________________
[चतुर्थः
३१८
साहित्यदर्पणः। तत्र२८८ वस्त्वलङ्काररूपत्वा-च्छब्दशक्तयुद्भवो द्विधा ॥ २०४॥
अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यतेतत्र वस्तुरूपशब्दशक्त्युद्भवो व्यङ्गयो यथा
'पंथिअ ! ण एत्थ सत्थर-मस्थि मणं पत्थरस्थले ग्गामे । उण्णअपयोहरं पे-क्खिऊण जइ वससि ता वससु॥ १७४॥'
यो व्यङ्ग्या भणं पत्थरथम
॥ ५७४
भेदो द्रष्टव्यः, तनियमने तु नाभिधामूलत्वं, किन्तु व्यञ्जनामूलत्वमेव । 'भद्रात्मनो दुरधिरोहतनोविशाल-वंशोन्नते: कृतशिलीमुखसङ्ग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' इतिवद्भवेत् ।” इति यत् केनचिदुक्तं तन्नादेयम्, 'भद्रात्मनः-' इत्यादेरप्येतद्भेदत्वेनेष्टत्वात् । अन्यथा तस्य सर्वभेदबहिर्भावापत्तेः । इति । अत्रेदं बोध्यम्-'क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः । शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधा व्यवस्थितः ॥' इत्युक्तदिी से तावद्विविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च ।' इत्युक्तनयेन च संलक्ष्यक्रमव्यङ्गयस्य ध्वनेद्वैविध्यमेव न्याय्यम् , अथापि अवच्छेदकभेदेन शब्दार्थ- परिवृत्तिसहत्वासहत्वाभ्यामनुभवसिद्धस्य तत्तृतीयप्रभेदस्य दुरपह्नव एवेति । अत एवोक्तं प्रकाशकारैः-'अनुस्वानाभसंलक्ष्यक्रमव्यङ्गयस्थितिस्तु यः । शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ॥' इति । रसगङ्गाधरकारैरप्युक्तम् 'इथमभिधामूलस्त्रिविधोऽपि सइक्षेपेण निरूपितो ध्वनिः ।' इति ।
अथ शब्दशक्तिमूलस्य वनेरपि द्वैविध्यमित्याह-तत्रेत्यादिना । तत्र तेषु त्रिषु संलश्यक्रमव्यङ्गयस्य ध्वनेः प्रभेदेष्विति यावत् । २८८ वस्त्वलङ्काररूपत्वाद्वस्त्वलङ्कारौ रूपं स्वरूपं यस्य तस्य भावस्तत्त्वं तस्मात् । वस्तुरूपत्वादलङ्काररूपत्वाचे. त्यर्थः । शब्दशक्तिमल: । धनिः । द्विधा प्रकारद्वयेनावस्थितः । स्यादिति शेषः । वस्तुमात्ररूपोऽलकारमात्ररूपश्चेति स द्विप्रभेद इति भावः ॥ २०४ ॥
नन्वलङ्कारोऽपि वस्त्वेव तत्कथं तस्य पृथगुपादानमित्याशङ्कय तत्सार्थकतां दर्शयति-अलङ्कारशब्दस्येत्यादिना ।
अलङ्कारशब्दस्य 'वस्त्वलङ्काररूपत्वा'दित्यत्रेति शेषः । पृथगू वस्तुशब्दादिति शेषः। उपादानात् । हेतोरिति शेषः । अनलङ्कारं नालङ्कारो यत्र तत्, नालङ्कार इति स यथा भवेत्तथेति क्रियाविशेषणं वा । वस्तुमात्रं वस्त्वेवेत्यर्थः । गृह्यते उपादीयते । अनयोर्भेदस्तु 'गोबलीवर्द'न्यायेनोह्यः ।
वस्त्वलङ्कारध्वनी क्रमादुदाजिहीर्षुराह-तत्र तयोवस्त्वलङ्कारध्वन्योर्मध्ये इति यावत् । वस्तुरूपशब्दशत्यु द्भवः । शब्दशक्तिमूलो वस्तुध्वनिरिति भावः । यथा-'पंथिअ-'इत्यत्र । . -भेदेनोभयान्वयव्यतिरेकानुविधाने तूभयशक्तिमूलत्वं द्रष्टव्यम् ।' इति । २ ‘भद्रात्मनः पवित्रस्य भद्राख्ययोनेश्च । दुरधिरोहतनोर्दुरधिरोहा परैरनभिभवनीयाऽऽरोढुमशक्या च तनुर्यस्य तस्य । विशालवंशोन्नतेर्विशालवंशे तद्वन्चोन्नतिर्यस्य तस्य । कृतशिलीमुखसङ्ग्रहस्य कृतः शिलीमुखसङ्ग्रहः शरप्रक्षेपाभ्यासदाढय भृङ्गसञ्चयश्च येन तस्य । अनुपालतगतेरनुपप्लुताऽप्रतिहताऽनुद्धता च गतिर्ज्ञानं गमनं च यस्य तस्य परवारणस्य परान् वारयतीति, परोऽसौ वारण इति च. तस्य । यस्य प्रकृतस्य राज्ञोऽप्रकृतस्य पुनः कारणः । करः पाणिः शुण्डादण्डश्च । सततम् । दानाम्बुसेकसुभगो दानाम्बुन: प्रदानार्थ गृहीतजलस्य मदजलस्य च सेकेन सुभगः । अभूत् । स इति शेषः ।' इत्ययमस्यार्थः । ३शब्दशक्तिमूलस्य ध्वनेः प्रभेदात्मकत्वेनेत्यर्थः । ४ इति ध्वनिकारोक्तमार्गेण । ५ स संलक्ष्यक्रमव्यङ्गयाख्यो ध्वनिः । ६ इति रसगङ्गाधरकारोक्तनयेन । ७ अंशभेदेनेत्यर्थः । ८ इतः पूर्व 'यत्र तु कार्यपरिवृत्तिं सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम् , अपि तु साम्यमेव तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्ग्यस्य स्थितिरिति युत्थो ध्वनिः । न चाय शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः, विनिगमकाभावात् । नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः सरेण गतार्थयितुम् । व्यङ्गयभेद एव सङ्करस्येप्टेः । इह तु व्यङ्गयस्यैक्थेन तस्यानुत्थानात्...इत्यादि पाठः। _ * 'पन्थिक ! मात्र स्तस्तरमस्तिमनाकू प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य पुनर्यदिवसति तद्वस ॥'इति संस्कृतम् ।