________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
. ३२१ __अत्रा मित' इत्यादा वपि' शब्दाभावाद् विरोधाभासो व्यङ्ग्यः। व्यङ्ग्यायालङ्कार्यत्वेऽपि 'ब्राह्मणश्रमण' न्यायादलङ्कारत्वमुपचर्यते ।
अत्र व्यङ्गयं दर्शयति-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये इति यावत् । 'अमितः' इत्यादौ पदन्यासे इति शेषः । 'अपि' शब्दाभावात् । विरोधाभिधायको ह्यपि शब्दस्तदभावस्तनिवेशाभावस्तस्मात् । विरोधाभासः। अलङ्कार इति शेषः। व्यङ्गयो ध्वन्यः । तेषा 'ममिता'दिशब्दानां परिवृत्त्यसहत्वाच्छब्दशक्तिमूलश्चेति शेषः । अत्रायम्भावः-योऽमितः स एव समितः, योऽहितः स एव सहितः, यः पुनहर्षप्रदानां प्रभुः स एव हर्षहर्तृणां प्रभुरैति विरोधः । असौ पुनः-'योऽमितोऽपि स एव समितः योऽहितोपि स एव सहितः, यः पुनर्हर्षप्रदानां प्रभुरपि स एव हर्षहर्तृणां प्रभुरित्येव 'मपि'शब्दस्य निवेशे वाच्यः स्यात् । प्रकृते पुन 'रपे' रभावाद् व्यङ्गत्वमेवैतस्य न तु वाच्यत्वम् । विरोधश्चायमाभासमात्रणेति ।
अत्रायं पदाभङ्गे पदभङ्गे पुनर्यथा-'तिग्मरुचिरप्रतापोविधुरनिशाकृद्विभो ! मघुरलीलः । मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥' इत्यत्र । अस्यायमर्थः-'हे विभो ! तिग्मरुचिरप्रतापः तिग्मस्तीक्ष्णो रुचिरो मनोहर इति तादृशः प्रतापो यस्य सः, शत्रूणामुत्तापनार्थ तिग्मप्रतापः, मित्राणां पुनराहादनाथै रुचिरप्रताप इति भावः । विधुरनि. शाकृत, विधुराणां स्वप्रतापोत्तप्तानां निशा मरणं तत्कृत्, निशेव निशेति, 'वैकल्पेऽपि च विश्लेषे विधुरं विकले त्रिषु ।। इति त्रिकाण्डशेषः । मधुरलीलः, मधुराऽऽस्वादनीया लीला यस्य तादृशः । मतिमानतत्त्ववृत्तिः, मतिमानयोस्तत्त्वेन याथार्थ्येन वृत्तिर्वत्तंनं यस्य सः, मतिः शास्त्रादिनिर्णायिका वस्तुतत्त्वावधारणक्षमा वा बुद्धिः । प्रतिपदपक्षाग्रणीः, प्रतिपदं पक्षः सहायस्तेषां पक्षो बलं येषां तेषां वाऽप्रणी: । 'पक्षस्तु मासार्धे गृहसाध्ययोः ॥ चुल्लीरन्ध्रे बले पार्चे वर्ग केशात् परश्च ये ॥ पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ।' इति हैमः । भवान् । विभाति ॥ इति अत्र पदभने विरोधः स च यथातिग्मरुचिर्यः स एव रुचिरप्रतापः, यो विधुः, स न निशाकदिति, यो मधुः ( वसन्तः) सोडलीलः (कैलिशून्यः ), यो मतिमान् , सोऽतत्त्ववृत्तिः, प्रतिपत् पक्षस्यादिमा तिथिः पुनरपक्षाग्रणीरिति । अस्य चापि नानोक्तत्वादनित्यस्वमेवेति । यत्तु केनापि 'विभो निष्प्रभो विभातीति विरोध इति व्याख्यातं, तन्न सत्, तस्य पदाभङ्गसम्बन्धित्वेनारमणीयत्वात् । पदानां चैषां परिवृत्त्यसहत्वेन शब्दशक्तिमूलोऽयं विरोधाभासः । पद्यमिदं च कस्यापि राज्ञः प्रतापवर्णनपरम् ।
वस्त्वलङ्कारयोरेकत्रापि ध्वनिः सम्भवति, यथा-'शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र । यस्मै स्वम् । यत्र प्रसीदसि पुनः स .भात्युदारोऽनुदारश्च ॥' इत्यत्र । अस्यायमर्थः-'हे नरेन्द्र ! यस्मै यं विनाशयितुम् । कुप्यसि क्रुद्धो भवसि । तमन्तिकान्तकम् । शनिः शनैश्चरः। च पुनः । अशनिर्वजम् । 'दम्भालिरशनियोः ।' इत्यमरः । उच्चैरत्य. न्तमुद्यम्य । निहन्ति । यत्र यदुपरि । पुनः । प्रसीदसि प्रसन्नतां प्रकटयसि । सः । उदारो महान् , 'उदारो दातृमहतो:' इत्यमरः । च पुनः । अनुदारोनोद्गता दारा यस्य सः, अप्रवासी, नोदारो दातृवीरो वा यस्मात् सः । भाति ॥' इति । अत्र च विरोधो यथा--शनिस्तविरुद्धोऽशनिः, नञः 'असुन्दराक्षा' दाविव 'तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यमभावश्च नार्थाः षट प्रकीर्तिताः ॥' इत्युक्तदिशा विरोध्यर्थकत्वात् । तथा-उदारस्तद्विरुद्वोऽनुदारः, नोदार इति पूर्ववत् । अथैवं विरुद्धार्थकत्वेन प्रतीयमानयोरपि शन्यशन्याहननक्रियाकर्तत्वान्वया विरुद्धौ द्वावपि शन्यशनी त्वदर्थ हननरूपमेकमेवाविरुद्ध कार्य कुरुत'इति वस्तु शब्दशक्तिमूलं ध्वन्यते पूवभागे, उदारानुदारयोः पुनर्भानकर्ततत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षाद्भानकर्तृत्वान्वयाभावादेककार्यकारित्वासम्भव इति विरोध एव स्फुटमाभासते, विरुद्धार्थकत्वेन तयोः प्रतीतेः शब्दशक्तिमूलत्वाच्छन्दशक्तिमलत्वं विरोधाभासस्योर भागे । इति ।
१ अत्रोक्तं प्रदीपकारैः-'अत्र प्रथमार्धे शनिरशनिश्चेत्यनेन 'विरुद्धावपि त्वदनुवर्त्तनाथमेकं कार्य कुरुतः' इति वस्तु ध्वन्यते, न तु विरोधालङ्कारः शनिरशनिरित्यनयोः सामानाधिकरण्याभावात् (एकधर्मिगतत्वेन शनित्वतद्भिन्नत्वयोर प्रतिपादनात् ), विरोधस्य च तत्रैव विश्रान्तेः । द्वितीया तु नोदाहरणम् । तत्र 'च' शब्दस्याप्यर्थत्वे विरोधस्य वाच्यत्वात्स
४१