________________
परिच्छेदः
रुचिरारुपया व्याख्यया समेतः। २८९ वस्तु वाऽलङ्कृतिति द्विधाऽर्थः सम्भवी स्वतः ॥ २८५॥
कवेः प्रौढोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् । पभिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥ २८६ ॥
अर्थशत्तयुद्भवो व्यङ्गयो याति द्वादशभेदताम् । स्वतःसम्भवी, औचित्यादहिरपि सम्भाव्यमानः । प्रोढोक्तिसिद्धः, न त्वौचित्येन । भावः । व्यङ्गयस्योपमादेरिति शेषः । अलङ्कार्यत्वेऽलङ्कर्तुमुचितत्वे । अपि । अलङ्कारत्वमलङ्करणक्रियाकर्तृविषयत्वम् । उपचर्यते उपचाराद् व्यवह्रियते,वाच्यताकालिकमलकारत्वमादायैव व्यङ्गयतादशायामपि तस्य तथा व्यवहारः । इति ।
प्रपञ्चयैवं शब्दशक्तिमूलमर्थशक्तिमूलमपि ध्वनिप्रपञ्च प्रदर्शयितुमुपक्रमते-२८९ वस्त्वित्यादिना । २८९ वस्तु तद्रूप इति यावत् । वाऽथवा । अलकृतिरलकारस्तद्रूप इति यावत् । वा। इत्यत्र वे'ति समुच्चयमाह । इति । अस्माद्धेतोदित्यर्थः । द्विधा द्विविधः सन् । अर्थः। व्यञ्जक इति शेषः । अर्थशक्तिमूलध्वनावर्थस्यैव व्यञ्जकत्वं खतःसिद्धत्वात् । स्वतः स्वाभाव्यात् । सम्भवी सम्भवतीत्येवंशीलः। वा तथा। कवेः काव्यनिर्मातुः । 'कविर्वाल्मीकिकाव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति ॥'इति मेदिनी । प्रौढोक्तिसिद्धः । प्रौढोक्तिश्चमत्कारानुगुणोक्तिस्तया सिद्धः । वा । तन्त्रिबद्धस्य तेन विना निबद्व उत्तम्भितः प्रदर्शितस्वरूप इति यावत् तस्य । प्रौढोक्तिसिद्ध इति पूर्वेणान्वयः । यद्वा-कवेः । वा। तन्निबद्धस्य । प्रौढोक्तिसिद्धः । इत्यन्वयः । इत्येवम् । विधा पुनर्भवन्निति शेषः । षट् षड्भिधः । तु पुनः । तैः। षड्भिः षधैिः । व्यजकैरथेरिति शेषः । व्यज्यमानो व्यञ्जनयाऽवबोधविषयीक्रियमाणः । वस्त्वलङ्काररूपको वस्त्वलङ्कारौ रूपयति निरूपयतीति रूपं यस्येति वा सः । अर्थशत्त युद्भवः अर्थशक्तरुद्भवतीति तथोक्तः । व्यङ्गयः। ध्वनिरिति शेषः । द्वादशभेदतां द्वादश भेदा यस्य तस्यभावस्तत्ताम् । याति । प्रतिपद्यते ॥ २८५ ॥ २८६ ॥
अथ कारिकास्थयोः स्वतःसम्भवि,-प्रौढोक्तिसिद्ध,-पदयोः क्रमात्तात्पर्य निर्दिशति-स्वतःसम्भधीत्यादिना ।
औचित्याद याथार्थ्यात् । बहिरनन्तर्देशे लोके इति यावत् । अपि । न केवलं प्रौढोक्त्येति भावः । सम्भाव्यमानः सम्भाव्यते सम्भवं प्रतिनीयते इति तथाभूतः । 'अर्थ' इति शेषः । स्वतःसम्भवी तत्पदवाच्य इति यावत् । अथ-प्रौढोक्तिसिद्धः प्रौढोक्त्या सिद्धो निष्पन्नशरीरः । न । त। औचित्येन याथार्थ्यात्स्वतः सम्भविद् बहिरपि सम्भाव्यमानोऽर्थ इति यावत् । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि।' इति न्यायात प्रौढोक्तिमात्रेण सम्भवं नीत इति भावः ।
अत्रायं पालोकः-अर्थशक्त्युद्भवो नाम ध्वनिः, तत्र तावदों व्यन्जकः, वस्त्वात्माऽलकारात्मा चेति द्विविधः । द्विविधोऽसौ पुनः स्वतःसम्भवी, कविजनप्रौढोक्तिसिद्धः, कविजनोत्तम्भितनायकादिप्रौढोक्तिसिद्धश्चेति त्रिगुणितः पोढा भवति । तथा च-वस्त्वात्माऽर्थः स्वतःसम्भवी, कविप्रौढोक्तिसिद्धः, कविनिबद्धनायकादिप्रौढोक्तिसिदुश्चेति त्रिविधः, अलङ्कारात्माऽप्येवं स्वतःसम्भवी, कविप्रौढोक्तिसिद्धः, कविनिबद्धनायकादिप्रौढोक्तिसिद्धश्चेति त्रिविध इति षटूप्रकारोऽर्थः । इति । पद्भिश्वार्थस्यः प्रकारय॑ज्यमानो वस्त्वात्माऽलङ्कारात्मा च व्यक्तयों द्वादशप्रकार: सम्पद्यते निर्बाधम् । ननु कवि-तनिबद्धवक्तप्रौढोक्तिनिष्पन्नयोरर्थयोः पार्थक्येनाभिधानं न न्याय्यम् । कविनिबद्धतन्निवद्धादेरपि भेदान्तरप्रयोजकत्वापत्तेः । न च तस्यापि कविनिबद्धत्वानपायात् तत्प्रयोज्यप्रभेदान्तर्गतत्वमेव युक्तमिति वाच्यम् । प्राइनिबद्धप्रौढोक्तिसिद्धस्यापि रमणीयवर्णननिणपुत्वलक्षणकविप्रौढोक्तिसिद्धत्वानपायात कविनिबद्धप्रौढोक्तिसिद्धस्याप्यर्थस्य कविप्रौढोक्तिसिद्धप्रकारत्वस्यैवापातादिति चेत् ? वृद्धोक्तिविषयादर्भकोक्तिविषय इव कविजनाभिधानविषयात कविनिबद्धाभिधानविषये चमत्कृत्यतिशयत्वानुभविकत्वात् तयोः पार्थक्यमेव न्याय्यम् । अथ प्रणिधानसाध्यप्रतीतिकतया चमत्कृत्तेः स्थगनान्न कविनिबद्धतनिबद्धादिप्रौढोक्तिसिद्धस्य पार्थक्येनाभिधानम् । इति ।