________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
३२९
' दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिष्यामश्रुबिन्दवः ॥ १८२ ॥ '
,
मदनोद्दीपकत्वायोगात् तदभ्युपगमे ( नायिकात्वारोपस्वीकारे, प्रकृतेऽप्रकृतसमारोपस्य समासोक्तिघटकत्वात् ), न च वस्तुमात्रस्य व्यञ्जकत्वं किन्तु समासोक्तेः ( तच्छबलितवस्तुन इति यावत् ) अलङ्कारस्येति । तत्र ब्रूमः - यथेति यच्छब्देनौत्तरवाक्यगतेन तच्छन्द आक्षिप्यते, तेन च - पूर्ववाक्यार्थमनूद्य वाक्यान्तरावष्टम्भाद्वाक्यैकवाक्यमिदम्, तत्र - तेनति कन्दराभिरिति च पदद्वयं विशेष्यसमर्पकं श्लिष्टं चेति, तथा च- न तावत् समासोक्तिः, विशेष्यमात्रस्याश्लिष्टत्वे समासोक्तिस्वीकारात्, न वा श्लेषः, जयश्रीपदस्याश्लिष्टत्वात्, विशेष्यविशेषणवाचिनां सर्वेषां ( सर्वेषामेव ) श्लिष्टत्वे तत् (श्लेष ) स्वीकारात् किञ्च यत्रोभयतात्पर्यवशादभिभ्यैव अर्थद्वयोपस्थितिस्तत्रैव षः प्रकृते तु व्यञ्जनया द्वितीयार्थस्य प्रतिभामात्रम् ।' इति । वयन्त्वेवं ब्रूमः - उत्प्रेक्षा नाम तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य चमत्कृततद्द्वृत्तितत्समानाधिकरणान्यतरत मे सम्बन्धनिमित्तकं तत्त्वेन तद्वत्वेन वा सम्भावनम् । तच 'इव खलु नूनं मन्ये शङ्के' इत्यादिभिः पदैः । 'यथा तथेति तु उपमाया एव द्योतकम् । अत एव 'उययौ वापिकादर्भान्मुकुलं मेचकोत्पलम् ॥ नारीलोचनचातुर्यशङ्का सङ्कुचितं यथा ॥' इत्यादौ यथाशब्दस्योत्प्रेक्षाऽवाचकत्वेना वाचकत्वं नाम दोषः सङ्गच्छते । समासोक्तिः पुनः ‘साधारण विशेषणमात्रोपन्यस्ता प्रकृतधर्मिकव्यवहाराभेदेन प्रकृतधर्मिकस्य व्यवहारस्य भासनम् । तत्र च विशेष्यमात्रमश्लिष्टम् । अत एव श्लेषाद्भिन्नत्वम् उपमा च-उपमानोपमेयसाधारणधर्मसमर्पितं चमत्काराधायकं वाक्यार्थो पस्कारकं सादृश्यम् । तच 'इव यथा तथे' त्यादिभिर्योत्यते । इति । तत्र तावत् पद्यतात्पर्यम् - 'यथा कन्दराभिस्तस्य शत्रवः कण्ठे संस्थापिता तथा तेनात्मनाऽपि केशेष्वाकृष्य समरे जयश्रीरङ्गीकृते 'ति । अतः स्यादुपमोपमानोपमेयसाधारणधर्माणामुपादानात् । उपमानं कन्दरा, उपमेयं तत्पदार्थः, साधारणधर्मश्च यथातथेति द्योत्यः । नात्रोपमा, तत्रैकस्या एव क्रियाया उपा देयत्वात्, अत्र पुनः 'संस्थापिताः गृहीताः' इति द्वयोः क्रिययोरुपादानम्, उपमानोपमेये च प्रसिद्धे तत्र, अत्र पुनरप्रसिद्धे । इति भेदात् । तत् स्यादुत्प्रेक्षा । मा भूद् यथेत्यस्य तद्वाचकत्वं तद्द्योतकत्वं