________________
३१४
साहित्यदर्पणः।
[ चतुर्थः
तदुक्तम्
'क्वचिद् बाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्रैवाभिधैव तु ॥'
क्षणाशङ्का विपरीतलक्षणाया विरुद्धार्थप्रतिपादिकाया लक्षणाया आशङ्का। न। कार्या। कुत इत्याह-यत्र यस्मिन् स्थले । खल वाक्यालङ्कारः। 'खलु स्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने । वीप्सामाननिषेधेषु पूरणे पादवाक्ययो' रिति मेदिनीकारोक्तेः । विधिनिषेधौ । उत्पत्स्यमानावुत्पत्स्यमानान्वयबोधाविति यावत् । अन्वयबोधात् प्रागिति शेषः । एव । निषेधविध्योः । पर्यवस्यतः । तत्र । एव । तदवसरस्तस्या विपरीतलक्षणाया अवसरः । पुनः । यत्र । प्रकरणादिपर्यालोचनेन । आदिपदेन देशकालाद्युपग्रहः । विधिनिषेधयोः । विषये इति शेषः । निषेधविधी। अवगम्यते न तु पर्यवस्यत एव । तत्र ध्वनित्वम् । अभिधामूलध्वनित्वमित्यर्थः । एव निर्वाधम् । अत्रेदमभिहितं भवति- 'उपकृतं बहु तत्र किमुच्यते' इत्यादी अपकारिणं प्रत्युक्तिरित्यस्त्येव तदवसरः । अत्र तु न तथात्वम् धार्मिकं प्रत्येव तथोक्तिसत्त्वात् । कुलटायाः सङ्केतभङ्गोविनाया न भ्रमणानुज्ञा युज्यते तत एव तस्यास्तथात्वात् । इत्येवं प्रकरणादिपर्यालोचनमात्रेण भ्रमणविध्यनुज्ञा तनिषेधरूपेणावगम्यते न तु पर्यवस्यतीत्यस्त्येवात्र ध्वनित्वं विपरीतलक्षणाऽभाव श्वेति । अत्र चाभिनवगुप्तपादाः-'खतः सिद्धमपि भ्रमणं श्वभयेनापोहितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु वियोगप्रैषादिरूपोऽत्र विधिः । अतिसर्गप्राप्तकालयोह्ययं लोट् । तत्र भावतदभावयोर्विरोधाद् द्वयोस्तावन्न युगपद् पाच्यता, न क्रमेण । विरम्य व्यापारद्वयाभावात् । 'विशेष्यं नाभिधा गच्छे'दित्यादिनाऽभिधाया विरम्य व्यापा. रासम्भवाभिधानात् । ननु तात्पर्यशक्तिरपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थान्वयरूपमुख्यार्थबाधकवलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयदृशा करोतीति शब्दशक्तिमूल एव सोऽर्थः । एवमनेनोक्तमिति हि व्यवहारस्तत्र वाच्यातिरिक्तोऽन्योऽर्थः । इति नैतत् । त्रयो पत्र व्यापाराः संवेद्यन्ते-पदार्थेषु सामान्यात्मखभिधाव्यापारः, समयापेक्षाऽर्थावगमनशक्तिः, अभिधासमयश्च । तावत्येव न विशेषांशे, आनन्त्याद् व्यभिचाराच । एकस्प ततो विशेषरूपे वाक्याथें तात्पर्यशक्तिः परस्परान्विते । 'सामान्यस्यान्यथासिद्धेर्विशेषं गमयन्ति हि ।' इति न्यायात् । तत्र च द्वितीयकक्ष्यायां भ्रमेति विध्यतिरिक्तं न किञ्चित् प्रतीयते, अन्वयमात्रस्यैव प्रतिपन्नत्वात् । नहि 'गङ्गाया घोषः ।' 'सिंहो वटुः' इत्यत्र च यथाऽन्वय एव बुभूषन् प्रतिहन्यते योग्यताविरहात् । तथा तव भ्रमणनिषेद्धा स श्वा सिंहेन हतः । तदिदानी भ्रमणनिषेधककारणवैकल्प्याड्रमण तवोचितमित्यन्वयस्य न काचित् क्षतिः । अत एव मुख्यार्थबाधा नात्र शङ्कयेति । न विपरीतलक्षणाया अवसरः । भवतु वाऽसौ । तथाऽपि द्वितीयस्थानसक्रान्तत्वाभावादसौ न भवति । तथा हि मुख्यार्थबाधायां लक्षणाप्रकृतिः सा च विरोधप्रतीतिरेख । न चात्र पदार्थानां खात्मनि विरोधः । परस्परं विरोध इति चेत्, सोऽयं तन्वये विरोधः प्रत्येयः । न च प्रतिपन्नेऽन्वये विरोधप्रतीतिः । विप्रतिपत्तिश्चान्वयस्य नाभिधाशक्या तस्याः पदार्थप्रतिपत्त्युपक्षीणायाविरम्यव्यापाराभावादिति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः ।' इत्याहुः ।।
___ उक्तार्थे प्राचां सम्मतिं दर्शयितुमाह-तत् । यदस्माभिरुदीरितमिति शेषः । उक्तं पूज्यपादैरिति शेषः । इति । तद्वाक्य निर्दिशति-'क्वचि..' इत्यादिना।
'क्वचित् । बाध्यतया विपरीतार्थे पर्यवसन्नतया । ख्यातिः कथनम् । अन्वयबोधावतारस्येति शेषः । वचित। ख्यातस्यान्वयबोधावतारकथनविषयीभूतस्य । बाधनं बाधोबाधोदयाद्विपरीतार्थपर्यवसानमिति यावत् । पूर्वत्र यत्र क्वचिद्बाध्यतया ख्यातिस्तत्रेत्यर्थः । लक्षणा तन्मूलध्वनिः । एव। स्यात् । तु पुनः। उत्तरत्र यत्र क्वचित् ख्यातत्य बाधनं तत्रेत्यर्थः । अभिधा तन्मलध्वनिः । एव । स्यादिति पूर्वेणान्वयः ॥' अत्रेदमभिहितं भवति यत्र विधेनिषेधरूपे निषेधस्य च विधिरूपे विपरीतार्थे पर्यवसन्नतयाऽन्वयबोधः स लक्षणामूलो ध्वनिः। यत्र पुनरन्वय. बोधविषयीभूतस्य बाधे विधेनिषेधरूपेण निषेधस्य च विधिरूपेणार्थेन पर्यवसानं सोऽभिधामूलो ध्वनिः स्यादिति ।