________________
साहित्यदर्पणः।
[ चतुर्थः'रजनीषु विमलभानोः, करजालेन प्रकाशितं वीर !
धवलयति भुवनमण्डल-मखिलं तव कीर्तिसन्ततिः सततम् ॥ १८१ ॥' अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्तिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकाऽलङ्कारो व्यङ्ग्यः।
अथ वस्तुनाऽलङ्कारवनिमुदाहरति-'रजनीषु-'इत्यादिना ।
'हे वीर ! तव त्वदीया। कीर्तिसन्ततिः कीर्तिप्रसारः । रजनीषु रात्रिषु । रजनी यामिनी तमी' इत्यमरः । विमलभानोविमलाः शुद्धाः शुभ्रा इति यावद् भानवः किरणा यस्य तस्य शुभ्रांशोश्चन्द्रस्येति यावत् । 'भानुर्ना किरणे सूर्ये' इति मेदिनी । करजालेन किरणपुजेन । 'भानुः करो मरीचि रित्यमरः । प्रकाशितं प्रकाशमानीतम् । अखिलं समस्तम् । भुवनमण्डलं भुवनं लोकस्तदेव मण्डलमिति तत्तथाभूतम् । सततं निरन्तरं रात्रिंदिवं न तु रजनीष्वेवेति यावत् । धवलयति शुभ्रकान्तिकं विधत्ते ॥' पद्यमिदं कमपि वीरमूर्धन्यं प्रति गीतम् । अत्र चार्याछन्दः तल्लक्षणं चोक्तं प्राक् ॥ १८१ ॥
व्यगाथमाह-अत्रेत्यादिना।
अत्रास्मिन्नक्तपद्ये । कविप्रौढोक्तिसिद्धन कवेः प्रतिभामात्रनिष्पन्नेन । वस्तुना कीर्तिसन्तत्या निखिलभुवनधवलीकरणरूपेणेति शेषः । कीर्तिसन्ततेः कीर्तिप्रसारस्य । चन्द्रकरजालात्तदपेक्षयेति यावत् । अधिककालप्रकाशन्वेनाधिक: कालस्तं तदवधिप्रकाशकत्वं तेन । 'अत्यन्तसंयोगे च ।' २।१।२९ इति समासः । हेत्वर्थे चात्र तृताया । व्यतिरेकालङ्कारः। व्यङ्गयो ध्वन्यः । अस्तीति शेषः । अत्रेदं तात्पर्यम्-विमलस्य बुभ्रत्वं, कीर्त्यांश्च प्रकाशकत्वं तेन पुनर्भुवनस्य समग्रस्य धवलोकरणमित्यलीकमपि कविना स्वप्रौढोक्तित एव निबद्धम् । चन्द्रो रात्रावेव पुनः प्रकाशते कार्तिस्तु रात्रिन्दिवम् , न तेन तत औपम्यमिति चन्द्रादधिकप्रकाशकत्वेन कीर्त्या व्यतिरेकोऽपि सम्पन्नमत्तिः । यथा वा-'केसेसु बला मोडि अ, तेण असमरम्मि जअसिरी गहिआ। जह कंदराहि विहुरा, तस्स दर्द कंठ, अम्मि संठविआ ॥' इति अस्यायमर्थ:-'तेण तेन प्रभूतपराक्रमतया प्रकृततया वा प्रसिद्धेनेति यावत् । राज्ञेति शेषः । अ चापीति यावत् । 'वी'ति पाठे त्व'पीत्येवार्थः केशेषु केसेषु केशपाशेष्विति यावत्। 'षष्ठी चानादरे ।' २।३।३८इत्यनादरेऽर्थे चात्सप्तमी। मोडिअ मुटित्वाऽऽकृष्येति यावत् । तथेति शेषः । समरम्मि समरे सझामाङ्गणे इति यावत् । 'अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । जअसिरी जयश्रीर्जयलक्ष्मीरिति यावत् । गहिआ गृहीता स्वायत्तीकृता सम्पादिता वेति यावत् जह यथा । कंदराहिं कन्दराभिर्दरीभिरिति यावत् । 'दरी तु कन्दरो वा स्त्री' त्यमरः । तस्स तस्य प्रकृतस्य राज्ञ इत्यर्थः । विहुरा विधुराः। शवव इति यावदिति प्राश्चः, 'शत्रव इति शेषा'इति त्वाहुर्नव्याः । 'विधुरं विकले त्रिषु ।' इति मेदिनी। दढं दृढं गाढमिति यावत् । क्रियाविशेषणमिदम् । कंठअम्मि कण्ठसमीपे 'समीपगतशब्देषु त्रिषु कण्ठं विदुर्बुधाः ।' इति शाश्वतः । संठविआ संस्थापिताः ॥' अत्र गीतिश्छन्दः ।लक्षणं तूक्तं प्राक् ।
अत्राहः प्रकाशकारा:- केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्तीत्युत्प्रेक्षा, एकत्र सङ्ग्रामे (सर्वथा) विजयदर्शनात्तस्यारयः पलाय्य गुहासु (दरीषु) तिष्ठन्तीति काव्यहेतुरलङ्कारः, न पलाय्य गतास्तद्वैरिणः, अपि तु ततः पराभवं सम्भाव्य; तान् कन्दरा न त्यजन्तीत्यपन्हुतिश्चेति । विवृण्वन्त्येतद्विवृत्तिकाराः-' अत्र कन्दराभिः कण्ठे स्थापिता इति कविप्रौढोक्तिसिद्धेन वस्तुना नायककर्तकनायिकाकेशाकर्षणदर्शनादपरस्याः कामोद्रेकस्य लोके. दर्शनात् तद्वत्य इव कन्दरास्तद्विधुरान् प्रकृतराजशत्रून् कण्ठे गृहन्तीत्युत्प्रेक्षाऽलङ्कारो व्यज्यते, एकत्रैव सङ्ग्रामे विजयदर्शनेन हेतुना तस्य राज्ञोऽरयः शत्रवः पलाय्य धावित्वा दरीषु गत्वा तिष्ठन्ताति काव्यहेतुः काव्यलिङ्गमलङ्कारो व्यज्यते, न पलाय्य धावित्वाऽपि तु किन्तु ततो राज्ञः पराभवं सम्भाव्य तांस्तस्य राज्ञः शत्रून् कन्दरा न त्यजन्तीति पलायनस्यापह्नवनादपन्हुतिश्चालङ्कारः । इति ।
धासागरकाराः पुनराहः-'यदाहः प्रदीपकाराः 'यत्त केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान कण्ठे गृहतीति उत्प्रेक्षा व्यज्यते' इति तद्भवेदेवम्, यदि पूर्व कन्दरादीनां नायिकात्वाद्यारोप: स्यात् अन्यथा केशग्रहणस्य