________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थ बोधयन्ति । जाड्याद्यतिशयश्च व्यङ्ग्यः ।
सह
शिशुः तस्याप्यूरुसादृश्यकल्पनासम्भवानुपपत्तेः । 'करभो मणिबन्धादिकनिष्टान्तोष्टतत्सुते ।' इति मेदिनी । 'मणिबधादाकनिष्ठं करस्य करभो बहिः ।' इत्यमरश्च । करभः। करिराजकरः। करिराजस्य गजेन्द्रस्य करो हस्तः शुण्डादण्ड इति यावत् । करः शुण्डादण्डोऽस्यातीति करी गजस्तेषां राजेति करिराजः । 'करो वर्षांपले रश्मौ पाणौ प्रत्यायबशुण्डयोः । इति मेदिनी । करिराजकरः। किन्तु-चमूरुदृशश्चमूरजिनयोनिर्मूगविशेषस्तस्येव दृशौ यस्यास्तस्याः । र्थत गनयनाया इति यावत् । 'कदली कन्दली चीनश्चमूरुप्रियकावुभौ । चमूरुश्चेति हरिणा अमी अजिनयोनयः ॥' इत्यमरः । मरिदम् । ऊरुयुगमूर्वोर्जानूपरिभागयोर्युगं द्वन्द्वम् । भुवनत्रितये। अपि । किं पुनरेकस्मिन् भुवनद्वयोर्वा भुवनयोरिति मुखावः । तुलां सादृश्यमानयोः । 'गृहाणां दारुबन्धाय पीठकायामपीष्यते । राशौ पलशते भाण्डे' इति विश्वो हेमचन्द्रो न्तरादिनी च । न । बिभर्ति दधाति ।' इदं पद्यं प्रसन्नराघवस्य । तोटकं चास्य च्छन्दः, तल्लक्षणं तु 'इह (ननु) तोटइत्यामम्बुधिसैः प्रथितम् ।' इति ॥१७२॥
____ अत्रौदाहार्य दर्शयति-अत्रेत्यादिना । च्छे अत्रास्मिन्नित्यर्थः । उदाहृते पद्य इति भावः । द्वितीयकदल्यादिशब्दा द्वितीया द्वितीयवारं पठिताः कदवाच्यादिशब्दा इत्यर्थः । पौनरुक्तयभिया पुनरुक्तत्त्व दोषभयेनोपरारात् पुनरुक्तत्वाभिधेयेन दोषेण दूषिता न
पामेति भयेनेवेति भावः । सामान्यकदल्यादिरूपे सामान्यः खभावसिद्धोऽसौ कदल्यादिरूप इति तस्मिन् । मुख्यार्थे । बाधिताः प्रकृतान्वयानुयोगित्वं गता इत्यर्थः । जाड्यादिगुणविशिष्टकदल्यादिरूपं जाड्यादिनद्यगुणैः शीतलत्वहखत्वकर्कशत्वरूपैर्गुणैर्विशिष्टाः कदत्यादयस्तद्रूपम् । अर्थम् । बोधयन्ति । च तथा । जाड्याद्यतशयः शीतलत्वाद्यतिशयः । व्यङ्यो व्यञ्जनयाऽवगम्य इत्यर्थः । तथोतं तर्कवागीशैः । जाड्यं शैत्यम् । कपिद्यपि शैत्यं पयस्येव, तथाऽपि तस्य परम्परया कदलीवृत्तित्वमनगन्तव्यम् । आदिना हृखत्वकर्कशत्वयोर्ग्रहणम् । नुन च शैत्यादीनामन्यत्रापि सत्त्वात् कथं कदल्यादिव्याप्यत्वमिति वाच्यम् । शैत्यादिविशेषस्यैवात्र विवक्षितत्वात् । अ ज्याद्य तिशयश्चेति । व्यथो लक्षणाप्रयोजनबोधविषयः । सर्वत्रैव मुख्यार्थस्याभेदः सम्बन्धः । एवं च-कदल्यतिशीता, 'वकरभोऽतिहस्वः करिराजकरोऽतिकर्कश इति हेतोश्रमूरदृश इदमीदृशमूरयुगं भुवनत्रितयेऽपि तुलां सादृश्यं न विभर्ति इित्यर्थः । घटादौ सर्वथा सादृश्यं न सम्भवति, यत्र कदल्यादौ सादृश्यं सम्भाव्यते तदतिशैत्यादिनाऽपकृष्टत्वमिति द्वः सुतरां भुवनत्रितये तुला नास्तीति भावः । अत्र व्यतिरेकालङ्कारो व्ययः ।' इति । अत्रायं निर्गलितोऽर्थः-कदली परम्भा कदल्य तिशीतला, करभो मणिबन्धमारभ्य कनिष्टापर्यन्तो हस्सस्य बाह्मो भागः करभोऽतिहस्वः, करिराजकरः शुण्डादण्डः पुनः करिराजकरोऽतिकर्कश इति चमूरदृशो मृगनायनाया इदमीदृशं तत्तदपेक्षयाऽप्यतिरां शीतलत्वादिशाल्यूस्युगं न भुवनत्रयेऽपि तुलां बिभर्तिइति व्यतिरेकालङ्कारो व्यज्यते। इति । वस्तुतस्तु-या कदली सा कदली नितान्तं जडेति कथमप्येषा श्रिया सादृश्यमधिरोहन्त्यपि ततोऽपकृष्टा, तथा यः करभः सोऽपि करभो नितान्तं हस्खो दुर्विध इति यावत् इत्येषोऽपि तथैव, यः पुनः करिराजकरः सोऽप्येवं करिराजकरो भृशं कर्कश इदं तु चमुरुशो मृगनयनाया ऊस्युगं तेभ्यः सर्वेभ्यो व्यतिरेकीति भुवनत्रयेऽपि नान्यसदृशं किन्तु खमिव खमिति न केनापि समं तुला बिभर्ति इत्यत्र व्यतिरेकोऽनन्वयश्चालङ्कारौ व्यज्यते इति । अस्मिन् भुवने या कदली रम्भा सा कदली नितान्तं विशिष्टो, अथ यः करभः करे भातीति तथोक्तश्चूडाकारो भुजगेशशिरोमणिः स करभो नितान्तं मध्ये मध्ये निम्नोन्वतत्वशाली, यः पुनरुपरिष्टात् करिराजकर ऐरावतशुण्डादण्डः सोऽपि करिराजकरो नितान्तं कर्कश इति स्फुटं भुवनत्रयेऽपि चमूरदृश इदमूरुयुगं न तुलां बिभर्ति । इति वा कवेस्तात्पर्य्यम् ।
6