________________
३२७
.
परिच्छेदः ।
रुचिराख्यया व्याख्यया समेतः । 'सजेहि सुरहिभासो, ण दाव अप्येइ जुअइजणलक्ख मुहै।
अहिणवसहआरमुहे णवपल्लवपत्तले अणंगस्स सरे ॥ १८०॥' अत्र 'वसन्तः शरकारः, कामो धन्वी, युवतयो लक्ष्यम्, पुष्पाणि शरा'इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवत् मदनविज़म्भणरूपं वस्तु व्यनक्ति ।
एव, तुल्ययोगितेत्यस्य च तुल्ययोगिताऽलकार इत्यर्थ एवाप्यस्तु प्रदीपकारायुक्तदिशा क्लिष्टकल्पनाया अन्याय्यत्वात् । किन्तु नात्र समुच्चय इति कथङ्कार सङ्घटेत ? निर्दशनव्यापादनरूपक्रिययोरेककालं सम्बन्धसद्भावस्याक्षतेस्तस्याप्यक्षतत्वेनावस्थितत्वात् । इति । वस्तुतस्तु-तपत्र तुल्ययोगिता, न चोत्प्रेक्षा प्रतीयेते; किन्तु समुच्चय एवंति । 'निर्दशनमोचय' दित्युत्तया रोषण वरिष्यापादने वरिवधनां रमणानन्दस्यापि मोषणे दन्तक्षताय॑नुभवो निवत्तित इति प्रत्यायिकयाऽधरो निर्दष्टो वैरिणश्च व्यापादिता इति समुच्चयस्यैव प्रतीतेः गम्यमानतुल्यतायाः प्रकृतेऽसम्भवात्तुल्ययोगिताया अप्रतीतेश्च । खाधरदशननरिव्यापादनयोयोगपद्येनान्वयस्य च समुच्चयस्यैव प्रत्यायकत्वेन तयोरेककालरूपैकधर्मसम्बन्धकल्पनया तुल्ययोगिताया अपि क्लुप्तत्वस्यैव च तादवस्थ्यात् प्रकाशकारोक्तेश्चान्यथाऽपि समर्थनाच इति बोध्यम् ।
एवं स्वतःसम्भविभ्यां वस्त्वलङ्काराभ्यां वस्त्वलङ्कारयोर्ध्वनिमुदाहृत्य कविप्रौढोक्तिसिद्धाभ्यां ताभ्यां तयोर्ध्वनिमुदा- . हर्नु प्रवृत्तस्तावद्वस्तुना वस्तुध्वनिमुदाहरति-'सज्जेहि-'इत्यादिना ।।
'सुरहिमासो सुरभिमासः । सुरभवसन्तस्य मासः पक्षद्वयात्मकः कालः । 'वसन्ते पुष्पसमयः सुरभिः'-इत्यमरः । चैत्रो वैशाखश्चेति मासद्वय वसन्तः, तत्रात्र मासशब्देनाद्यः, तस्यैव प्रथमं निर्देशात्प्रकृतत्वाच 'सुरभिमासश्चैत्रः' इति वितिकाररुक्त चेतिबोध्यम् । सज्जेहि सज्जयति सज्जितो भवति । यावदिति शेषः । दाव तावत् । जुअइतणलकखमुहे युवतिजनलक्ष्यमुखान् युवतिजनो यौवनाकान्तानां वनितानां समूह एव लक्ष्यं शरव्यं येषां तानि तादृशानि मुखान्यप्रभागा येषां तान् । 'तरुणी युवतिः समे।' इत्यमरः । 'लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकम् ।' इति गदिनी । 'गुखं श्रेष्ठे च के चोपायेऽग्रे निःसृतौ तथा । प्रारम्भे च प्रधाने चेति शिवशर्मा । अहिणवसहअरमहे अभिनवसहकारमुखान् । अभिनवा नवमुकुलिता ये सहकारा नितान्तं सुरभिता आम्रा मुखमादिर्मुखानि प्रधानानि वा येषां तान् । 'असौ सहकारोऽतिसौरभः ।' इत्यमरः । अत्र मुखशब्दस्यार्थान्तरे उपादानान पुनरुक्तत्वम् । णवपल्लव. पत्तले नवपल्लवपत्रलान् । नवा महितानि पल्लवपत्राणीति तॉल्लान्ति गृह्णन्तीति तांस्तथोक्तान् । नूयते स्तूयते इति, नवनं स्तवनमिति वा नवः । 'ऋदोरप् । ३।३५७। इत्यप् । पल्लवैरुपलक्षितानि पत्राणीति पल्लवपत्राणि । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । यद्वा-नवं यशो पद्यन्ते प्रतिपद्यन्ते इति तथाभूतानि लव (सूक्ष्म) पत्राणीति तॉल्लान्तीति तान् । पद् गतौ । क्विप् । 'लवः कालभिदि च्छिदि । विलासे रामजे लेशे' इति हैमशिवशर्माणौ । अणंगस्त अनङ्गस्य कामस्थेति यावत् । सरे शरान् बाणान् । ण न नैवेति यावत् । अप्पेइ अर्पयति समर्पयति । यद्वा-यावदर्पयति . तावन्न परं सजयतीति भावः। पद्यमिदं वसन्तमद्दिश्य केनापि सहृदयेनोक्तम् । अत्र चाछिन्दस्तलःक्षण तूक्तं प्राक् ॥ १८० ॥'
व्यङ्गयमाह-अत्रेत्यादिना ।
अत्रास्मिन् प्रागुदाहृते पद्ये । 'वसन्तश्चैत्रवैशाखोपलक्षित ऋतुविशेषः । शरकारः शरान् करोति निर्मातीति तथोक्तः । 'कर्मण्यण् ।' ३।२।१। इत्यण् । कामो मदनः । धन्वी धनुर्धरः । धनुरस्यास्तीति । वीरादित्वादिनिः । युवतयस्तरुण्यः स्त्रियः । लक्ष्यम् । पुष्पाणि सहकारादीनामिति शेषः । शरा वाणाः । 'इत्येवम् । कविप्रोटोक्तिसिद्ध कवेः प्रौढोक्त्या केवलं निबद्धखरूपमिति भावः । वस्तु । प्रकाशीभवत् । क्रमेणेति शेषः । मदनविजम्भणरूपं मदनस्य कामदेवस्य विज़म्भणं विशेषेण जम्भणं सनद्धभवनं वर्धनमिति यावत्तदूपम् । वस्तु । व्यनक्ति द्योतयति । अत्रायम्भावः-वसन्तस्तावदचेतनः, कामः पुनरनङ्गः, युवतयश्चावीराः कुसुमानि च मृदुलानीति क्रमेणैतेषां शरकारत्वादिकमलीकमित्येतत्सर्वं कवेः प्रौढोक्तिमात्रेण सिद्ध वस्तु, तन्चेदं वसन्तदशामभिनयत् क्रमेण मन्मथोन्मायस्यारम्भ गाढं गाढीभविष्यन्तं ध्वनयतीत्युक्तं ग्रन्थकारैः 'वसन्तः शरकारः,-'इत्यादि ।