनाशरूपं भविष्यतीति भविष्यन् पुरस्ताद्भावी यो राक्षसश्रीविनाशो राक्षसश्रियो विनाशोऽदर्शनं तिरोधानं तपम् । वस्तु। व्यज्यते ध्वन्यते । यदाऽवतीर्णो रामभद्रस्तदानीं रावणकिरीटेभ्यो मणीनां निपतनं यज्जातं तन्न वास्तविकं, किन्तु तदानीमेव रावणप्रभृतीनां राक्षसानां विनाशो जात इति तदारभ्य यथा स्वामिनां विनाशे कुलाङ्गनाः सदैव रुदन्ति, तथैव तत्तदीयाः सम्पदोऽपि नायिकात्वेनाध्यस्ता रुदन्तीति प्रकृतापहवेनाप्रकृतोपन्यास इत्यपहृत्या तदुपेण
व्याकेनार्थेन 'भविष्यति राक्षसविनाशः' इति सूचनात्मक वस्तु धन्यते। अपमृतेश्च कविप्रौढोक्तिमात्रसिद्धत्वं राक्षस. श्रियामचेतनायामपि चेतनात्वेन तस्या अभिधानात् । इति भावः ।
अथालङ्कारेणालङ्कारध्वनिमुदाहरति-'धम्मिले-'इत्यादिना ।
'हे त्रिकलिङ्गभूमितिलक त्रिकलिङ्गभूमे स्तलिङ्गेति प्रसिद्धस्य देशस्य तिलकस्तिलकसदृशालकार इति तत्सम्बुद्वौ तथोक्त ! 'क्षितिपालभालतिलक'इति पाठान्तरे क्षितिपालानां राज्ञां भालस्य तिलकायमान! इत्यर्थः । पुरन्दरपुरीवामभ्रवां पुरन्दरः स्वर्गस्थानां देवानामिन्द्रस्तस्य पुरी नगरी अमरावतीति यावत्, तस्या या वामभ्रवः (कामोद्दीपकत्वेन कुटिलतां मनोहरतां वा दधत्यो भ्रुवो यासां ताः) इति तासाम् । 'वामं धने, पुंसि हरे कामदेवे पयोधरे। वल्गुणतीपसव्येषु त्रिषु, नार्या स्त्रियाम्' इति मेदिनी । देवेन्द्रभुजपरिपालितायाममरावत्यां नगर्या वसतीनां सुन्दरीणामित्यर्थः । धम्मिल्ले तदुपलक्षिते देशे । 'धम्मिल्लाः संयताः कचाः ।' इत्यमरः । नवमल्लिकासमुदयो नवीना आविर्भवद्विकाशा इति भावः या मल्लिकाः 'बेल्ली'ति ख्याताः सुरभितश्वेतपुष्पविशेषा इति तासां समुदयः सम्यगुदय उल्लासः पुञ्जो वेति । 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुमंदायन्ती भूपदी तृणशून्यकम् ॥' इति वाचस्पतिः । हस्ते पाणौ । सिताम्भोरुहं सितं शुक्लं यदम्भोरुहं कमलं तत्, पुण्डरीकमिति भावः । 'पुण्डरीकं' सिताम्भोज' मित्यमरः । कण्ठतटे कण्ठस्य तटं तीरदेशस्तत्र । हारो मुक्ताऽऽभूषणम् । 'हारो मुक्तावली'त्यमरः । पयोधरयुगे मुयोधरयोः स्तनयोर्युगं द्वयं तत्र । 'युगो रथे हलाद्यङ्गे, न द्वयोस्तु कृतादिषु । युग्मे हस्त चतुष्केऽपि वृद्धिनामौषधेऽपि च ॥' इति मेदिनी । घनः सान्द्रः । 'घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्दौघदार्थेषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे च।' इति मेदिनी । श्रीखण्डलेपः श्रीखण्डो मलयशैले एव सम्भूतश्चन्दनस्तस्य लेपः प्रलेपः । 'मालयस्तु स्याच्छ्रीखण्डो रौहिणश्च सः ।' इति त्रिकाण्डशेषः । इत्येवम्-एकोऽनन्योऽसहाय इति यावत् । स्वकीर्तिराशिस्तव कीर्तिर्यशस्तस्या राशिः पुञ्ज इति तथोक्तः । विग्रहे कलेवरे । पुरन्दरपुरीवामभ्रवामिति शेषः । नानामण्डनतां विविधाभूषणवरूपताम् । ययौ गतवान् ।' पद्यमिदं केनापि तैलङ्गेश्वरस्यानुग्रहभाजनेन तत्प्रीत्यै भणितम् । शार्दूलविक्रीडितं छन्दः । लक्षणं च प्रागुक्तम् ॥ १८३॥'