________________
३१६
साहित्यदर्पणः।
[ चतुर्थः- .
२८६ तत्रायो रसभावादिरेक एवात्र गण्यते ।
एकोऽपि भेदोऽनन्तत्वात्सङ्ख्येयस्तस्य नैव यत् ॥ २०२ ॥ उक्तस्वरूपो रसभावादिरसंलक्ष्यक्रमव्यङ्गयः । अत्र व्यङ्गयप्रतीतेर्विभावादिप्रतीतिकारणकत्वात् क्रमोऽवश्यमस्ति । किन्तूत्पलपत्रशतव्यतिभेदवल्लाघवान संलक्ष्यते। एषु रसादिषु च एकस्यापि भेदस्यानन्तत्वात् सङ्ख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्गयध्वनि म काव्यमेकभेदमेवोक्तम् । तथाहि-एकस्यैव शृङ्गारस्यैकोऽपि सम्भोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च विभावादिवैचित्र्यात् सङ्ख्यातुमशक्यः का गणना सर्वेषाम् ।
चित्ये प्राप्तेऽपि असंलक्ष्यक्रमव्यङ्गयस्य ध्वनेः रसादिस्वरूपत्वात्तस्य च निरतिशयानन्दत्वात् सहृदयहृदयदयितत्वाच प्राधान्यमित्येव तस्यैतस्य ततः प्राङ्निरूपणमवसेयम् । इति ।
अभिधामूलस्य ध्वनेद्वैविध्यमेवमुदीर्य तत्राद्यखरूपं सहेतुप्रदर्शनपुरःसरमुदीरयति-२८६तत्रेत्यादिना । २८६ तत्र संलक्ष्यक्रमव्यङ्गयसंलक्ष्यक्रमव्यङ्गयोर्मध्ये इत्यर्थः । आद्यो ध्वनिरिति शेषः । रसभावादिः। आदिपदेन तदाभासादीनां ग्रहणम् । नामेति शेषः । एक एकप्रभेदः । एव न तु तदधिकप्रभेदोऽपीति भावः । अत्र । साहित्यसंसारे इत्यर्थः । गण्यते कीय॑ते । ननु रसभावादीनामनेकत्वे कथं तदेकत्वमेवेत्याह-तस्य रसभावादिरूपस्यैकत्वेनैवाभिमतस्य ध्वनिप्रभेदस्येति यावत् । एकः सम्भोगाद्यन्यतम इति शेषः । अपि । भेदः । अनन्तत्वादमितप्रकारकत्वात् । यत् । न । एव । सङ्ख्येयः सख्यातुं शक्यः । तत एव रसभावादिर्नामासंलक्ष्यक्रमव्यङ्गयोध्वनिरेकप्रभेद इत्यभिधीयते । इति भावः ॥ २०२॥
अथ कारिकाऽर्थमेवमेव विवृण्वन्नाह-उक्तस्वरूप इत्यादि।
रसभावादिः। आदिपदं च तदाभासादिग्राहकम् । भावश्च स्थायिव्यभिचारिरूपतया द्विविधः । आदिपदेन वा व्यभिचारिभावग्रहणम् । भावपदेन तु स्थायिभावग्रहणम् रसपदसाहचर्यात् स्थायिभावग्रहणस्यैवोपपत्तेः । क्वचिद् भावादिरित्येव पाठः । तत्र भावपदेन स्थायिभावग्रहणम् । आदिपदेन पुना रसादिग्रहणमवसेयम् । उक्तस्वरूपोऽ. संलक्ष्यक्रमो यत्र व्यङ्गय इत्युकं स्वरूपं यस्य सः- असंलक्ष्यक्रमव्यङ्यस्तदाख्यो ध्वनिरित्यर्थः । अत्रास्मिन् ध्वना. विति शेषः । व्यङ्गयप्रतीतेः व्यङ्गयो रसादिस्तस्य प्रतीतिस्तस्याः । विभावादिप्रतीतिकारणकत्वाद् विभावादिप्रतीतिरेव कारणं यस्य तत्त्वात् । रसादेहि व्यङ्गयस्य विभावादिव्यञ्जक इत्येतत्प्रतीतिस्तत्प्रतीतेः कारणमित्यूह्यम् । क्रमः पौर्वापर्यम् । कार्य हि कारणपूर्वकम् । कार्या पुना रसादिव्यङ्गयप्रतीतिस्तत्कारणभूता च विभावादिप्रतीतिरिति पूर्व विभावादिप्रतीतिस्तत्पुना रसादिप्रतीतिरिति । अवश्यं निश्चितः । अस्ति विद्यते। किन्तु । उत्पलपत्रशतव्य भेदवदुत्पलस्य कमलस्य पत्रशतं पत्राणां शतं शतकं तस्य व्यतिभेदो विशेषेणात्यत्यन्तं भेदो भेदनं तद्वत् । लाघवानितान्तमेव शीघ्रोत्पन्नत्वादिति भावः । न नैव । सलक्ष्यते । इत्येव रसभावादिरूपोऽसंलक्ष्यक्रमव्यङ्गयो नाम ध्वनिरिति सङ्गच्छते इति बोध्यम् । इत्येवं ध्वनेस्तथाभूतव्यपदेशबीजं निर्दिश्य तदेकत्वहेतुबीजमपि निर्दिशतिएषु। रसादिषु रसभावतदाभासादिषु मध्ये। निर्धारणेऽत्र सप्तमी। च । एकस्य । अपि किं पुनः सर्वेषाम् । भेदस्य । अनन्तत्वात् । सख्यातुम् । अशक्यत्वात् । असंलक्ष्यक्रमव्ययध्वनिः। नाम । काव्यम् । एकभेदमेको भेदो यस्य तत् । एव । उक्तमेतेनैव निर्देशेन निर्दिष्टमवसेयमिति । अभिहितमर्थ विशेषाख्यानेन द्रढयति-तथा हि यथा हि एकस्यापि तेषां भेदस्यानन्तत्वमिति यावत् । एकस्य । एव । शङ्कारस्य तदाख्यस्य रसस्य । एकः। अपि । सम्भोगरूपः । शृङ्गारस्य सम्भोगविप्रलम्भरूपद्विप्रभेदत्वात् । भेदः । परस्परालिङ्गनाधरपानचुम्बनादिभेदात् । च पुनः । प्रत्येकं परस्परालिङ्गनायेकैकम् । विभावादिवैचित्र्यात् ।' सख्यातुम् । अशक्यः। का। पुनरिति शेषः । सर्वेषां तत्तत्प्रभेदानाम् । इति ।