________________
परिच्छेद: ]
रुचिराख्यया व्याख्यया समेतः ।
३२५
'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ १७७॥ '
अत्र स्वतः सम्भविना वस्तुना 'रवितेजसो रघुप्रतापोऽधिक' इति व्यतिरेकालङ्कारो व्यज्यते 'आपतन्तममुं दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केशरी ॥ १७८ ॥' अत्रोपमाऽलङ्कारेण स्वतः सम्भविना व्यञ्जकेनार्थेन 'बलदेवः क्षणेनैव वेणुदारिणः क्षयं करि ग्यती 'ति वस्तु व्यज्यते ।
अथानेनालङ्कारध्वनिमुदाहरति- 'दिशी - 'त्यादिना ।
'रवेः सूर्यस्य प्रचण्ड तेजोनिधानस्येति यावत् । अपि । किं पुनरन्यस्य । तेजः प्रतापः । दक्षिणस्याम् । यस्यामिति शेषः । दिशि दिशायाम् । मन्दायते । अमन्दमपि मन्दमिव जायते । दक्षिणायने हि सूर्यस्य शैत्यप्रवृत्तेः । 'कर्तुः क्यङ् सलोपश्च ।' ३।१।११ इति क्यङ् । 'मन्दं भवती' त्यर्थे तु 'लोहितादडाज्म्यः क्यष् । ' ३।१।१३। . इति क्य । तस्याम् । एव न त्वन्यस्यां दिशीति भावः । रघोः स्वाभिधानधन्यस्य महाराजस्य । प्रतापं तेजः । पाण्ड्याः पाण्डूनां तदाख्यानां जनपदानां राजान इति तथोक्ताः । 'पाण्डोडर्थण् वक्तव्यः ।' इति यण् । न नैव । विषेहिरे नितान्तं सोढवन्तोऽभुवन् । इदं पद्यं रघुवंशे चतुर्थे सर्गे रघोर्दक्षिण दिग्विजयवर्णनपरम् । अनुष्टुप् च छन्दः ॥ १७७ ॥ '
अत्र व्यङ्गयमाह-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये इति यावत् । स्वतः सम्भविना लोकदृष्टेन । सूर्यस्य तेजो दक्षिणायने प्रदिमानम्प्रतिपद्यते, दक्षिणायनं दक्षिणां दिशं प्रत्ययनमिति, तत्रैव पुना रघोस्तेजोऽसह्यमासीत्तत्रत्यानाम्, न हि निर्बला : प्रबलस्यौज: सोढुं प्रभवन्ति, निर्बलाश्च तत्रत्याः इति लोकस्थित्यनुकूलेनेति भावः । वस्तुना । तद्रूपेण व्यञ्जकेनार्थेनेत्यर्थः । रवितेजसो वेः सूर्यस्य तेजस्तस्मात्तदपेक्षयेत्यर्थः । रघुप्रतापो रघोः प्रतापस्तेजः प्रतापस्तापनेजयो: । ' इति मेदिनी । अधिकः प्रकृष्टः । इत्येवम् । व्यतिरेकालङ्कारः । 'आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा ॥ व्यतिरेक:-' इति वक्ष्यमाणस्वरूपोऽर्थालङ्कारविशेषः । व्यज्यते ध्वन्यते । तेजसोत्कृष्टो हि लोके सूर्येणोपमीयते इति लोकप्रसिद्धया सूर्यस्योपमानत्वम्, अन्यस्य पुनरुपमेयत्वं सिद्धम्, अथात्र दक्षिणस्यां सूर्यतेजसः सोढव्यत्वोक्त्या रघोश्वासोढव्यत्वोक्त्या सुसिद्धमुपमानादुपमेयस्याधिक्य मित्युपमानादुपमेयाधिक्यं नाम व्यतिरेकः । सोऽपि ' रवेस्तेजजो रघोस्तेजोऽधिक ' मित्येवमवर्णितत्वात् प्रतीयत एवेति ।
अथ स्वतः सम्भविनैवालङ्कारेण वस्तुध्वनिमुदाहरति- 'आपतन्तम् -' इत्यादिना ।
'बलो बलदेवः ऊरीकृतपराक्रम ऊरीकृतः स्वीकृतः पराक्रमी योद्धुमुत्साहो येन स सन्नद्ध इति यावत् । सन्निति शेषः । आपतन्तमभिमुखामागच्छन्तम् । योद्धुमिति शेषः । अमुं वेणुदारिनामानम् । केशरी सिंहः । मातङ्गं हस्तिनम् । इव । दूरात् । अवलोकयामास ददर्श । पद्यमिदं शिशुपालवधस्यः । अनुष्टुप् चात्र छन्दः ॥ १७८ ॥
अत्र व्यङ्गयमाह - अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये । स्वतः सम्भविना लोकप्रसिद्धेन । उपमाऽलङ्कारेण । 'मातङ्गमिव केशरी' इत्यत्रेत्यनेनेति शेषः । तद्रूपेणेति भावः । व्यञ्जकेन । अर्थेन । तद्द्वारेति यावत् । ' बलदेवः । क्षणेन क्षणात् । एव न तु द्वित्रक्षणानन्तरम् । वेणुदारिणस्तदाख्यस्य बाणासुरपुत्रस्य । क्षयं । विनाशम् । करिष्यति ।' इति वस्तु । व्यज्यते ध्वन्यते । विपुलपराक्रमशालितया मदोन्मादसम्भृतता च बलदेववेणुदारिदैत्यपुत्रयोः सिंहमातङ्गाभ्यां सादृश्येनोपमात्वं लोकप्रसिद्धमेव, उपमानोपमेयसाधारणधर्माणामेवोपमाशरीरघटकत्वात्, अथैवम्भूतेन व्यञ्जना गजस्य केशरीव बाणत्मजस्य बल क्षणाज्जीवितं स हरिष्यतीति तादृश निरीक्षणाधाने स्वतोऽवतिष्ठते ध्वन्यमानं वस्तु । इति ।