________________
साहित्यदर्पणः ।
यत्र पुनः स्वार्थ सर्वथा परित्यजन्नर्थान्तरे परिणमति तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृत वाच्यत्वम् । यथा
" निःश्वासन्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥"
३१२.
[ चतुर्थ:
अन्धशब्दो मुख्याथै बाधितोऽप्रकाशरूपमर्थ बोधयति । अप्रकाशातिशयश्च व्यङ्गयः। अन्धत्वप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम् । यथा
कवेस्तात्पर्यम् ।
अथात्यन्ततिरस्कृतवाच्यपदार्थ विवृणोति यत्रेत्यादिना ।
यत्र यस्मिंन्नित्यर्थः । पद्ये वाक्ये वेति शेषः । पुनस्त्वित्यर्थः । ' स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।' इत्यमरः एतेन सोऽस्त्येवार्थान्तरसङ्क्रमितवाच्य इति निदर्शितं प्राक् । शब्द इति शेषः । स्वार्थ स्वस्य ( शब्दस्य ) अर्थस्तम् अर्थः पुनः स्वभावसिद्धो मुख्य एवेति बोध्यम् । सर्वथा सर्वप्रकारेण । न तु येन केनैव प्रकारेणेति भावः । परित्यज समन्तात् त्यजन् । अर्थान्तरे अन्योऽर्थं इति तत्र । अन्योऽन्यप्रकारः । तत्त्वं च मुख्यार्थभिन्नत्वे सत्येवेति बोध्यम परिणमति परिणतो भवति । तत्र । यत्र शब्दस्य सर्वथैव न मुख्योऽर्थं उपयुक्तस्तत्रेत्यर्थः । मुख्यार्थस्य । अस् न्ततिरस्कृतत्वादत्यन्तं तिरस्कृतो बाधितः प्रकृतानुपयोगित्वादिति तत्त्वाद्धेतोरित्यर्थः । अत्यन्ततिरस्कृतवाच त्वमत्यन्तं सर्वथा तिरस्कृतो वाच्यो मुख्यार्थो यत्र तत्त्वमित्यर्थः ।
तदेवोदाहरति-यथेत्यादिना ।
यथा यद्वत्तत् सम्भवति तथा 'निःश्वासान्धः..' इति ।
'निःश्वासान्धो निःश्वासेन मुखनासिकाभ्यां निर्गतेन वायुनाऽन्धोदृष्टिहीन सस्तत्प्रकाशानर्ह इति भावः । आदर्श दर्पणः । इव तद्वत् । चन्द्रमा रविसङ्क्रान्तसौभाग्यः अथ तुषारावृतमण्डल इति शेषः । न प्रकाशते ।' अत्रेदं ताव बोध्यम्-यदिदं पद्याद्वै तद् भगवतो वाल्मीकिमुने रामायणे आरण्यकाण्डे षोडशे सर्गे शूर्पणखाया भाविनो मदनोद्दीपनर सूचनाय लक्ष्मणमुखेन हेमन्तवर्णनप्रस्तावे । अस्य च ' र विसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।' इति पूर्वार्द्धम् । तथा च रविसङ्क्रात्तसौभाग्यो रविणा सङ्क्रान्तं कृताक्रमणं सौभाग्यं सुभगत्वं सुन्दरत्वमिति यावत् यस्य सः । जायमानस्य सूर्यप्रका शस्य पुरस्तादस्तमितमिव सुभगत्वं यस्य तादृश इति । सूर्ये ह्यभ्युदयमाने चन्द्रः कियन्तं समयं दृश्यमानश्चित्रित इवावत ष्टते इति स्वाभाव्यात् । एतेन प्रातःकाले गोदावर्यामवगाह्य पुनरावर्त्तमानस्य ( लक्ष्मणस्य ) उक्तिरिति सङ्गच्छते । तुष रामण्डलस्तुषारेण हिमेनावृतं व्याप्तम्मण्डलं यस्य सः । हेमन्ततौं हि चन्द्रमसो मण्डलं हिमकणिका ( नीहार ) संत प्रभाते सम्भवतीति सिद्धम् । चन्द्रमाः । निःश्वासान्धः । आदर्शः । इव । न । प्रकाशते इति निष्पन्नोऽर्थः ।
अथात्र तात्पर्य निर्दिशति - अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृतस्थल इति यावत् अन्धशब्दः । मुख्यार्थे मुख्यश्वासावर्थस्तस्मिन्नित्यर्थः । स च दृष्टिहीन इति । बाधितः । तस्यार्थस्य प्रकृतानुपयोगित्वेन तिरस्कृतः सन्नित्यर्थः । अन्धशब्दस्य मुख्यार्थश्च 'अन्धयती' त्यन्ध इति व्युत्पत्त्या दृष्टयुपघातरूपः । 'अन्ध दृष्टयुपघाते' इत्यस्माच्चौरादिकादच् । अन्धोऽहगि' यमरः । अप्रकाशरूपम् । प्रकाशो यत्रेति तं रूपयति निरूपयतीति यावत् तं तथोक्तम् । यद्यपि 'अन्धतमस्यपी' त्यमरोक्त्या 'अन्धं स्याप्तिमिने बेचक्षुनेऽभिधेयवदिति मेदिनी कारोक्तया चान्धशब्दः प्रकाशाभावरूपे तिमिरार्थेऽपि निर्दिष्टः प्रतिभाति, तथाऽपि तदर्थकस्य तस्यान्धशब्दस्य क्लीबलिजनात्रत्वस्याभ्युपगमान्न प्रकृतान्वयोपयोग्यर्थकत्वम् । न च ' अन्धमस्यास्तीत्यन्ध इति वाच्यम् । ‘गुणवचनेभ्यो लुगिष्ट' इति वार्तिकस्याप्रवृत्तेः । न हि तिमिरं नाम गुणः । द्रव्यविशेषस्य तेजसो ऽभावरूपेणैव तस्य स्वीकृतत्वात् । इति दिक् । अर्थम् । बोधयति न त्वभिधत्ते । न्च तथा । अप्रकाशातिशय आदर्शस्येति शेषः । व्यङ्गयो व्यञ्जनयाऽवगम्यो ध्वन्य इति यावत् । अस्तीति शेषः । तथा च ध्वन्यत इति निष्पन्नोऽर्थः । अत्र च चाक्षु. षज्ञानाजनकत्वरूपैकधर्मवत्त्वं मुख्यलक्ष्ययोः सम्बन्ध इति बोध्यम् ।
1
ननु अत्रापि कथं नार्थान्तरसङ्क्रमितवाच्यत्वम् । मुख्यार्थस्यैव तत्र परिणतत्वादिति चेनेत्याह- अन्धत्वा प्रकाशत्वयोरित्यादिना ।