________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
३१७ २८७ शब्दार्थोभयशक्तयुत्थे व्यङ्गयोऽनुस्वानसन्निभे । • ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ।। २०३ ॥ क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्गयस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्तयुद्भवत्वेन, शब्दा. र्थशतयुद्भवत्वेन च त्रैविध्यात् संलक्ष्यक्रमव्यङ्गयनानो ध्वनेः काव्यस्यापि त्रैविध्यम्।।
अथ क्रमप्राप्तं संलक्ष्यक्रमाख्यं ध्वनि निरूपयति-८२७ शब्दार्थोभयशक्त्युत्थे इत्यादिना ।
२८७ शब्दार्थोभयशत्क्युत्थे शब्दश्चार्थश्चोभयं चेति तेषां शक्तिरिति शब्दार्थोभयशक्तिस्तस्या उत्तिष्ठत्युदयते आविर्भवतीति यावत् यस्तस्मिंस्तथोक्ते। शब्दशक्तरर्थशक्तेः शब्दार्थोभयशक्तेश्च य आविर्भवति तस्मिन्निति यावत् । अनुस्वानसन्निभेऽनुखान: प्रतिध्वनिस्तत्सन्निभे तत्सदृशे इति यावत् । अन्वनुकृत्य स्वानं प्रथमध्वनिं वर्त्तत इति ।
। लक्ष्यक्रमव्यङ्गयः । लक्ष्यः क्रमो यस्य तादृशो व्यङ्गयो यत्र स तत्स्वरूप इति यावत् । ध्वनिः। त्रिविधः शब्दशक्त्युत्थार्थशक्त्युत्थशब्दार्थशक्त्युत्थत्वेनेति शेषः । बुधैः पौर्वापर्यज्ञैः । कथितः प्रतिपादितः ॥ २८७ ॥
अत्रेदमुक्तम्-अनुस्वानोऽनुरणनप्रतिश्रुत्प्रतिध्वन्याद्यपरपर्यायः स च स्वकारणीभूतशब्दोत्तरजायमानत्वरूपक्रमतत्स्वरूपः सन् लक्ष्यते, तत्सन्निभः पुनर्यो व्यङ्गयार्थः स कथं न स्यालक्ष्यक्रमः । अथैवं शब्दशक्त्युद्भवोऽर्थ शत्युद्भवः शब्दार्थशक्तयुद्भवश्चेति ध्वनिरसौ त्रिप्रकारो निरूपितः । इति ।
अत्राहुलनिकारा:-ननु शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानी श्लेषस्य विषय एवापहृतः स्यात् । नापहृत इत्याह-'आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते । यस्मिन्ननुक्तः शब्देन शब्दशक्युद्भवो हि सः ॥' यस्मादलङ्कारो न वस्तुमानं (सत्) यस्मिन् काव्ये शब्दशक्त्या प्रकाशते । स एव शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितः । वस्तुद्वये च शब्दशक्त्या प्रकाश्यमाने श्लेषः । यथा-'येन ध्वस्तमनोभवेन बलिजित् कायः पुरस्त्रीकृतो...॥'नन्वलङ्कारान्तरप्रतिभायामपि श्लेषस्य व्यपदेशो भवतीति दर्शितं भट्टोद्भवेन तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाश इत्याशङ्कयेदमुक्तम् ‘आक्षिप्त' इति । तदयमर्थः-यत्र शब्दशक्त्या साक्षादलङ्कारं वाच्यं सत् प्रतिभासते स सर्वः श्लेषस्य विषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्त व्यङ्गयमेवालङ्कारान्तरं प्रकाशते स 'ध्वनेर्विषयः । शब्दशक्त्या साक्षादसङ्कारान्तरप्रतिभा यथा-'तस्या विनाऽपि हारेण निसर्गादेव हारिणौ। जनयामासतुः कस्य विस्मय न पयोधरौ ॥' अत्र शृङ्गारव्यभिचारी विस्मयाख्योभावः साक्षाद्विरोधालङ्कारश्च प्रतिभासेते इति विरोधच्छायाऽनुग्राहिणश्लेषस्यायं विषयः, न त्वनुखानोपमव्यङ्गयस्य ध्वनेः ।' इति ।
अथ कारिकोक्तमेवार्थ निर्दिशति-क्रमलक्ष्यत्वादित्यादिना।
क्रमलक्ष्यत्वात् क्रमस्य व्यङ्गयप्रतीतिपौर्वापर्यस्य लक्ष्यत्वं स्फुटं प्रतीयमानत्वं तस्मात् । एव ।.अनुरणन: रूपोऽनुरणनं प्रतिध्वनिस्तद्रूपः यः । व्यङ्गयो व्यङ्गयार्थः । तस्य । शब्दशक्त्युद्भवत्वेन शब्दशक्तरुद्भवतीति, तत्त्वेन । पुनः-अर्थशतयुद्भवत्वेन । च तथा । अव्ययानामनेकार्थत्वात् । शब्दार्थशतयुद्भवत्वेन । साधनेनेति शेषः । वैविध्यात् । हेतोरिति शेषः । संलक्ष्यक्रमव्यङ्गयनाम्नः संलक्ष्यक्रमव्यङ्गय इति नाम यस्य तस्य । ध्वनेस्तत्प्रधानस्य । काव्यस्य रसा (चमत्कारा) त्मकवाक्यस्य । अपि । वैविध्यम । यद्वा-संलक्ष्यक्रमव्यङ्गयनाम्नः । ध्वनेः । त्रैविध्यात् । काव्यस्य । अपि । त्रैविध्यम् । इति ।
ननु 'नित्यः शब्दार्थसम्बन्धः' इति शब्दार्थयोर्व्यभिचारित्वासम्भवात् कथं ध्वनेत्रैविध्य सङ्गच्छते इति चेत सत्यम् । अत्र प्राधान्यं विवक्षितम् । एवं च-शब्दपरिवृत्त्यसहत्वेनार्थपरिवृत्यसहत्वेन शब्दार्थपरिवृत्त्यसहत्वेन च तस्य तथात्वमिति निर्वाधम् । उक्तं च प्रदीपकारैः-" शब्दशक्तिमूलत्वं च एतदेव, यत्तेनैव शब्देन तदर्थप्रतीतिर्नतु पर्यायान्तरेणापि, एतद्वैपरीत्यं चार्थशक्तिमूलत्वं, न त्वभिधया तत्प्रतीतिरिति । एतेन-"अभिधाया यत्र न नियमनं तत्रैष
१ अत्रोक्तमुद्योतकारैः-' शब्दार्थयोरेकव्यङ्गयस्यापरव्यङ्गयत्वनियमादाह-शब्दशक्तिमूलत्वं चेति । अवच्छेदक