________________
परिच्छेदः ]
afeराख्यया व्याख्यया समेतः ।
३१५
अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं प्रवेशः, न तु तिरोभावः । अत एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था । विवक्षितामिधेयोऽपि द्विभेदः प्रथमं मतः ।
२८५
असंलक्ष्यक्रमो यत्र व्यङ्गयो लक्ष्यक्रमस्तथा ॥ २०१ ॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमध्यङ्गयः संलक्ष्यक्रमव्यङ्गयश्चेति द्विविधः ।
एवं प्राचां संवादं निर्दिश्य प्रकृतार्थ प्रस्तावयति - अत्रेत्यादिना । अत्रास्मिन् । आद्ये पूर्वमुदाहृते 'कदली कदली- 'त्यादिरूपे पये इति यावत् । मुख्यार्थस्य कदल्यादिरूपस्य । अर्थान्तरे जाड्यादिरूपे सामान्यकदल्या दिरूपार्थतो भिन्ने । सङ्क्रमणं नामेति शेषः । प्रवेशः । तु पुनः । तिरोभावः । मुख्यार्थस्येति शेषः । न । नहि प्रवेशस्तिरोभावमाहेति भावः । किं तत इत्याह- अतः । एव । अत्रास्मिन् निर्दिष्टस्थले | अजहत्स्वार्थोपादानापरपर्याया । लक्षणा । द्वितीये 'निश्वासान्धः - ' इत्युदाहृते । तु पुनः । स्वार्थस्य दृष्टिहीनादिरूपस्य । अत्यन्तं सर्वथैव । तिरस्कृतत्वाद् बाधितत्वाद्वाधितस्वरूपत्वादिति यावत् । जहत्स्वार्था लक्षणलक्षणा । ज्ञेयेति शेषः ।
एवं लक्षणामूलस्य ध्वनेर्निरूपणानन्तरमभिधामूलस्य ध्वनेर्निरूपणमुपक्रमते - २८५ विवक्षिताभिधेय इत्यादिना । २८५ विवक्षिताभिधेयो विवक्षितोऽभिधयोवाच्यार्थोऽ' न्यपर' इति शेषो यत्र सः । तदभिधेयोऽभिधामूलो ध्वनिरिति यावत् । अपि तत्र तावद् यथा ध्वनिरविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति लक्षणाऽभिधामूलत्वेन द्विप्रभेदः, तत्पुनरविवक्षितवाच्याख्यो लक्षणामूलो ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति यथाऽजहत्स्वार्था मूलत्वेन जहत्स्वार्थामूलत्वेन च द्विप्रभेदस्तथैवाभिधामूलोऽप्ययमित्यर्थः । प्रथमं पूर्वम् । मतः । पश्चादस्यापरे भेदा वक्तव्या इति भावः । कौ तौ तस्य द्वौ प्रभेदावित्याह-यत्र यस्मिन् । ध्वनाविति शेषः । असंलक्ष्यक्रमो न सम्यग् लक्ष्यो लक्षयितुं शक्यः क्रमः पौवापयै यत्र सः । व्यङ्गयो व्यञ्जनया बोध्योऽर्थ इत्यर्थः । स एक इति शेषः । तथा । यत्रलक्ष्यक्रमो लक्ष्यो लक्षयितुं शक्य इति यावत् क्रमो यस्य सः । व्यङ्गय इति पूर्वेणान्वयः । स द्वितीयो भेदः । विवक्षितान्यपरवाच्यस्य ध्वनेरसंलक्ष्यक्रमव्यङ्गयः संलक्ष्यक्रमव्यङ्गयश्चेति द्वौ प्रभेदाविति भावः ॥ २०१ ॥
एतदेवाह - विवक्षितान्यपरवाच्य इत्यादिना ।
व्यङ्गयो यत्र स इत्यर्थः ।
विवक्षितान्यपरवाच्यो विवक्षितो वक्तुमभिलषितोऽन्यपरो व्यङ्गयनिष्ठो वाच्यो यत्र सः । अभिधामूल इति शेषः । ध्वनिः । अपि । असंलक्ष्यक्रमव्यङ्गयो न सम्यग् लक्ष्यो लशयितुं शक्यः क्रमः पौर्वापर्य व्यञ्जकेन वाच्येन ( विभावाद्यर्थेन समम् ) यस्य तादृशो रसस्तावद्व्यङ्गयः, व्यञ्जकश्च तस्य विभावादिरित्यस्ति तयोः पौवापर्यं क्रमः किन्तु न स सम्यग् लक्ष्यते । अनाविले हि प्रस्तावे सपदि प्रतीतिमुपगतेषु विभावानुभावव्यभिचारिषु सहृदयमहनीयेन प्रमात्रा नितान्तं सूक्ष्मेणैव कालेन सोऽनुभाव्यत इति तदानीं चेतस आखादावलेह परवशत्वात्तस्य चोत्पलपत्रशतभेदन्यायेन रसस्य झटिति सूक्ष्मेणैव कालेन प्रतीतत्वान्नसंलक्ष्यक्रमत्वम् । इति भावः । संलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यः क्रमो यस्य स व्यङ्गययत्र सः । च पुनः । इति । द्विविधः । यत्र वाच्य ( विभावादि) व्यङ्ग्य ( रसादि) यो रतिसूक्ष्मत्वेन न संलक्ष्यं पौर्वापर्य सोऽसंलक्ष्यक्रमव्यङ्गयः । यत्र तु विचारावगम्यः प्रस्तावः, उद्भाव्या वा विभावादयः, तत्र सामग्रीविलम्बाधीनः चमत्कारस्योद्भाव इति संलक्ष्यते क्रमो व्यङ्ग्यस्येति स संलक्ष्यक्रमव्यङ्गयः । निर्बाधं चैवं भेदद्वितयम् ।
नन्वभावनिरूपणस्य भावनिरूपणपूर्वकत्वात् संलक्ष्यक्रमव्यङ्गयस्य ध्वनेर्निरूपणानन्तरमेवासंलक्ष्यक्रमव्यङ्गयस्यापि निरूपणौचित्यं सिद्धम्, अथ कथमत्रासंलक्ष्यक्रमव्यङ्गयनिरूपणानन्तरं संलक्ष्यक्रमव्यङ्गयनिरूपणं सङ्गच्छेतेति चेत् ! सूचीकटाहन्यायात् । असंलक्ष्यक्रमन्यङ्गचो ह्येकप्रभेदः, तदितरः पुनः पञ्चदशप्रभेद इत्येके । अपरे त्वाहुः - उभयोः समानकक्षत्व एवायं प्रवर्त्तते न्यायः । प्रकृते पुनर्भावाभावयोः पौर्वापर्यनियमात् संलक्ष्यक्रमव्यङ्गयस्यैव ध्वनेर्निरूपणौ