________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। अत्र सत्यरादिशब्दशक्त्या यापभोगक्षमोऽसि तदाःस्वेति' वस्तु व्यज्यते । अलङ्कारो यथा-'दुर्गालवितविग्रहो मनसिज सम्मीलयंस्तेजसा-' इत्यादौ ।
'पंथिअ हे पथिक ! मार्गगमनश्रान्तेति यावत् । एत्थ अत्रास्मिन्निति यावत् । पत्यरत्थले प्रस्तराणां पाषाणानामिति यावत् स्थलं तत्प्रधानः प्रदेशस्तत्र । प्रस्तराः स्थले यस्य तत्रेति वा। पाषाणप्रस्तरमावोपलाश्मानः शिला दृष'दित्यमरः । ग्गामे प्रामे । 'विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति हि । स तु ग्राम इति प्रोक्तः शूद्राणां वास एव वा॥' 'तथा शूद्रजनप्रायाः सुसमृद्धकृषीवलाः । क्षेत्रोपयोगभूमध्ये वसतिमिसज्ञिका ॥' इत्युक्तलक्षणायां वसताविति यावत् । सत्थरं स्रस्तरं शयनीयकट: शास्त्रं वा । ण न नैवेति यावत् । मणं मनाक किञ्चिदिति यावत् । अपीति शेषः । अत्थि अस्ति विद्यते इति यावत् । उण्णअपओहरं उन्नतपयोधरम् । उन्नतो वार्षुकः पयोधरो मेघो यत्र तद् , उन्नतोऽसौ पयोधर इति तमिति वा । उन्नतौउच्चौ पयोधरौ स्तनौ यत्र तत् तथोक्तमिति वा । पेक्खिऊण प्रेक्ष्य पुनः। जइ यदि । वससि वासं करोषि चिकीर्षसीति यावत् । न तु विश्रामा)ऽयं ग्राम इति भावः। ता तत् । वससु वस वासं कुर्विति यावत् । अत्र जघनविपुला छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १७४ ॥'
अत्र व्यङ्ग्यमाह-अवेत्यादिना ।
अवास्मिनुदाहृते पद्ये इति यावत् । सत्थरादिशब्दशक्त्या स्रस्तरादिशब्दशत्या । 'आदिशब्देन पयोधरादिश-दानामप्युपादानम् । 'यदि । त्वमिति शेषः । उपभोगक्षमः। असि । तत् तर्हि । आःस्वोपविश । इति' वस्तु । एवेति शेषः । व्यज्यते ध्वन्यते । - अत्रेदं बोध्यम्-कमपि पथिकं निवासार्थिनं युवानं प्रति कस्या अपि स्वयंदृत्याः 'द्वयर्थः पदैः पिशुनये रहस्यवस्तु' इति कामशास्त्रानुसृतोक्तिरियम् । सा यथा-हे पथिक मार्गश्रमात ! त्वयाऽत्र कियन्तं समयं स्थातव्यं, यद्यपिप्रस्तराणां तत्त्वेनाध्यवसितानां मढानां स्थल तत्प्रधानो देश इति तथाभुते, प्रस्तरास्तत्त्वेनाध्यवसिता मूढाः स्थले प्रदेशे यस्य तादृशो वाऽत्र ग्रामे न तु नगरेऽत एव न स्रस्तरं शयनायोपयोगाय वा कटादीनि, शास्त्रं वा, व पुनस्तदन्तरेणेगितज्ञत्वादीति नात्र खलु वस्तव्यमिति, अथापि उन्नतपयोधरं प्रेक्ष्य न पुरः प्रस्थातुं कामातः सन् रन्तुमेव वा कामयसे तत्र क्षमश्च चेत्तर्हि त्वमाःस्व यथेष्टं च रमख प्रतिबन्धकत्य नाममात्रेणाप्यनुपलम्भात् । इति । एवं च-स्रस्तराभावकथनानावयोः सङ्केताभिज्ञत्वशङ्का त्वया कार्येति ध्वन्यते । नितान्तं मूढप्रधानोऽयं ग्राम इति न 'अत्र कृतेऽपि त्वया निवासेऽन्यथा निरीक्षिष्यन्ते एते' इति भ्रमितव्यमिति द्योत्यते । मेघोऽयमुन्नत इति नानेन पुरःप्रस्थानं कृतमित्येवते ज्ञास्यन्ति न पुनर्मदीयपयोधरौनत्यनिरीक्षण प्रतिबन्धकरूपेणेति, पथिकस्य तव प्रिया तु नास्त्येव यन्मम सपत्नीशङ्का स्यात्, अथ ततः श्रान्तो मेघोदयं वा कुचौन्नत्यं वा वीक्ष्य मदनार्त्तश्चेत्तर्हि यथेष्टमत्र न्युष्य मया रमख, अहं च त्वां प्रमोदयिष्ये इति च द्योत्यते । स्रस्तरपयोधरशब्दमूलश्चैवं वस्तुध्वनिरिति दिक् ।
अलङ्कारध्वनिमुदाहर्तुमाह-अलङ्काररूपः शब्दशक्त्युद्भवो ध्वनिरिति शेषः । यथा-'दुर्गालवितविग्रहो मनसिज सम्मीलयस्तेजसाः इत्यादौ उदाहृते प्रबन्ध इति शेषः । अत्रेदमवधेयम्-इदं तावत् पद्यम. भिधामूलाया व्यञ्जनाया उदाहरणप्रस्तावे उपन्यस्तम्, दर्शितश्च तत्रैवार्थः । अत्र प्रकृतम्-'उमा' नाम्न्या राड्या वल्लभस्य वर्णनमिति नियमनमप्यभिधायास्तत्रैव, अप्रकृतं पुनः पार्वत्या वल्लभस्य, तत्कथमिदं सङ्गच्छेत मा भूदसम्बद्धं चेति तयोरुपमानोपमेयभावः परिकल्प्यते । तथा सति चोपमाऽलङ्कारः शब्दशक्तिमूलः प्रतीयमानोऽवतिष्ठते र्निबाधम् । इति ।
१ सूचयेत् । २ गोप्यं वस्तु ।