________________
साहित्यदर्पणः ।
[ चतुर्थः
अत्राहू रसगङ्गाधरनिर्मातार:-'काव्यप्रकाशे तु--'शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहत्य 'अत्र विरुद्वौ द्वापि त्वदनुवर्तनार्थमेकं कार्य कुरुतः । इति ध्वन्यते'इत्युक्तम् । तच्च-द्वौ शन्यशनी उदारानुदारौ चैकं कार्य हननं भानं च'इति व्याख्यातम् । तत्र शन्यशन्योहनन क्रियाकर्तृत्वान्वयेऽप्युदारानुदारयोर्भानकर्तृतत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षाद्भानकर्तृत्वान्वयाभावात् कथमेककार्यकारित्वं सङ्गतं स्यात् । अतो विरुद्धौ द्वावित्यादिप्रथमाविषयम् । द्वितीयार्धे तु विरोधाभास एव । कर्त्तव्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिवेत् : अस्तु द्वितीयार्धेऽपि विरुद्री द्वावित्यादि वस्तु व्यायम् । परन्त्वर्थद्वयेऽपि विरोधाभासालङ्कारशबलितमेव । शत्रुविरुद्धस्य शत्रुत्वासम्भवादेकस्य शन्यशनिकतकहननकर्मत्वायोगेनाद्याधं उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाद् द्वितीयाधं च विरोधस्य स्फुटस्वात् । इति ।
शब्दशक्तिमूलो विरोधाभासालिङ्गितस्य व्यतिरकस्य निर्यथा-'खं येऽन्युवलयन्ति लूनतमसो यं वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताजभासाश्च ये । ये मूर्धस्ववसासिनः क्षितिमृतां ये चामराणां शिगंस्याकामन्त्युभयेऽपि ते दिनपतेः पादाः श्रियै सन्तु वः ॥' इत्यादौ । अस्यार्थ:-ये । लूनतमसोलून छिन्नं विनाशितमिति यावत्तमोन्धकारी यैस्से । खमाकाशम् । अत्युज्ज्वलयन्ति । वाऽथवा । थे। नखोद्भासिनो नखैरुद्भासन्त इति तथाभूताः । ये । सरोरुहश्रियम् । अपि । पुष्णन्ति । च । ये । क्षिप्ताब्जभासाः क्षिप्ताअब्जभासा चन्द्रस्य कान्तयो यैस्ते, 'अब्जोऽस्त्री शङखे ना निचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्म' इति विश्वः । ये। क्षितिगृतां पर्वतानाम् । मूर्धसु शिखरेषु । अव' भासिनः । च ।ये। अमराणां देवानाम् । शिरांसि । आक्रामन्ति, तैरेतेषां वन्द्यमानत्वात् । ते तथाभूताः । दिनपते सर्यस्य । उभये । अपि । पादाश्चरणानि किरणा वा, ‘पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च' ति मेदिनी । वो युष्माकम् । श्रियै। सन्तु ॥' इति । अत्र च-ये खमत्युज्ज्वलयन्ति ते खोद्भासिनो न । ये च खोद्भासिनो न ते लूनतमसः । यच न वृक्षाङ्कुराधयितं तस्यैव तमसो लवनक्रियाकर्मत्वेनाभिधानविषयत्वम् । ये सरोजलक्ष्मी वर्धयन्ते ते एव क्षिप्ताब्ज़भासाः सरोजलक्ष्म्या अवमातारः । ये क्षितिभृतां राज्ञां मूर्धस्ववभासन्ते ते पुनर' मराणां शिरस्सु स्थायिनः । यो दिनपतिः स एवादिनपतिः तस्य .ये दक्षिणाः पादाः श्रियै तस्यैव वामास्ते । इति विरोधः । अपि नाचानुक्तत्वाद् व्यङ्गयः । अथ-ये यदत्युज्ज्वलयन्ति तत् किमपि वस्तु नयनविषयताभाजनम् , न तु शून्यम् , अत एतादृशस्यापि खस्यात्युज्ज्वलकर्तृत्वेन प्रसिद्धोपमानेभ्य एषां व्यतिरेकः, तथा च ग्रहाः समुज्ज्वलयन्ति ते स्वधाम्ना न तु नखैरित्यप्येतेषां तेभ्यो व्यतिरेकः, येषां च कमलोल्लासकर्तृत्वं न तेषां तदभाव इत्यपि द्वादशादित्येभ्य उपमानेभ्य एतेषां सुधारकरत्वस्यापि सम्भूत्या व्यतिरेकः, भूयिष्टानामपि भूभृतां ये शिरोमणयः ते भूभिमस्पृशतामेव देवानां शिरांस्याक्रमन्तीत्याक्रमणकृद्भयः प्रसिद्धेभ्य उपमानेभ्य एतेषां व्यतिरेक इत्येवमस्य तत्तच्छन्दशक्तिमूलं ध्वनिस्वमवसेयम् । नन्वस्य कविगतदिनकरचरणविषयकरतिभावोत्कर्षकतया गुणीभूतस्य कथं ध्वनिव्यपदेशहेतुत्वं! प्रधानस्यैव व्यङ्गयस्य ध्वनिव्यपदेशहेतुत्वादिति चेन्न, वाच्यापेक्षया प्राधान्यमात्रेण तवनित्वानतिरोहितत्वात् । इति ।
ननु उपमादेरेतस्य व्यङ्गयस्य प्रधानतयाऽलङ्कार्याणां कथं सम्भवत्यलङ्कारत्वमित्यत आह व्ययस्येत्यादि ।
'ब्राह्मणश्रमण'न्यायाबाह्मणोऽसौ श्रमणो बौद्धसंन्यासीति तस्य' न्यायो नीतिः परिपाटीति यावत् तस्मात् । यथा- कश्चिद् ब्राह्मणो बोद्धमतमवलम्ब्यावैधं गृहीतसंन्यासः, तस्य पुनस्तदानी ब्राह्मणत्वाभावेऽपि तमुद्दिश्य लोकैाह्मणोऽयं श्रमण इति, श्रमणोऽयं ब्राह्मण इत्येव वा तत्पौर्वकालिकं ब्राह्मणत्वमनुस्मृत्य व्यवहियते तथेति
-मञ्चयार्थमात्रत्वे तु विरोधस्यैव व्यङ्गयत्वादिति । २ अनाहुर्मर्मप्रकाश ( रसगङ्गाधरव्याख्य) कारा:-'तदलङ्कारसत्त्व हैतमाह-शत्रुविरुद्धस्येति । विरोधिशत्रोविरोध्यन्तरमित्रत्वादेवस्य विरोधिद्वयकर्तकहननकर्मत्वायोगेन तादृश. इननकर्मत्वयोरपि विरोधादिति भावः । राज्ञो विहिताज्ञत्वमादाय कोपस्यातिशयितत्वमादाय वा तत्परिहारः । भशनिरित्यत्र नाविरुद्धार्थक इत्युक्तम् । नचैवंविरोधेऽस्य कथं व्यङ्गयता, तन्मूलकहननकर्मत्वयोर्विरोधस्य व्यङ्गाय विनाक्षतेः । तमादायैव विरोधाभासः । तस्यैव समाधानात् । न त्वनयोर्विरोधस्यास्य समाधानमस्ति । एतेनैकधर्मिगतत्वे एव विरोधस्यालङ्कारत्वान्नात्र विरोधालङ्कार इति परास्तम् । तादृशकर्मत्वयोरेकथर्मिगतत्वस्य स्पष्टत्वात् ।' इति ।