वा ध्वन्यमानायां तस्यां तदपेक्षाविरहात् । नायिकानायकत्वभेदेऽपि कन्दरातत्पदवाच्ययोस्तथा सम्भावनस्यास्त्येवोत्प्रेक्षात्वं च । नास्त्युत्प्रेक्षा । यथेति न्यासात् । नाभविष्यद् यदि यथेति तद्भविष्यनिस्तस्याः । यदि वाऽभविष्यद् 'इव नून' मित्यादि, अभविष्यद्वाच्याऽसौ । तद्भवेत् समा सोक्तिः । तत्पदवाच्यकन्दरापदवाच्ययोः पुंलिङ्गस्त्रीलिङ्गत्वाभ्यां नायकत्वस्य नायिकात्वस्य चाभेदेनास्त्येव भासनम् । न च विशेष्ययोस्तयोः श्लिष्टत्वम् । तत्पदवाच्यार्थस्य कन्दरापदवाच्यार्थस्य च भिन्नत्वेनासम्भवात् । भवतु वा तच्छदस्य नायकवाचकत्वमपि कथं पुनः कन्दराशब्दस्य नायिकावाचकत्वम् । वस्तुतस्तु तच्छन्दस्यापि नास्त्येव नायकवाचकत्वं, तस्य प्रकृतत्वाभावात् समरे जयश्री' रित्यादिना चान्वयस्य चानुपपत्तेः । न स्यात् समासोक्तिः । तच्छब्देन नायकपदवा - घ्यस्थ, समरशब्देन सुरतसमरपदवाच्यस्य जयश्रीकन्दराशब्दाभ्यां च नायिका विशेषवाच्यस्यैवार्थस्य विवक्षितत्वात् । तन्न ध्वन्यतेऽलङ्कारः । ध्वन्यते समासोक्तिः । राज्ञो नायकत्वेन समरस्य सुरतत्वेन जयश्रियाः कन्दराणां च नायिकासज्ञाविशेत्वेनावभासनात् । न च तथा विवक्षितम्, प्रकृतपिधानापत्तेः । न ज्ञायते तत्कन्दराशब्दयोर्विशेष्यसमर्पकयोः श्लिष्टत्वम् । तयोर्वाचान्तरत्वानुपलम्भात् । ध्वन्यते पुनरुत्प्रेक्षा । तेन राज्ञा नायकेन च तथा समरे सुरतरणे च केशेष्वाकृष्य जयश्रीगृहीता तथा 'कन्दाराभि (दरीभि) र्वा नायिकाभिस्तस्यारयः कण्ठे संस्थापिताः । इत्येवं नायककर्तृकनायिका केशाक पेणाभिधाने तद्दर्शनजातकामोद्रेकाइव कन्दरा नायिकास्तत्प्रतिभटनायकान् कण्डे गृह्णन्तीत्यपि प्रतीतेः । अत्रायं प्रश्नः । स्यादेवम् ! यदि भवेत् 'जह (यथा ) ' इत्यत्र 'तह ( तथा ) ' इति । न च यच्छन्दस्य पूर्वपरामर्षकत्वम्, तच्छब्दस्यैव तद्वत्त्वात् । 'जह (यथा )' शब्दस्य पूर्वत्रान्वये, उत्तरत्र च ' तह ( तथा ) ' शब्दस्याभ्याहत्यान्वये तु स्यादर्घान्तरैकवाचकत्वं नाम दोषः । इति ।
अथालङ्कारेण वस्तुध्वनिमुदाहरति- 'दशाननकिरीटेभ्यः -' इत्यादिना ।
'दशाननकिरीटेभ्यो दशाननस्य रावणस्य किरीटानि मूर्धसु विराजमानानि मुकुटानि तेभ्य: । 'अपादाने पञ्चमी । २|३|२८|' इत्यपादाने पञ्चमी । मणिव्याजेन मणीनां रत्नानां व्याजस्तेन । 'प्रकृत्यादिभ्य उपसङ्ख्यानम् ।' इति तृतीया । तत्क्षणं तं क्षणं व्याप्येत्यर्थः । ' कालाध्वनोरत्यन्तसंयोगे ।' २।३।५ । इति द्वितीया । यस्मिन् क्षणे श्रीराम •
४२