________________
३२६
साहित्यदर्पणः।
[चतुर्थः
'गाढकान्तदशनक्षतव्यथा-सङ्कटादरिवधूजनस्य यः।
ओष्टविद्रमदलान्यमोचय-निर्दशन्युधि रुषा निजाधरम ॥१७९ ॥ अब स्वतःसम्भविना विरोधालङ्कारेण 'अधरो निर्दिष्टः, शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः।
अथानेनैव वस्तुचनिमाह-'गाढकान्तदशनक्षतव्यथासङ्कटात-'इत्यादिना।।
'यः। पूर्वप्रक्रान्तवीर्यः । राजेति शेषः । युधि सङ्ग्रामे । रुषा रोषेण क्रोधेनेति यावत् । निजाधरं निजस्य वस्याधर ओष्टस्तम् । 'ओष्टाधरौ तु रदन-च्छदौ रदनवाससी।' इत्यमरः । निर्दशन् दन्तैः खण्डयन् सन् । अरिवधूजनस्यारीणां शत्रूणां प्रतिद्वन्द्वित्वेनोपलक्षितानां वधूजनस्तस्य । वधूनां जनः समाजः । 'जनःसमाजे लोके च लोकभेदे च पामरे।' इति शिवशर्मा । ओष्ठविद्मदलान्योष्टा एव विद्रुमदलानि प्रवालपत्राणीति तानि । गाढकान्तदशनक्षतव्यथासकाटाद गाढं गाढा वा कान्तदशनक्षतं तद्व्यथा वेति, तदव्यथैव सङ्कटः सैव सङ्कट इति वा तस्मात । 'अप दाने पञ्चमी ।' २।३।२८। इति पञ्चमी अमोचयत् मोचितवान् । रुषा निजाधरं निर्दश्य निहतेषु वैरिषु तत्तद्धूनां कान्तकर्तव्यो रतिकालिकोऽधरदशो निर्वर्तित इति भावः ।' पद्यमिदं कस्यापि राज्ञः प्रभावोत्कर्षवर्णनपरम् । रथोद्धता चात्र च्छन्दः । लक्षणं तु प्रागुक्तम् ॥ १७९ ॥
अत्र व्यङ्ग्यमाह-अत्रेत्यादिना ।
अत्रास्मिन्नदाहते पद्ये इति यावत् । स्वतःसम्भविना लोकसाक्ष्यण। विरोधालङ्कारेण विरोधाभासालारण । यो हि स्वाधरमपि दशति स कथं परेषामधरान् सङ्कटान्मोचयतीति, उत्पद्यते वा व्यथा निर्देशनेन तत्कथं तन्निवृत्तिः स्थादिति आपाततो विरोधः, प्रतियोगिभेदेन च सदाभासमानत्वमिति तत्स्वरूपत्वात् । अधरः ओष्ट: । निजस्येति शेषः । निर्दष्टो निरदेशि । च तथा । शत्रवः प्रतिद्वन्द्विनः । व्यापादिता मारिताः । इत्येवम् समुच्चयालङ्कारो युगपत्पदार्थानामन्वयरूपोऽलङ्कारः । व्यङ्गयो ध्वन्यः । अस्तीति शेषः ।। ___अत्रेदमाकृतम्-योधनं तावत् कार्य तेन जयसाधनं वा कार्यम्, 'युधी' ति निर्देशात्तथैव प्रतीतेः, तत्र च निर्दष्टव्यापादितक्रिययोयोगपद्यनान्वयाभिव्यक्तः समुच्चयो ध्वन्यते इति ग्रन्थकारपादाः । अत एव 'समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । 'खले कपोतिकान्याया' दिति वक्ष्यमाणं लक्षणमपि सङ्गच्छते । विरोधालङ्कारेण निर्दशन्नित्यक्त्या चाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति वीरानुभावत्वेन प्रकृतयोः स्वाधरदशन-शत्रु. व्यापादनयोरेककालैकधर्मसम्बन्धेन तुल्ययोगिता, मम क्षतेरपि निवर्ततां नाम परेषां क्षतिरिति तद्बुद्धरुत्प्रेक्षणाचोत्प्रेक्षेति प्रकाशकाराः । विरोधालङ्कारेणेत्यस्य विरोधाभासालङ्कारेणेत्यर्थस्तु न, विरोधस्यासम्भवात् , किन्तु विरोधगर्गितोऽलहीरस्तेनेत्यर्थः कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्त्यलङ्कारेणेति यावत्, खाधरदशनस्य कारणस्य चैरिवधूजनोष्टदशनव्यथामोचनस्य च कार्यस्य च समकालतया निर्दिष्टत्वात् । तुल्ययोगितेति पदस्यापि तुल्ययोगिताऽलङ्कार इत्यर्थस्तु न 'नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ।' इति सूत्रेण लक्षितायाः प्रकृतानामप्रकृतानां वा एकधर्मसम्बन्धरूपतुल्ययोगितायाः प्रकृते सम्भवाभावात, तुल्ययोगितायां पुनर्धर्मस्य गुणक्रियाऽन्यतररूपस्यैवोपादानम् । अथ तुल्ययोगितापदस्याधरो निर्दष्टश्च शत्रवो व्यापादिताश्चेति तुल्यकालं (एककालं) योगो ( सम्बन्धः) ययोस्ताविति, तयोभावस्तुल्ययोगिता चेति व्युत्पत्तेः समुचचालकार इत्यर्थः, अधरनिर्दशनवैरिव्यापादनक्रिययोयोगपद्येन प्रत्ययात् । इति प्रदीपकाराः । विरोधालङ्कारेणेत्यस्य वास्तविकविरोधमूलासङ्गत्यलकारेणेत्यर्थः, स्वाधरदशनरिपुवनिताजनाधरव्यथामोचनयोः कारणकार्ययोवैयधिकरण्येन निर्देशाद्विरोधस्य स्फुटत्वात् । इत्यपि केचित् । ओष्टविषयकयोर्दशनभोचनयो विरोधः, ओष्ठत्वेन सामानाधिकरण्यस्य विवक्षितत्वात् प्रतियोगिभेदेनाभास इति विरोधालङ्कारेण विरोधाभासालकारेणेत्यर्थ एव, वीरानुभावत्वेन प्रकृतयोरात्माधरनिर्दशनवैरिजनव्यापादनयोरेककालरूपैकधर्मसम्बन्धस्य सद्भावात्तुल्ययोगिता तुल्ययोगिताऽलङ्कार इत्यर्थ एवेति, प्रदीपकाराभिहितातिशयोक्तेश्च प्रोढोक्तिसिद्धत्वेन स्वतस्सम्भवि-व्यन्जकोदाहणत्वायोग इति, तुल्ययोगितायां धर्मो गुणक्रियाऽन्यतर एवेत्यत्र मानाभावात्, कालोपाधेरपि सूर्यक्रियारूपत्वमिति च प्रकाशकारोत्तमेव तदवस्थम् । इत्युद्योतकाराः प्राहुः । वयं तु त्रूमः-विरोधालङ्कारेणेत्यस्य विरोधाभासालङ्कार इत्यर्थ