________________
-
साहित्यदर्पणः। .
[चतुर्थः
तत्र क्रमेण यथा--
'दृष्टिं त्वं प्रणिधायिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसिप्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ १७६ ॥' अत्र स्वतःसम्भविना वस्तुना एतत्प्रतिपादिकाया भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तु व्यज्यते ।
अर्थतान् क्रमादुदाहरनाह-तत्रेत्यादि ।
तत्र तेषु तथाविधेषु द्वादशवर्थशतयुद्भवस्य ध्वनेः प्रभेदेषु सत्स्विति यावत् । क्रमेण क्रमवशादुदाहत- . व्यत्वेन प्राप्तेनेत्यर्थः स्वतःसम्भविना वस्त्वात्मना व्यजकेनार्थेन वस्तुनो ध्वनिरिति शेषः । यथा-'दृष्टि-' इत्यादौ।
_ 'हे प्रतिवेशिनि सन्निहित-गृहवासिनीत्यर्थः । प्रतिवेश आसन्नगृहमधिष्ठितत्वेनास्या अस्तीति तत्सम्बुद्धौ तथोक्ते ! त्वम् । इहास्मिन् । अस्मदगृहेऽस्माकं गृहमिति तत्र । 'गृहं गेहोदकसितं वेश्म सद्म निकेतनम् ।' इत्यमरः । अपि । खगृहे तु निश्चितमेव । दास्यसि प्रदास्यसि निधास्यसीति यावत् । किमित्यत आह-अस्य । शिशोरभकस्य। पिता। अर्थात् मत्स्वामी। प्रायेण बाहुल्येन । 'प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः ।' इति मेदिनीकरः । विरसा विगतो रसो यासां ताः, नीरसा इत्यर्थः अपेया इति भावः । कौपी: कूपे भवा इति ताः । कूपसम्बन्धिनीरित्यर्थः । अपो जलानि । 'आपः स्त्री भूनि वारि सलिलं कमलं जलम् ।' इत्यमरः । पास्यति । अतः-एकाकि. न्येकैवेति तथोक्ता । 'एकादाकिनिच्चासहाये।' ५।३।५२इत्याकिनित् । अपि । अहमिति शेषः । सत्त्वरं शीघ्रम् । इतोऽस्मात् । गृहादिति शेषः । तमालाकुलं तमालैः स्वनामख्यातः श्यामवर्णैर्वृक्षविशेषैराकुलमितस्ततो व्याप्तमिति तत् । 'कालस्कन्धस्तमाल: स्यातापिच्छोऽपी'त्यमरः । स्रोतः स्वतो जलनिःसरणस्थानम् । 'स्रोतोऽम्बुसरणं स्वतः।' इत्यमरः । यामि गच्छामि । नीरन्ध्रा निर्गतच्छिद्रा निबिडा इति यावत् । जरठच्छेदाः। 'जरठः कठिनश्छेदोऽ. प्रभागो येषां ते' इति विवृतिकाराः । नलग्रन्थयो नलानां प्रन्थयः पर्वाणीत्यर्थः । तनुं शरीरम् । आलिखन्त खण्डयन्तु ।' पद्यमिदं कस्याश्चन कुलटायाः कामपि स्ववेश्मसमीपवेश्मवासिनीं प्रति प्रतारणोक्तिपरम् । अत्र च च्छन्दः शार्दूलविक्रीडितं नामः । उक्तं च तल्लक्षणं प्राक् । अत्रायम्भावः-यत्र वहन्ति सरसानि जलानि तत्र निबिडास्तमाला मेदुरितस्तत्रत्यश्च प्रदेशः, सर्वतः प्रसृतं च नयनपिधायकं तिमिरम्, अथ तत्र गात्रविदारकानलास्तेषां पत्राणि पर्वाणि च स्पृश्यमाणान्यतीव दुःसहानि तानि मम सर्व शरीरं विदीर्णमपि करिष्यन्ति, कुर्वन्तु नाम, भाव्येवैवम्भूतम्, अहं चैकैव सरसपेयजलसम्भृतं स्रोतश्च कृष्णपक्षीयनिशीथायमानम्, अथापि गच्छामि किमत्रान्यत् कुर्याम्, न हि शिशोरेतस्य पिता मम प्राणनाथो नीरसानि कूपजलानि पिबति, शिशुमेवं च तत्र कथं नयेयं, भयेनैवायं व्यापद्येत, इति तावदत्रैव क्रीडतु स्वपतु वाऽयं यथासाध्यं सत्त्वरमेव प्रत्यागमिष्यामि, गमनमय्येवं तत्रावश्यं मया कार्यमेव, किन्त्वेतद्गृहं शून्यं,
नाथश्च नात्र यद्यागच्छेदसौ निवर्तनीयस्तस्य दुर्विचारः शिशुरयं चैकाकीति निरीक्षणं यावत्प्रत्यागमनं कृपया कार्यमिति पिधिन्सनीहितस्य भाविदट्यं काऽपि कुलटा निजवेश्मोपवासिनी प्रति प्रतारणात्मिकयोक्तयेति ।'
अत्र व्यगायनाट-अन्नेत्यादिना ।
अनामिनुरते पो इति यावत् । स्वतःसम्भविना लोकप्रसिद्धेन । पत्युः प्रिया कथमपि न वैमनस्यावहं अदाऽपि कार्यशघदव तथा तथा यतितव्यं यथा पति: पसीदेदिति शरीरविदरणीभावक्लेशं जानन्त्यपि तत्र यते इति लोकारनिति भावः । स्ना । तद्रूपेण व्यजकेनार्थनेत्यर्थः । वस्तुत्वं पुनरेतस्यार्थस्यानलङ्कारत्वात् । एतत्प्रतिपादिकाया एतस्यैतत्पद्यरूपवाक्यतदर्थस्थेति यावत, प्रतिरादिका समर्थयित्री तस्याः । भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं भावि भविष्यद् यत् परपुरुषस्य य उपभोगतजं नखक्षतादि तस्य गोपनं विधानं तद्रूपम् । परसुरुषकारष्यमाणोपभोगतज्जनिष्यमाणनखक्षतादि केनापि मा ज्ञायतामित्यात्मकमिति भावः । वस्तु । व्यज्यते ध्वन्यते।