________________
३३०
साहित्यदर्पणः।
[ चतुर्थःअत्र हि प्राकरणिकस्य 'उमा' नामदेवीवल्लभभानुदेवनामनृपतेर्वर्णने द्वितीयार्थसूचितमप्रा. करणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बद्धं मा प्रसाङ्क्षीदिती श्वर-भानुदेव'योरुपमानोपमेयभावः कल्प्यते । तदत्र 'उमावल्लभ उमावल्लभ इवे' त्युपमालङ्कारो व्यङ्ग्यः।।
यथा वा'अमितः समितः प्राप्तेरुत्कर्षहर्षदप्रभोः। अहितः सहितः साधुयशोभिरसतामसि ॥ १७५ ॥'
अथ स्वयमप्येतदेवाह-अत्रेत्यादि ।
हि यतः । अत्रास्मिन् उदाहृते पद्ये इति यावत् । प्राकरिणकस्य प्रकरणे भव इति तस्य । 'उमानामदेवीवल्लभभानुदेवनामनपतेः । 'देवी कृताभिषेकाया' मित्यमरः । वर्णने । उपक्रान्त इति शेषः । अप्राकरणिकस्य न प्राकरणिक इति तस्य । प्रकरणोपक्रान्तविरुद्धस्येति यावत् । पार्वतीवल्लभस्य पार्वत्या उमायाः वल्लभः स्वामी पतिरिति यावत् तस्य महेश्वरस्येति यावत् । 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरङ्गमे।' इति मेदिनी। वर्णनम । द्वितीयार्थसुचितं द्वितीयार्थेन प्रतीतिमात्रनिष्पद्यमानेनार्थेन सूचित न त्वभिहितम् । अभिधायाः प्रकृतार्थमुपस्थाप्य विरतव्यापारत्वात् । इति-असम्बद्धं सम्बन्धविपरीतम् । यद्वा-'वर्णन'मिति विशेष्यम् , 'द्वितीयार्थसूचित'मिति विशेषणम् । इति । अस्मिन् पक्षे 'असम्बद्ध'मित्यत्र 'इती'त्यादिना हेतुनिर्देशो न नितान्तं सापक्षः । मा नैव । प्रसाङक्षीत् । प्रसक्तं भवतु । 'माडि लुङ् ।' ३।३।१७५। इति लुङ् । न माइयोगे।' ६।४।७४। इत्यटः प्रतिषेधः । इति । हेतोरिति शेषः। 'ईश्वर-भानुदेव' योः। ईश्वरो महेशो भानुदेवस्तदाख्यो राजा तयोः। 'ईश्वरः शम्भुरीशानः।' इत्यमरः । उपमानोपमेयभावः । क्रमादिति शेषः । उपमानं सादृश्याप्रतियोगि तव्यतिरिक्तं तूपमेयम् । तयोरेवोपमाशरीरघटकत्वं चेति बोध्यम् । कल्प्यते न तु वस्तुतयाऽस्त्येव । तत्तस्मात् कारणादिति शेषः । अत्रास्मिन् , एवम्भूते प्रकृताप्रकृतार्थयोरवस्थाने इति यावत् । 'उमावल्लभ उमायास्तन्नान्या महाराच्या वल्लभः पतिर्भानुदेवो नाम नृपतिः । उमावळभ उमायाः पार्वत्या वल्लभः पतिर्महेश्वर इत्यर्थः । इव 'राजते' इति शेषः । इतीत्येवम् । उपमाऽलङ्कार उपमा नामालङ्कारः । व्यङ्गयो ध्वन्यः । अस्तीतिशेषः ।।
नेनु समासोक्तिवदुपमाया अपि प्रकृतोपस्कारकत्वेनापराङ्गत्वरूपगुणीभूतव्यङ्गयत्वं स्यादिति चेन्न । तत्राप्रकृतवृत्तान्तस्य व्यङ्गयस्य प्रधानतया प्रतीतौ चमत्कृत्यभावेन गुणीभूतत्वेऽप्यत्रोपमायाः प्राधान्यसम्भवेन गुणीभूतत्वानङ्गीकरणात् ।
अत्राय विवेकः-अलङ्काराणां सर्वेषामुद्दीपनविधया रसायुपयोगितयाऽऽलम्बनापेक्षयोद्दीपनेऽतिशयचमत्कृतिमत्त्वस्य सर्वानुभवसिद्धत्वेन दुर्गालयिते'त्यादिपदवाच्यालम्बनविभावापेक्षयाऽतिशयितत्वानिधिमेव ध्वनित्वम् । रसाद्यपेक्षया गुणीभूतव्यङ्ग्यत्वं पुनरभिमतम् । अथ समासोक्तौ अप्रकृतवृत्तान्ताध्यारोपमन्तरेण समासोक्तेरेवानुपपत्तेर्गुणीभूतव्यङ्गयत्वं स्पष्टमेव । यत्र पुनरप्रकृतवृत्तान्ताध्यारोपस्यापि रसायुपस्कारकत्वेन वाच्यादतिशायित्वं प्रागभिहितदिशा भवतु नाम तत्र ध्वनित्वं तस्याः समासोक्तेः । न चैवं सत्यप्युपमाकृतातिशयमुपादाय भवतु नाम ध्वनित्वम् , अलङ्कारध्वनिरिति पनः कथङ्कारमिति शङ्कयम् । अलङ्कारकृतातिशयध्वनावेवालङ्कारध्वनिरिति व्यवहारात् ।
अलङ्कारान्तरध्वनिरप्येवमवसेय इति ध्वनयन्नाह-यथा वेति । वाऽथवा । अलङ्कारध्वनिरिति शेषः । यथा-'अमितः-'इत्यादौ ।
हर्षदप्रभो हर्षे ददातीति द्यतीति वा तेषां प्रभुरिति तत्सम्बुद्धौ तथोक्त ! तथा च-हर्षप्रदानामपि यः प्रभुः स एव हर्षहर्तृणामिति विरोधः । तत्परिहारः पुनर्मित्रामित्रार्थमित्यध्याहारेण । समितः सङ्ग्रामात्। 'समित्याजिसमिद्युधः ।' इत्यमरः । प्राप्तः। उत्करतिशयैर्विजयोरिति यावत् । 'उत्कर्षोऽतिशये' इत्यमरः । अमितोऽपरिच्छिन्नोऽपर्याप्त इति यावत् । असतां खलानाम् । अहितः शत्रुः । 'द्विविपक्षाहितामित्रस्युशात्रवशत्रवः ।' इत्यमरः । साधयशोभिः। साधुनि महनीयानि यानि यशांसि इति तैः। सहितः सम्पन्नः । असि त्वं विद्यसे इति वा ॥१७५॥'