________________
३१३
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः। 'भम धम्मिअ बीसत्थो सो सुणओ अज्ज मारिओ देण ।
गोलाणईकच्छकुडङ्गवासिणा दरिअसीहेण ॥ १७३ ॥' अत्र 'भ्रम धार्मिक' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाऽऽशङ्का न कार्या । यत्र खलु विधिनिषेधावुत्पत्स्यमानावेव निषे वस्यतस्तत्रैव तदवसरः यत्र पुनःप्रकरणादिपर्यालोचनेन विधिनिषेधयोनिषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
अन्धत्वाप्रकाशत्वयोः । सामान्यविशेषभावाभावात् सामान्यविशेषयोर्भावस्तदभावादित्यर्थः । अन्धत्वस्याप्रकाशत्वेन समं न सामान्यविशेषभावः सङ्घटते इत्यस्माद्धेतोरिति भावः । स च व्यापकत्वव्याप्यत्वात्मकः । मुख्यार्थताऽवच्छेदकलक्ष्यार्थताऽवच्छेदकयोः सत्येव व्यापकव्याप्यभावेऽर्थान्तरसङ्क्रमितवाच्यत्वमुदेति नान्यथेति । यथा-'त्वामस्मि पच्मि विदुषां समवायोऽत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥'अत्र हि 'अहं कथयामी'ति मुख्यार्थताऽवच्छेदकस्य 'आप्तोऽहमुपदिशामीति लक्ष्याविच्छेदकस्य च सामान्यविशेष ( व्यापकव्याप्य) भाव इत्यर्थान्तरसङ्क्रमितवाच्यः । ननु-'यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्च स जातः सच जीवति॥' इत्यादौ मित्रत्वशत्रुत्वानुकम्प्यत्वादीनां मुख्यार्थताऽवच्छेदकानां लक्ष्यार्थतावच्छेदकैराश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वरूपैः सह सामान्यविशेष (व्यापकव्याप्य) भावाभावेऽपि कथमर्थान्तरसमितवाच्यत्वं तहीति चेत् ? अत्रापि आश्वस्तत्वादिविशेष (व्याप्य ) स्यैव विवक्षितत्वात् । अत एव 'कदली कदली' त्युदाहृतेऽपि पद्ये 'कदलीत्वा'दिरूपस्य मुख्यार्थतावच्छेदकस्य शीतलत्वादिप्तपस्य लक्ष्यार्थताऽवच्छेदकस्य च सामान्यविशेष (व्यापकव्याप्य ) भावसद्भावादर्थान्तरसङ्क्रमितवाच्यत्वम् । न । तथेति शेषः । अर्थान्तरसङ्क्रमितवाच्यत्वम् । किन्तु अत्यन्ततिरस्कृतवाच्यत्वमेवेति भावः ।
ननु 'भम धम्मिअ... 'इत्यादी विपरीतलक्षणया स्यादत्यन्ततिरस्कृतवाच्यो ध्वनिरित्याशङ्कयाह-'भम..' त्यादि ।
'धम्मिअ धार्मिक ! गोलाणइकच्छकुडडवासिणा गोदानदीकच्छकुञ्जवासिना गोदानद्या गोदावर्याख्याया नद्याः कच्छस्तटं तत्र कुञ्जः समन्ताल्लताऽऽदिभिराच्छन्नो देशविशेषस्तत्र वासिनेत्यर्थः । 'कच्छों दुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च ।' इति हैमः । 'निकुजकुञ्जौ वा क्लीबे लताऽऽदिपिहितोदरे।' इत्यमरः । देण तेन प्रसिद्धेनेति यावत् । क्वचित तेणे'ति पाठः । तस्याप्ययमेवार्थः । दरिअसीहेण दृप्तसिंहेन । दृप्तेन सिंहेनेत्यर्थः ।.सोस दुष्टः तवोपद्रवकतत्वेना. नुभव विषयीभूत इति यावत् । सुणओ शुनकः कुकुर इति यावत् । । 'शुनको भषक: श्वा स्या' दित्यमरः । अज्ज अद्य । मारिओ मारितो मृत्यु प्रापित इति यावत् । अत इति शेषः । बीसत्थो विश्वस्तः । सन्निति शेषः । क्वचित् 'वीसद्धो' इति पाठः । तस्य 'विश्रब्धः' इत्यर्थः । भम भ्रम भ्रमणं कुरु । पद्यमिदं हालकविकृताया गाथासप्तशत्या
शतके पञ्चसप्ततिसङ्ख्याकम् । अत्र च जघनविपुला छन्दः । तल्लक्षणं च यथा-'संलङ्घय गणत्रयमादिमं शकल. द्वयोर्भवति पादः । यस्या (आर्यायाः) स्तां पिङ्गलनागो विपुलामिति समाख्याति ॥' इति । 'इयं विपुला चपलावन्मु. खजघनभेदभिन्ना भवति, प्रथमेऽर्द्ध मुखचपला, उत्तरार्धे जघनचपले'ति च बोध्यम् ॥१७३ ॥
अत्र पुनरिदमवगन्तव्यम्-कस्याश्चित् कुलटाया गोदावर्यास्तीरे कुजस्थलमेव सङ्केतस्थलं, तत्र च पवित्राणां पुष्पाणामवचयायावगाहनाय च प्रत्यहं गमनं च कस्यचिद्धार्मिकस्य तदेवं कृतसङ्केतभङ्गं स्वप्रेरितदुष्टकुक्करभयेनापि अपरित्यक्तसञ्चारं तं प्रति तस्या एव दिनान्तरे प्रभाते समये नित्यमिवोद्यन्तमुक्तिरियम् । एवं च यस्त्वां दिनान्तरे स्मोद्वेजयति सोऽद्य शुनकस्तत्रत्येन दृप्तेन मांसभक्षणेन नितान्तं लोलुपेन सिंहेन मारितो मृत्युमुपनीतः । अतो विश्वस्तः सन् यथेष्टं अमेति न विरुध्यतेऽन्वयः । न च ततो विपरीत (विरुद्ध ) लक्षणा । यतः स्यादधार्मिकेति बोधावतारः । तत् कथ. कारम् 'उपकृतं बहु तत्र किमुच्यते' इत्यत्रेवात्रापि भवेद् विपरीतलक्षणासत्त्वेनात्यन्ततिरस्कृतवाच्यत्वम् । इति ।
एतत्सर्व निर्दिशन्नाह-अत्रेत्यादि ।
अत्रास्मिन्नुदाहृते पद्य इति यावत् । 'भ्रम । धार्मिक' । इत्यत इत्यस्मात् कथनात् । भ्रमणस्य । विधिः। तदुपदेश इति यावत् । प्रकृते तात्पर्यविषयीभूतस्वैरविहारे। अनुपयुज्यमानतया नोपयुज्यमानता तया । उपयुज्यत इत्युपयुज्यमानस्तत्ता । भ्रमणनिषेधे भ्रमणस्य निषेधस्तस्मिन् । पर्यवस्यति पर्यवसितो भवति । इति । विपरीतल.